पूर्वम्: ५।१।१८
अनन्तरम्: ५।१।२०
 
सूत्रम्
आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्॥ ५।१।१९
काशिका-वृत्तिः
आऽर्हादगोपुच्छसङ्ख्यापरिमाणाट् ठक् ५।१।१९

तदर्हति ५।१।६२ इति वक्ष्यति। आ एतस्मादर्हसंशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः ठक् प्रत्ययस् तेष्वधिकृतो वेदितव्यः, गोपुच्छादीन् वर्जयित्वा। अभिविधावयम् आकारः, तेन अर्हत्यर्थो ऽपि ठक् भवत्येव। ठञधिकारम् अध्ये तदपवादः ठग्विधीयते। वक्ष्यति तेन क्रीतम् ५।१।३६। नैष्किकम्। पाणिकम्। अगोपुच्छसङ्ख्यापरिमाणातिति किम्? गोपुच्छेन क्रीतं गौपुच्छिकम्। सङ्ख्या षाष्टिकम्। परिमाण प्रास्थिकम्। कौडविकम्। ठञ् प्रत्युदाह्रियते। सङ्ख्यापरिमाणयोः को विशेषः? भेदगणनं सङ्ख्या एकत्वादिः। गुरुत्वमानम् उन्मानं पलादि। आयाममानं प्रमाणं वितस्त्यादि। आरोहपरिणाहमानं परिमाणं प्रस्थादि। ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः आयामस्तु प्रमाणं स्यात् सङ्ख्या बाह्या तु सर्वतः।
न्यासः
आर्हादगोपुच्छसंख्यापरिमाणाठ्ठक्?। , ५।१।१९

"तदर्हति" ५।१।६२ इत्येको विधिः, "तदर्हम्()" ५।१।११६ इति द्वितीयः, तत्? कस्येहावधित्वेनोपादानम्()? इत्याह--"तदर्हति" इत्यादि। इतरस्य ग्रहणं कस्मान्न भवति? एवं मन्यते यदि तस्य ग्रहणभिप्रेतं स्यात्? "प्राग्वतेः" ५।१।१८ इत्यनेनैव सम्बन्धं कुर्यात्(), न "आर्हात्()" इत्यनेन। ननु च वत्यर्थेऽपि नैतदस्ति; यद्यपि वत्यर्थेऽपि ठगधिक्रियते, तथापि तत्र तेन न भवितव्यम्(); प्रतिपदविहितेन वतिना बाधितत्वात्(), अनभिधानाद्वा। तस्मादर्हतिशब्दैकदेशस्यैवार्हशब्दस्यावधित्वं न्याय्यम्()। "गोपुच्छादीन्? वर्जयित्वा" इति। कथं पुनरेतज्ज्ञायते--अगोपुच्छादिति प्रतिषेधोऽयमिति? अन्यस्यार्थस्येहासम्भवात्()। ननु चायमर्थः स्यात्()--अगोपुच्छशब्दात्? संख्यायाः परिमाणाच्चेति? अशक्योऽयमर्थं इह सम्भावयितुम्()। यदि ह्रयमर्थः स्यात्(), निष्कादिभ्यः परिमाणादेव सिद्धत्वात्? पुनर्वचनमनर्थकं स्यात्()। ननु च नियमार्थं पुनर्वचनं स्यात्()--असमास एव यथा स्यादिति? नैतदस्ति; न हि विधौ सति नियमार्थता युक्ता। नियमे हि सत्यवक्तव्यस्य त्यागाच्छब्दबाधनम्()। किञ्च, सिद्धञ्च पुनर्वचनमुपादीयत इति, उक्तानुवादे दोषश्च। विधौ तु न शब्दबाधनम्(), नानुवाद#ओष इतदि। विधिनियमसम्भवविचारे विधिनैव युक्तं भवितुम्()। तस्मादन्यस्येहार्थस्यासम्भवात्? "अगोपुच्छात्()" इति प्रतिषदोऽयमिति विज्ञायते। ज्ञापकात्प्रकृतरतर न विवक्ष्यते, यदयम्? "लोकसर्वलोकाट्ठञ्()" ५।१।४३ इति ठको निवृत्त्यर्थं ठञं करोति। "अभिविधावयमाकारः" इति। मर्यादायां हि वत्र्तमानस्याकारस्यात्र ग्रहणमनर्थकं स्यात्(), प्राग्ग्रहणानुवृत्त्यैव सिद्धत्वात्। अभिविधिवृत्तेराकारस्य ग्रहणे सत यदिष्टं सम्पद्यते, तद्दर्शयितुमाह--"अर्हत्यर्थेऽपि ठग्भवति" इति। "भेदगणनं संख्या" ति। भिद्यन्त इति भेदाः, भिन्नाः पदार्थाः, ते गण्यन्ते संख्यायन्ते परिच्छिद्यन्ते येन तद्भेदगणनम्(), एकत्वादि। संख्याभेदे हि सति पदार्थनुसङ्कल्पनमेकत्वादिभिः क्रियते। एकत्वसंख्याऽपि बहुषु सन्निवेशितेषु भेदमेकमसहायमाह। "गुरुत्वमानमुन्मानम्()" इति। सुवर्णादेर्वस्तुनो गुरुत्वमुत्क्षिप्यते, येन तदुन्मानं तुलादि। "आयाममानं प्रमाणम्()" इति। तिर्यगभिमुखस्य वस्तुनो येनायामपरिच्छेदः क्रियते तत्? प्रमाणम्(), वितस्त्यादि। "आरोहपरणाहमानं परिमाणम्()" इति। आरोहतः परिणाहतश्च मीयते व्रीह्राद्यर्थो येन तत्परिमाणम्()। आरोहः उच्छ्रायः, परिणाहः विस्तारः। संख्यापरिमाणयोर्भेदे पृष्टे यदुन्मानादीनां विशेषप्रदर्शनं तत्प्रसङ्गेन तद्विषयस्याज्ञानस्यापनयनार्थम्()। संग्रहेण किलशब्द एवमादिमतमाचार्याणामित्यर्थं सूचयति। "सर्वतः" इति। आरोहतः परिणाहतश्चेत्यर्थः। "संख्या बाह्रा तु सर्वतः" इति। उन्मानात्? परिमाणात्? प्रमाणाच्च संख्या बाह्रा; तत्रानन्तर्भावात्()॥
बाल-मनोरमा
आर्हादगोपुच्छसङ्ख्यापरिमाणाट्ठक् १६५९, ५।१।१९

