पूर्वम्: ५।१।३२
अनन्तरम्: ५।१।३४
 
सूत्रम्
खार्या ईकन्॥ ५।१।३३
काशिका-वृत्तिः
खार्या ईकन् ५।१।३३

अध्यर्धपूर्वद् द्विगोः इत्येव अध्यर्धपूर्वात् प्रातिपदिकाद् द्विगोश्च खारीशब्दानतातार्हीयेष्वर्थेषु ईकन् प्रत्ययो भवति। अध्यर्धखारीकम्। द्विखारीकम्। केवलायाश्च इति वक्तव्यम्। खारीकम्। काकिण्याश्च उपसङ्ख्यानम्। अध्यर्धकाकिणीकम्। द्विकाकिणीकम्। त्रिकाकिणीकम्। केवलायाश्च। काकिणीकम्।
न्यासः
खार्या ईकन्। , ५।१।३३

खारीशब्दस्य परिमाणवाचित्वाट्ठञि प्राप्ते तस्येकन्? विधीयते। "केवलायाश्चेति वक्तव्यम्()" इति केवलो योऽसमस्तः खारीशब्दस्ततश्चेकन्? भवतीत्ये तदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--इकन्निति वक्तव्ये यदिकनोमात्राधिकस्य विधानं तदन्यदप्यत्र किञ्चद्भवतीति सूचयति, तेन केवलादपि खारीशब्दादीकन्? भवतीति कथं पुनरिकनि रूपं सिध्यति? सवर्णदीर्घत्वेन। ननु च यस्येति लोपः (६।४।१४८) प्राप्नोति? नैतदस्ति; यदि हि यस्येति लोपः स्यात्(), टनमेव ब्राऊयात्()। "काकिंण्याश्चोपसंख्यानम्()" इति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं तु तस्यैवाधिकसूचनार्थस्येकनो विधानमाश्रित्य कत्र्तव्यम्()। "केवलायाश्चेत्युपसंक्यानम्()" ["केवलायाश्च" इत्येव-काशिका] इति। उपसंखयनशब्दस्य प्रतपादनमर्थः। पूर्ववत्? प्रकृतेन सम्बन्धः॥
न्यासः
शाणाद्वा। , ५।१।३३

"ठञोऽपवादः" इति। न ठकः; शाणस्य परिमाणत्वात्। "शताच्चेति वक्तव्यम्()" इति। शताच्चाध्यर्थपूर्वाद्()द्विगोश्च यत्प्रत्ययो भवतोत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्यख्यानम्()--पूर्वसूत्रादिह शतशब्दोऽनुवत्र्तते, तेन तदन्तादपि यद्भवतीति। यद्येवम्(), पूर्वसूत्रे तस्य पाठोऽनर्थक इति, इहैव शतशाणाब्याञ्चेति वक्तव्यम्()? नैवं शक्यम्(); एवं ह्रुच्यमाने "द्वित्रिपूर्वादण्च" (५।१।३६) इत्यनेनापि शतात्? प्रसज्येत। पूर्वसूत्रे तु पाठसामथ्र्यादण्विधौ नानुवत्र्तते। शतशब्दः स्वरितत्वाच्चेहानुवत्र्तमानो वा यतमुत्पादयति॥
बाल-मनोरमा
खार्या ईकन् , ५।१।३३

खार्या ईकन्। "अध्यद्र्धपूर्वा"दिति द्विगोरिति चानुवर्तत इत्यभिप्रेत्योदाहरति--अध्यर्थखारीकं, द्विखारीकमिति। "तदस्य परिमाण"मिति ठञि तस्य च लुकि प्राप्ते ईकन्।

तत्त्व-बोधिनी
खार्या ईकन् १२९४, ५।१।३३

खार्याः। "तदस्य परिमाण"मिति ठञि प्राप्ते तस्य च लुकि प्राप्ते ईकन्विधीयते। कन्विधौ "केऽणः"इति ह्यस्वः स्यात्। इकन्विधावपि "यस्येति चे"ति लोपादिष्टं न सिध्यतीति भावः।