पूर्वम्: ५।१।१०
अनन्तरम्: ५।१।१२
 
सूत्रम्
माणवचरकाभ्यां खञ्॥ ५।१।११
काशिका-वृत्तिः
माणवचरकाभ्यां खञ् ५।१।११

माणवचरकशब्दाभ्यां खञ् प्रत्ययो भवति तस्मै हितम् इत्येतस्मिन् विषये। छस्य अपवादः। माणवाय हितम् माणवीनम्। चारकीणम्।
न्यासः
माणवचरकाभ्यां खञ्?। , ५।१।११

उभयस्मिन्? ञित्करणं स्वरार्थम्()। चरके वृद्ध्यर्थं च। माणवे तु "वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे" ६।३।३८ इति पुंवद्भावप्रतिषेधार्थम्()। माणवीना बार्यां यस्य स माणवीनाभार्य इति॥
बाल-मनोरमा
माणवचरकाभ्यां खञ् १६५१, ५।१।११

माणवीनमिति। मनोः कुत्सितमपत्यं माणवः। "अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकोऽण्स्मृतः। नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः" इत्यपत्याधिकारवार्तिकात्। माणवाय हितमिति विग्रहः। चारकीणमिति चरतीति चरः। पचाद्यच्। ततः स्वार्थिकः कः। [चरकाः]। चरकाय हितमिति विग्रहः।

तत्त्व-बोधिनी
माणवचरकाभ्यां खञ् १२७५, ५।१।११

माणव। खञो ञित्करणं वृद्द्यर्थं स्वरार्थं च। यद्यपि माणवे वृद्धिः स्वतः सिद्धैव, तथापि "माणविनाभार्य"इत्यत्र "वृद्धिनिमित्तस्य चे"ति पुंवद्भावप्रतिषेधार्थमिति ज्ञेयम्। माणवायेति। मनोः कुत्सितमपत्यं माणवः। "अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्यस्तेन सिद्द्यति माणवः"इत्यपत्याधिकारस्थवार्तिकाण्णत्वम्, तच्च वार्तिकमेतत्सूत्रस्थनिर्देशसिद्धार्थकथनपरमित्याहुः। चारकीणमिति। चरतीति चरः। पचाद्यच्। "चरिचलिपतिवदीना"मिति द्विर्वचनं विकल्पितत्वादिह नभवति। ततः संज्ञायां कनि---चरकः।