पूर्वम्: ५।१।३४
अनन्तरम्: ५।१।३६
 
सूत्रम्
शाणाद्वा (द्वित्रिपूर्वादण् च)॥ ५।१।३५
काशिका-वृत्तिः
शाणाद् वा ५।१।३५

अध्यर्धपूर्वात् द्विगोः इत्येव। शाणशब्दादध्यर्धपूर्वाद् द्विगोरार्हीयेष्वर्थेषु वा यत् प्रत्ययो भवति। ठञो ऽपवादः। पक्षे सो ऽपि भवति, तस्य च लुक्। अध्यर्धशाण्यम्, अध्यर्धशाणम्। द्विशाण्यम्, द्विशाणम्। त्रिशाण्यम्, त्रिशाणम्। शताच् च इति वक्तव्यम्। अध्यर्धशत्यम्, ध्यर्धशतम्। द्विशत्यम्, द्विशतम्। त्रिशत्यम्, त्रिशतम्।
काशिका-वृत्तिः
द्वित्रिपूर्वादण् च ५।१।३६

शाणाद् वा ५।१।३५ इत्येव। द्वित्रिपूर्वाच् छाणान्तात् प्रातिपदिकादार्हीयेष्वर्थेषु अण् प्रत्ययो भवति, चकाराद् यच् च वा। तेन त्रैरूप्यं समद्यते। द्वैशाणम्, द्विशाण्यम्, द्विशाणम्। त्रैशाणम्, त्रिशाण्यम्, त्रिशाणम्। परिमाणान्तस्य असंज्ञाशाणयोः ७।३।१७ इति पर्युदासादिवृद्धिरेव भवति।
न्यासः
द्वित्रिपूर्वादण्च। , ५।१।३५

"तेन त्रैरूप्यं सम्पद्यते" इति। एकं रूपं सूत्रनिर्दिष्टेऽणि, द्वितीयं चकारसमुच्चिते यति, तृतीयं वाशब्दप्रापितस्य ठञो लुकदि। "द्विशाणम्()" इति। ठञो लुक्()॥
बाल-मनोरमा
शाणाद्वा १६७७, ५।१।३५

शाणाद्वा। पक्षे। ठञिति। आर्गादिति ठग्विधौ परिमाणपर्युदासाट्ठञिचि भावः। तस्य लुगिति। ठञ इति भावः। अत्र अध्यर्थपूर्वादिति द्विगोरिति चानुवर्तत इत्यभिप्रेत्य अध्यर्थपूर्वादुदाहरति--अध्यर्धशाण्यम् अध्यर्धशाणामिति। यति ठञो लुकि च रूपम्।

बाल-मनोरमा
द्वित्रिपूर्वादण् च १६७८, ५।१।३५

अथ शाणान्तद्विगोरुदाहरणं वक्ष्यन्विशेषमाह--द्वित्रिपूर्वादण्। च वार्तिकमिदम्। चाद्यदिति। पाक्षिको यत् चकारेण समुच्चीयत इत्यर्थः। ततश्च यतो।ञभावे ठञपि लभ्यते। तदाह-तेन त्रैरूप्यमिति। अणा, यता, ठञा चेत्यर्थः। अणि परिमाणान्तस्येत्युत्तरपदवृद्धिमाशङ्क्याह--परिमाणान्तस्येति। ठञादयस्त्रयोदशेति। "प्राग्वते"रिति ठञ्, "आर्हा"दिति ठक्, "शताच्चे"ति ठन्यतौ, "संज्ञायाः" इति कन्, "विंशतितिं()रशद्भ्या"ति ड्बुन्, "कंसा"दिति टिठन्, "शूर्पा"दित्यञ्, "शतमाने"त्यण्, "विंशतिकात्खः" इति खः, खार्याः" इति ईकन्, "पणपादे"ति यत्, "द्वित्री"ति वार्तिकोक्ताऽण्। इत्येव त्रयोदशेत्यर्थः। प्रकृता इति। प्रक्रान्ता इत्यर्थः। समर्थविभक्तय इति। "समर्थानां प्रथमाद्वे"ति सूत्रलभ्यसमर्थविशेषणीभूतप्रथमोच्चारिततत्तद्विभक्तय इत्यर्थः।

