वत्वन्तस्य सङ्ख्यात्वात् कन् सिद्ध एव, तस्य त्वनेन वा इडागमो विधीयते। वतोः परस्य अनो वा इडागमो भवति आर्हीयेष्वर्थेषु। तावतिकः, तावत्कः। यावतिकः, यावत्कः।
"वत्वन्तस्य संख्यात्वात्()" इति। बहुगणसूत्रेण
१।१।२२ संख्यासंज्ञाविंधानत्()। "तस्य" इत्यादि। कथं पुनस्तस्यानेनागमः शक्यो विज्ञातुम्(),
यावता नेह कन्ग्रहणम्()? यदपि प्रकृतं तदपि प्रथमानिर्दिष्टम्,
षष्ठीनिर्दिष्टेन चेहार्थः? नैष दोषः, "वतोः" इति पञ्चमी "कन्()" इति प्रथमायाः षष्ठीं प्रकल्पयिष्यति "तस्मादित्युत्तरस्य"
१।१।६६ इति। "तावत्कः" इति। तत्परिमाणमस्येति "यत्तदेतेभ्यः परिमाणे वतुप्()"
५।२।३९, "आ सर्वनाम्नः"
६।३।९० इत्यात्वम्()॥
वतोरिड्वा। "वतो"रित्यनेन प्रत्ययग्रहणपरिभाषया तदन्तं गृह्रते। "क"न्निति प्रथमान्तमनुवृत्तम्, "वतो"रिति पञ्चमी "तस्मादित्युत्तरस्ये"ति परिभाषया षष्ठन्यतं प्रकल्पयति। तदाह--वत्वन्तादिति। तावतिक इति तावता क्रीत इत्यर्थः। "यत्तदेतेभ्यः" इति वतुप्। "बहुगणवतु" इति सङ्ख्यासंज्ञायां सङ्ख्याया अतिशदन्तायाः" इति कन्, तस्य इट्, टित्त्वादाद्यवयवः।