पूर्वम्: ५।१।९
अनन्तरम्: ५।१।११
 
सूत्रम्
सर्वपुरुषाभ्यां णढञौ॥ ५।१।१०
काशिका-वृत्तिः
सर्वपुरुषाभ्यां णढञौ ५।१।१०

सर्वपुरुषाभ्यां यथासङ्ख्यं णडञौ प्रत्ययौ भवतः तस्मै हितम् इत्येतस्मिन् विषये। छस्य अपवादः। सर्वस्मै हितम् सार्वम्। पौरुषेयम्। सर्वाण्णस्य वा वचनम्। सार्वम्, सर्वीयम्। पुरुषाद्वधविकारसमूहतेन कृतेष्विति वक्तव्यम्। पौरुषेयो वधः, पौरुषेयो विकारः, पौरुषेयः समूहो वा। तेन कृते पौरुषेयो ग्रन्थः।
न्यासः
सर्वपुरुषाभ्यां णढञञौ। , ५।१।१०

"सर्वाण्णस्य वावचनम्()" इति। अभिधानेऽभिधेयोपचाराद्वेति विकल्प्माह। इहापि विभाषाग्रहणानुवृत्तेरेव वेदितव्यम्()। न च सर्वपुरुषाभ्यां विकल्प आशङ्का; व्यवस्थितविभाषात्वात्()। "पुरुषाद्वध" इति। तत्र वधे--"तस्येदम्()" ४।३।१२० इत्यणोऽपवादः, विकारे--"प्राणिरजतादिब्योऽञ्()" ४।३।१५२ इत्यञः, समूहेऽपि--"तस्य समूहः" ४।२।३६ इत्यणः। "तेन कृते ग्रन्थे" ["कृते ग्रन्थे" इत्येव पाणिनीयं सूत्रम्()] ४।३।११६ इत्यण एव॥
बाल-मनोरमा
सर्वपुरुषाभ्यां णढञौ १६५०, ५।१।१०

सर्वपुरुषाभ्याम्। सर्व, पुरुष आभ्यां चतुथ्र्यन्ताभ्यां क्रमाण्णढञौ स्तो हितमित्यर्थे इत्यर्थः।

सर्वाण्ण इति। अत्र सर्वशब्दस्य स्वरूपपरत्वान्न सर्वनामकार्यम्।

पुरुषाद्वधेति। वार्तिकमिदम्। पुरुषशब्दाद्वधादिष्वेवार्थेषु ढञ्स्यात्, न हितार्थे इत्यर्थः। ननु "तेन कृत"मिति समुदायस्य असुबन्तत्वात्कथं समासे निवेश इत्यत आह--भाष्येति। अणि प्राप्ते इति। "अनेन ढ"ञिति शेषः। प्राणीति। रजतादित्यादञि प्राप्ते अनेन ढञित्यर्थः। समूहेऽप्यणि प्राप्ते इति। पुरुषाणां समूह इत्यर्थे "तस्य समूहः" इत्यणि प्राप्ते अनेन ढञित्यर्थः। पौरुषेयवृता इवेति। पुरुषसमूहवृता इवेत्यर्थः। परित आदर्शप्रतिफलनादिति भावः। तेन कृते इति। पुरुषेण कृतो ग्रन्थ इत्यर्थे "कृते ग्रन्थे" इत्यणि प्राप्ते, "पुरुषेण कृतः प्रासाद" इत्यर्थे तु कस्मिन्नपि प्रत्यये अप्राप्ते अनेन ढञित्यर्थः। माणव। आभ्यां चतुथ्र्यन्ताभ्यां हितमित्यर्थे खञ्स्यादित्यर्थः।

तत्त्व-बोधिनी
सर्वपुरुषाभ्यां णढञौ १२७४, ५।१।१०

सर्वपुरुषाभ्याम्। आभ्यां शब्दाभ्यां यथासङ्ख्यं णढञौ स्तस्तस्मै हितमित्यर्थे, "प्राक्क्रीता"दिति छस्यापवाद इति सूत्रार्थः।

सर्वाण्णो वेति वक्तव्यम्। सर्वादिति। अनुकरणत्वात्सर्वनामकार्याऽभावः।

पुरुषाद्वधविकारसमूहतेनकृतेषु। पुरुषाद्वधविकारेति। योग्यताबलादिह षष्ठी समर्थविभक्तिर्लभ्यते, "तेन कृते"त्यत्र थु उपात्तैव तृतीया। तदाह----पुरुषस्य वध इति। समूहेऽप्यणीति। "तस्य समूहः"इत्यनेन। ग्रन्थेऽणीति। "कृते ग्रन्थे "इत्यनेन। अप्राप्ते इति। "पौरुषेयः प्रासाद"इत्यादौ न कस्याप्यपवादोऽयं ढञिति भावः।