तत्त्व-बोधिनी
शाणाद्वा १२९६, ५।१।३५

पक्षे ठञिति। यद्यपि शाण उन्मानम्, तथापि "आर्हा"दिति सूत्रे परिमाणग्रहणेन परिमीयते परिच्छिद्यतेऽनेनेति योगवृत्त्या परिच्छेदकमात्रं गृह्रते"इति वादिनां मते अस्यापि पर्युदासाट्ठगभावे ठञिति भावः। मुख्यमते तु ठगेव बोध्यः। शाणाद्वेति सूत्रे "शताच्चेति वक्तव्ये"। पूर्वेण नित्यं प्राप्ते विकल्पार्थम्। एवं च पूर्वसूत्रे शतग्रहणमकृत्वा शतशाणाभ्यां वेत्येव वक्तुं युक्तमित्याहुः। अध्यर्धशत्यम्। अध्यर्धशतम्। पञ्चशत्यम्। पञ्चशतम्। यदभावे सङ्ख्यालक्षणस्य कनो लुक्। "शताच्च ठन्यतौ"इति तु न प्रवर्तते, तत्राऽसमासग्रहणस्यानुवर्तनात्।

तत्त्व-बोधिनी
द्वित्रिपूर्वादण् च [ १२९७, ५।१।३५

द्वित्रिपूर्वादण्। वार्तिकमिदं वृत्तिकृता सूत्रेषु प्रक्षिप्तम्। भाष्यादिप्रामाण्याच्छतग्रहणमिह न संबध्यत इत्याशयेनाह----शाणादित्येवेति। न्यासकृता त्वण्विधायके वार्तिके सूत्रत्वभ्रमणे व्याख्यातम्---"शत शाणाभ्यां वे"ति सूत्रयितव्ये "पणवादे"कति पूर्वसूत्रे शतग्रहणं क्रियते तस्येदं फलं, ---शतशब्दः स्वरितत्वेनानुवर्तमानोऽपि "शाणाद्वा"इत्यत्रैव संबध्यते, तदुत्तरसूत्रे "द्वित्रिपूर्वादण् चे"त्यत्र तु न संबध्यते, तेन शतशब्दादण् नेति। तदिदं सामथ्र्यवर्णनमण्विधायकं यदि सूत्रं स्यात्तदा सङ्गच्छते नान्यथेत्यास्तां तावत्। त्रैरूप्यमिति। तदेतद्दर्शयति----द्वैशाणमित्यादिना। अण्येकं, ठञो लुकि द्वितीयं, यति तृतीयम्। ठञादयस्त्रयोदशेति। ननु एकदशैव प्रत्ययाः प्रकृताः, सूत्रभेदेन विहितत्वाद्यत्प्रत्ययस्य द्विर्गणने तु द्वादशेति त्रयोदशेत्येतद्दुरुपपादमेव। न च "शूर्पादञन्यतरस्या"मित्यन्यतरस्याङ्ग्रहणलभ्यठञमादाय त्रयोदशत्वं सूपपादिमिति वाच्यं, तुल्यन्यायेन "शाणाद्वे"ति सूत्रलभ्ययट्ठञोग्र्रहणेन पञ्चदशत्वप्रसङ्गात्। नापि सूत्रोपात्तैद्र्वादशभिः सह "द्वित्रिपूर्वादण् चे"ति वार्तिकोपात्ताऽण्प्रत्ययस्य गणनेन निर्वाहः।उक्तरीत्या"कंसाट्टिठ"न्निति सूत्रे "अर्धाच्चेति वक्तव्यं", "कार्षापणाट्टिठन्िति सूत्रस्थ एव टिठन् अध्यर्धकार्षापणशब्दाभ्यां परामष्ट इति स नभिद्यते। "द्वित्रिपूर्वादण् चे"ति स वार्तिकस्थोऽण् तु भिद्यते, "शतमानविंशतिके"त्यणो दूरस्थत्वेन परामर्ष्टुंमशक्यत्वादिति।