पूर्वम्: ५।१।१०९
अनन्तरम्: ५।१।१११
 
सूत्रम्
अनुप्रवचनादिभ्यश्छः॥ ५।१।११०
काशिका-वृत्तिः
अनुप्रवचनाऽदिभ्यश् छः ५।१।१११

अनुप्रवचनादिभ्यः प्रातिपदिकेभ्यः छः प्रत्ययो भवति तदस्य प्रयोजनम् इत्यस्मिन् विषये ठञो ऽपवादः। अनुप्रवचनं प्रयोजनम् अस्य अनुप्रवचनीयम्। उत्थापनीयम्। विशिपूरिपतिरुहिप्रकृतेरनात् सपूर्वपदादुपसङ्ख्यानम्। गृहप्रवेशनं प्रयोजनम् अस्य गृहप्रवेशनीयम्। प्रपापूरणीयम्। अश्वप्रपतिनीयम्। प्रासादारोहणीयम्। स्वर्गादिभ्यो यद् वक्तव्यः। स्वर्गः प्रयोजनम् अस्य स्वर्ग्यम्। यशस्यम्। आयुष्यम्। काम्यम्। धन्यम्। पुण्याहवाचनादीभ्यो लुग् वक्तव्यः। पुण्याहवाचनं प्रयोजनम् अस्य पुण्याहवाचनम्। स्वस्तिवाचनम्। शान्तिवाचनम्। अनुप्रवचन। उत्थापन। प्रवेशन। अनुप्रवेशन। उपस्थापन। संवेषन। अनुवेशन। अनुवचन। अनुवादन। अनुवासन। आरम्भण। आरोहण। प्ररोहण। अन्वारोहण। अनुप्रवचनादिः।
न्यासः
अनुप्रवचनादिभ्यश्चः। , ५।१।११०

"विशिपूरी" इत्यादि। "विश प्रवेशने" (धा।पा।१८२४), "पूरी आप्यायने" (धा।पा।१८०३), "पत्लृ गतौ" (दा।पा। ८४५) "रुह बीजजन्मनि" (धा।पा। ८५९)--एताः प्रकृतयो यस्यानस्य "युवोरनाकौ" ७।१।१ इति युस्थाने विहितस्यानः, तस्माद्विद्यमानपूर्वपदाच्छ उपसंख्येयः। केवलस्यानस्य सपूर्वपदत्वं न सम्भवतीति तस्य शब्दस्येदं विशेषणं विज्ञायते। गृहप्रवेशनं प्रयोजनं यस्य तत्र गृहप्रवेशनशब्दो विशिप्रकृत्यनन्तः, गृहशब्देन च सपूर्वपदः। यदि तर्हि विश्यादिप्रकृत्यनन्ताच्छशब्दाच्छ उपसंख्यायते, अनुप्रवचनादिषु संवेशनारोहणादीनां पाठोऽनर्थकः; तस्यैव प्रपञ्चार्थत्वात्()॥
बाल-मनोरमा
अनुप्रवचनादिभ्यश्छः १७५१, ५।१।११०

अनुप्रवचनादिभ्यश्चः। प्रथमान्तादनुप्रवचनादिशब्दादस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः। अनुप्रवचनं नाम उपनयनाङ्गं किञ्चित्कर्म आ()आलायनसूत्रे प्रसिद्धम्।

तत्त्व-बोधिनी
अनुप्रवचनादिभ्यश्छः १३४८, ५।१।११०

अनुप्रवचना। अनुप्रवचनं नाम ब्राह्मौदनमुच्यते।