पूर्वम्: ४।४।९४
अनन्तरम्: ४।४।९६
 
सूत्रम्
हृदयस्य प्रियः॥ ४।४।९५
काशिका-वृत्तिः
हृदयस्य प्रियः ४।४।९५

निर्देशादेव समर्थविभक्तिः। हृदयशब्दात् षष्ठीसमर्थात् प्रियः इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। हृदयस्य प्रियः हृद्यः देशः। हृद्यं वनम्। संज्ञाधिकारादभिधेयनियमः। इह न भवति, हृदयस्य प्रियः पुत्रः इति।
न्यासः
ह्मदयस्य प्रियः। , ४।४।९५

"ह्मद्यः" इति। "ह्मदयस्य ह्मल्लेख" ६।३।४९ इत्यादिना ह्मद्भावः॥
बाल-मनोरमा
ह्मदयस्य प्रियः १६२७, ४।४।९५

ह्मदयस्य प्रियः। षष्ठ()न्ताद्धृदयशब्दात्प्रिय इत्यर्थे यत्स्यादित्यर्थः।

तत्त्व-बोधिनी
ह्मदयस्य प्रियः १२५४, ४।४।९५

ह्मदयस्य। प्रीणतीति प्रियः। "इगुपधे"ति कः। कृद्योगात्कर्मणि षष्ठी, अलौकिके तद्धित प्रकृतिभागे तु वचनसामथ्र्यादेव। एवमन्यत्रापि बोध्यम्।