पूर्वम्: ५।१।१०८
अनन्तरम्: ५।१।११०
 
सूत्रम्
विशाखाऽ‌ऽषाढादण् मन्थदण्डयोः॥ ५।१।१०९
काशिका-वृत्तिः
विशाखाऽषाढादण् मन्थदण्डयोः ५।१।११०

विशाखाषढाशब्दाभ्याम् अण् प्रत्ययो भवति तदस्य प्रयोजनम् इत्येतस्मिन् विषये यथासङ्ख्यम् मन्थदण्डयोरभिधेययोः। विशाखा प्रयोजनम् अस्य वैशाखो मन्थः। आषाढो दण्डः। चूडादिभ्य उपसङ्ख्यानम्। चूडा प्रयोजनम् अस्य चौडम्। श्रद्धा प्रयोजनम् अस्य श्राद्धम्।
न्यासः
विशाखाषाढादण्मन्थदण्डयोः। , ५।१।१०९

ठञपवादो योगः। मन्थोऽवक्षारो विलोडनदण्डो वा॥
बाल-मनोरमा
विशाखाषाढादण्मन्थदण्डयोः १७५०, ५।१।१०९

विशाखाषाढात्। विशाखाशब्दादाषाढशब्दाच्च प्रथमान्तादस्य प्रयोजनमित्यर्थे अण् स्यात्, समुदायेन मन्थे दण्डे च क्रमाद्गम्ये सतीत्यर्थः। तदाह--आब्यामिति। स्थूणामेका निखाय तस्यां रज्जुद्वयमधरोत्तरमासज्य तयो रज्ज्वोर्मन्थनदण्ड ऊध्र्वमासज्यते। येन रज्ज्वा भ्रामितेन दधि विलोड()ते इति स्थितिः। तत्र स्थूणा मन्थ इत्युच्यते। मन्थानाख्यदण्डो दण्ड उच्यते। अनयोर्वैशाखशब्द आषाढशब्दश्च रूढौ। तत्रावयवार्थाभिनिवेशो न कर्तव्यः।

चूडादिभ्य इति। चूडादिभ्यः प्रतमान्तेभ्योऽस्य प्रयोजनमित्यर्थे अणित्यर्थः। चौडमिति। चूडाप्रयोजनमस्येति विग्रहः। डलयोरभेदाच्चौलमित्यपि। श्राद्धमिति। श्रतद्धा प्रयोजनमस्येति विग्रहः। श्रद्धाशब्दादणि श्राद्धमित्यर्थः। अत्र प्रयोजनशब्दः कारणवाची। श्रद्धाहेतुकमिति यावत्।