पूर्वम्: ५।१।१०६
अनन्तरम्: ५।१।१०८
 
सूत्रम्
प्रकृष्टे ठञ्॥ ५।१।१०७
काशिका-वृत्तिः
प्रकृष्टे ठञ् ५।१।१०८

कालातित्येव, तदस्य इति च। प्राप्तम् इति निवृत्तम्। प्रकर्षेण कालो विशेष्यते। प्रकर्षे वर्तमानात् कालात् प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठञ् प्रत्ययो भवति। प्रकृष्टो दीर्घः कालो ऽस्य कालिकमृणम्। कालिकं वैरम्। ठञ्ग्रहणं विस्पष्टार्थम्।
न्यासः
प्रकृष्टे ठञ्?। , ५।१।१०७

"प्रकृष्टम्()" इति। "नपुंसके भावे क्तः" ३।३।११४। कालस्य दीर्घत्वमिह प्रकृष्टशब्देनोच्यते। अथ ठञ्ग्रहणं किमर्थम्(), यावता प्रकृत एव ठञ्(), तत्र प्रकृष्टमित्येतावदेव वक्तव्यम्()? इत्याह--"ठञ्ग्रहणं विस्पष्टार्थम्()" इति असति हि ठञ्ग्रहणे यतोऽनन्तरत्वात्? स एव विधीयत इति कस्यचिद्भ्रान्तिः स्यात्। तस्मान्मन्दबुद्धि प्रवक्तारं प्रति विस्पष्टार्थं ग्रहणम्()॥
बाल-मनोरमा
प्रकृष्टे ठञ् १७४८, ५।१।१०७

प्रकृष्टे ठञ्। अस्य प्राप्त इत्यर्थे प्रकृष्टवृत्तेः कालशब्दाट्ठञित्यर्थः। यतोऽपवादः। प्रकृष्टशब्दस्य विवरणं-दीर्घ इति।

तत्त्व-बोधिनी
प्रकृष्टे ठञ् १३४६, ५।१।१०७

प्रकृष्टे ठञ्। प्रकृष्यते अयमिति प्रकृष्टः। कर्मणि क्तः। तेन च प्रकर्षेण कालो विशेष्यते इत्याह---दीर्घः काल इति। ठञ्()ग्रहणं विस्पष्टार्थम्, अन्यथा अनन्तरस्य यतोऽनुवृत्तिराशङ्क्येत।