आर्हादगो। तदर्हतीति सूत्रगते अर्हतिशब्दे एकदेशानुकरणमर्हेति, तच्च तद्घटितसूत्रपरम्, आङभिव्याप्तौ, व्याख्यानात्। तदाह--तदर्हतीति। इत्येतदभिव्याप्येति। इदमपि सूत्रं प्रत्ययविशेषाऽश्रवणे उपतिष्ठते। अत्र सङ्ख्यापरिमाणयो पृथग्ग्रहणात्सङ्ख्या न परिमाणम्। तथा च वार्तिकम्--"ऊध्र्वमानं किलोन्मानं परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात्सङ्ख्या बाह्रा तु सर्वतः।" इति। तुलायामारोप्य द्रव्यगुरुत्वं येन परिच्छिद्यते तदुन्मानं=गुञ्जामाषनिष्कसुवर्णपलादि। येन काष्ठादिनिर्मितेन आयतविस्तृतोच्छ्रितेन पात्रविशेषेण पात्रगतायामविस्तारोच्छ्रायैः व्रीह्रादि परिच्छिद्यते तत्परिमाणं=प्रस्थादि। आयामो दैध्र्यं येन परिच्छिद्यते तत्प्रमाणम्रत्निप्रादेशादि। सङ्ख्या तु उक्तत्रितयापेक्षया बाह्रा=भिन्ना एकत्वद्वित्वादीत्यर्थः।

तत्त्व-बोधिनी
आर्हादगोपुच्छ सङ्ख्यापरिमाणाट्ठक् १२८१, ५।१।१९

आर्हादगोपुच्छ। तदर्हतीति। इह "तदर्ह"मिति सूत्रान्तर्गतमच्प्रत्ययान्तं नाऽनुक्रियते किं तु तिङन्तस्यैकदेशः शबन्त एव, व्याख्यानादिति भावः। अभिव्याप्येति। तेन "()औतच्छत्रिक"इत्यत्रार्हत्यर्थे ठग्भवतीति भावः। ननु परिमाणत्पृथक्सङ्ख्याग्रहणं व्यर्थं, परिमीयते परिच्छिद्यते येन तत्परिमाणं, सङ्ख्ययापि च परिच्छिद्यत इति सापि परिमाणमेवेति चेत्। अत्र श्लोकवार्तिकम्---"ऊध्र्वमानं किलोन्मानं परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात्सङ्ख्या बाह्रा तु सर्वतः"। अस्यार्थः--तुलादावारेप्य येन द्रव्यान्तपरिच्छिन्नगुरुत्वेन पलादिशब्दवाच्येन पाषाणादिना सुवर्णादिगुरुत्वमुन्मीयते तदुन्मानम्। आरोहः=उच्छ्रायः। परिणाहो=विस्तारः। ताभ्यामारोहपरिणाहाभ्यां स्वगताभ्यां येन काष्ठादिनिर्मितेन व्रीह्रादिः परिमीयते तत्परिमाणं=प्रस्थादि,। परिः सर्वतोभावे। आयामो=दैघ्र्यं, स येन मीयते तत्प्रमाणम्। तच्च क्वचित्तिर्यगवस्थितस्य वस्तुनो भवति---यथा वस्त्रादेर्हस्तादिः। क्वचिदूध्र्याधोबागावस्थितस्य भवति----यथा हास्तिनमुदकम्। ऊरुद्धयसमुदकमिति। सङ्ख्या तु उन्मानपरिमाणप्रमाणेभ्यः पलादिप्रस्थादिहस्त्रादिभ्यस्त्रिभ्यो बहुर्भूता एकत्वद्वित्वादिरिति। इह सङ्ख्यापरिमाणयोरेव प्रकृतत्वेऽप्युन्मानप्रमाण्योर्विवेचनं प्रसङ्गात्कृतमिति बोध्यम्।