पूर्वम्: ४।४।९८
अनन्तरम्: ४।४।१००
 
सूत्रम्
प्रतिजनादिभ्यः खञ्॥ ४।४।९९
काशिका-वृत्तिः
प्रतिजनाऽदिभ्यः खञ् ४।४।९९

प्रतिजनादिभ्यः शब्देभ्यः खञ् प्रत्ययो भवति तत्र साधुः इत्येतस्मिन्नर्थे। यतो ऽपवादः। प्रतिजने साधुः प्रातिजनीनः। जने जने साधुः इत्यर्थः। ऐदंहुगीनः। सांयुगीनः। प्रतिजन। इदंयुग। संयुग। समयुग। परयुग। परकुल। परस्यकुल। अमुष्यकुल। सर्वजन। विश्वजन। पञ्चजन। महाजन। प्रतिजनादिः। यत्र हितार्थ एव साध्वर्थस्तत्र वचनात् प्राक्क्रीतीया बाध्यन्ते।
न्यासः
प्रतिजनादिभ्यः खञ्। , ४।४।९९

जनं जनं प्रति प्रतिजनम्, "यथार्थेऽव्ययम्" २।१।६ इत्यव्ययीभावः। "परस्यकुलम्, अमुष्यकुलम्" इति। निपातनादलुक्। "षष्ठ()आ आक्रोशे" ६।३।२० इति वा यदा परकुलत्वेनाक्रुश्यते। "यत्र" इत्यादि। "प्रतिजन" , "सर्वजन" इत्येवमादिषु केषुचिद्धितार्थ एव प्रतियते, न तु प्रवीणो योग्यशब्दस्यार्थः। तेन तत्र वचनसामथ्र्यात् परेऽपि प्राक्क्रीतीयाः प्रत्यया बाध्यन्ते। अन्यथा हि वचनमनर्थकं स्यात्॥
बाल-मनोरमा
प्रतिजनादिभ्यः खञ् १६३१, ४।४।९९

प्रतिजनादिभ्यः खञ्। तत्र साधुरित्येव। सप्तम्यन्तेभ्य एभ्यः साधुरित्यर्थे खञ् स्यादित्यर्थः। प्रातिजनीन इति। "प्रतिजन"मिति वीप्सायामव्ययीभावः। तत्र साधुरित्यर्थः। एवं-वै()आजनीनः।

तत्त्व-बोधिनी
प्रतिजनादिभ्यः खञ् १२५८, ४।४।९९

प्रतिजनमिति। जनंजनं प्ति[जनो जन इति] प्रतिजनम्। वीप्सायामव्ययीभावः। प्रतिजन, इदंयुग, संयुग, पापकुल, परस्यकुल, अमुष्यकुल, सर्वजन, वि()आजन, पञ्चजन। "परस्य""अमुष्य"इति षष्ठ()एषा निपातनादलुक्।