पूर्वम्: ५।१।३३
अनन्तरम्: ५।१।३५
 
सूत्रम्
पणपादमाषशतादत्॥ ५।१।३४
काशिका-वृत्तिः
पणपादमाषशताद् यत् ५।१।३४

अध्यर्धपूर्वाद् द्विगोः इत्येव। अध्यर्धपूर्वाद् द्विगोश्च पणपादमाषशतशब्दान्तातार्हीयेष्वर्थेषु यत् प्रत्ययो भवति। अव्यर्धपण्यम्। द्विपण्यम्। त्रिपण्यम्। पाद अध्यर्धपाद्यम्। द्विपाद्यम्। त्रिपाद्यम्। पद्भावो न भवति पद् यत्यतदर्थे ६।३।५२ इति। प्राण्यङ्गस्य स इष्यते। इदं तु परिमाणम्। माष अध्यर्धमाष्यम्। द्विमास्यम्। त्रिमास्यम्। शत अध्यर्धशत्यम्। द्विशत्यम्। त्रिशत्यम्।
न्यासः
पणपादमाषशताद्यत्?। , ५।१।३४

पणपादमाषेभ्यः "असमासे निष्कादिभ्यः" ५।१।२० इति असमासे ठको विधानाट्ठञि प्राप्ते तस्य लुकि शतशब्दादप्यसमासे "शताच्च ठन्यतावशते" (५।१।२१) इति ठन्यतोर्विधानात्? समासे संख्यालक्षणे कनि यद्? विधीयते। "द्विपाद्यम्()" इत्यादि। ननु पद्भावः कस्मान्न भवति "पद्यत्यतदर्थे" (६।३।५३) इति? सत्यम्(); "पादस्य पदाज्याति" ६।३।५१ इत्यत्र प्राण्यङ्गस्यैव पद्भावविधानात्()। कृत एतत्()? "आज्याति" इत्यादिना गतिवचनेन सम्बन्धस्तस्यैवोपपद्यते; न परिमाणशब्दस्य। स एव प्राण्यङ्गवाच्युत्तरसूत्रेऽप्यनुवर्तिष्यत इति तस्यैव पद्भाव इष्यते। स्यादेतत्()--अयमपीह पादशब्दः प्राण्यङ्गवाची, अतो भवितव्यमेवेह पद्भावेन? इत्यत आह--"पद्भावो न भवति" इति। "पद्यत्यतदर्थे" ६।३।५२ इति पद्भावः प्राप्नोति, स न भवति। किं कारणमित्याह--"प्राण्यङ्गस्य" इत्यादि। "पादस्य पदाज्यातिगोपहतेषु" ६।३।५१ इत्यत्र प्राण्यङ्गस्य पादस्य ग्रहणम्()। "इदं तु परिमाणग्रहणम्()" ["परिमाणम्()-काशिका] इति। पणादिभिः परिमाणैः साहचर्यात्? परिमाणं पादो गृह्रते, न प्राण्यङ्गमिति पद्भावस्याप्रसङ्गः॥
बाल-मनोरमा
केवलायटापणपादमाषशताद्यत् १६७५, ५।१।३४

केवलायाश्चेति। "खार्या" इति शेषः। पणपाद। "अध्यर्धपूर्वा"दिति द्विगोरिति चानुवर्तत इत्यभिप्रेत्योदाहरति--अध्यर्धपण्यम्। द्विपण्यमिति। अध्यर्धपणेन क्रीतमित्यर्थः। द्विपाद्यमिति। द्वाभ्यां पादाभ्यां चतुर्थाशाभ्यां क्रीतमिति विग्रहः। यति "यस्येति चे"त्यकारलोपः। स्थानिवद्भावादिति। "अतःपरस्मि"न्नित्यनेनेति भावः।

बाल-मनोरमा
पणपादमाषशताद्यत् १६७६, ५।१।३४

प्राण्यङ्गार्थस्येति। व्याख्यानादिति भावः। इह सूत्रे पणमाषसाहचर्यात्पादशब्दोऽपि परिमाणविशेषवाची गृह्रते।

तत्त्व-बोधिनी
पणपादमाषशताद्यत् १२९५, ५।१।३४

प्राण्यङ्गार्थस्यैवेति। अयं भावः---"पादस्य पदाज्यातिदोपहतेषु"इत्यत्र प्राण्यङ्गस्यैव हि पादस्य ग्रहणं , तस्यै वाज्यातिभिर्गतिवचनैः संबन्धसंभवात्। तथा च "पद्यती"त्यादावपि तस्यैवानुवृत्तिः। इह तु पणमाषाभ्यां साहचर्यात्परिमाणवाचिनो ग्रहणमिति।