पूर्वम्: ४।४।९७
अनन्तरम्: ४।४।९९
 
सूत्रम्
तत्र साधुः॥ ४।४।९८
काशिका-वृत्तिः
तत्र साधुः ४।४।९८

तत्र इति सप्तमीसमर्थात् साधुः इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। सामसु साधुः सामन्यः। वेमन्यः। कर्मण्यः। शरण्यः। साधुः इह प्रवीणो योग्यो वा गृह्यते, न उपकारकः। तत्र हि परत्वात् तस्मै हितम् ५।१।५ इत्यनेन विधिना भवितव्यम्।
लघु-सिद्धान्त-कौमुदी
तत्र साधुः ११३७, ४।४।९८

अग्रे साधुः - अग्र्यः। सामसु साधुः सामन्यः। ये चाभावकर्मणोरिति प्रकृति भावः। कर्मण्यः। शरण्यः॥
न्यासः
तत्र साधुः। , ४।४।९८

"सामन्यः" इति। "ये चाभावकर्मणोः" ६।४।१६८ इति प्रकृतिभावः। साधुरिह निपुणः, योग्य इति भावः॥
बाल-मनोरमा
मतजनहलात्करणजल्पकर्षेषु १६२९, ४।४।९८

मतजनहलात्। "यथासङ्ख्यामेभ्यः। एष्वर्थेषु य"दिति शेषः। मतं ज्ञानमिति। मनधातोर्भावे क्त इति भावः। करणं भावः साधनं वेति। कृञ्धातोर्भावे करणे वा ल्युटि करणशब्दः। तेन जननक्रिया वा जननसाधनं वा विवक्षितमित्यर्थः। मत्यमिति। ज्ञानस्य जननक्रिया जननसाधनं वेत्यर्थः।

बाल-मनोरमा
तत्र साधुः १६३०, ४।४।९८

तत्र साधुः। सप्तम्यन्तात्साधुरित्यर्थे यत्स्यादित्यर्थः। अग्रय इति। अग्रे साधुरित्यर्थः। साधुरत्र प्रवीणो गृह्रते, नतु हितः, तत्र "तस्मै हित"मिति वक्ष्यमाणत्वात्।

तत्त्व-बोधिनी
तत्र साधुः १२५७, ४।४।९८

तत्र साधुः। सा४धुरिह प्रवीणो योग्यो वा गृह्रते, निपकर्ता। तत्र हि परत्वात् "तस्मै हित"मित्येन भाव्यम्। संज्ञाधिकारादुपकर्ता न गृह्रत इत्यन्ये।