पूर्वम्: ५।१।४३
अनन्तरम्: ५।१।४५
 
सूत्रम्
तस्य वापः॥ ५।१।४४
काशिका-वृत्तिः
तस्य वापः ५।१।४५

तस्य इति षष्ठीसमर्थाद् वापः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। उप्यते ऽस्मिन् वापः क्षेत्रम् उच्यते। प्रस्थस्य वापः क्षेत्रं प्रास्थिकम्। द्रौणिकम्। खारीकम्।
न्यासः
तस्य वापः। , ५।१।४४

"अप्यतेऽस्मिन्? वापः" इति। अधिकरणसाधनः "हलश्च" ३।३।१२१ इति घञ्()॥
बाल-मनोरमा
तस्य वापः १६८८, ५।१।४४

तस्य वापः। अस्मिन्नर्थे षष्ठ()न्ताद्यथाविहितं टञादयः स्युरित्यर्थः। प्रास्थिकमिति। प्रस्थपरिमितबीजवापयोग्यं क्षेत्रमित्यर्थः। "आर्हा"दिति ठग्विधौ परिमाणपर्युदासात् प्राग्वतीष्ठञ्। द्रौणिकमिति। निष्कादित्वाट्ठक्। खारीकमिति। खार्या ईकन्। द्रोणस्य खार्याश्च वाप इत्यर्थः।

तत्त्व-बोधिनी
तस्य वापः १३०५, ५।१।४४

तस्य वापः। "तस्ये"ति वापापेक्षया क्रमणी षष्ठीत्याह----प्रस्थस्येति। कर्तरि षष्ठ()आं तु "देवदत्तस्य वापः क्षेत्र"मित्यादौ स्यादिति भावः। खारीकमिति।