पूर्वम्: ५।१।४४
अनन्तरम्: ५।१।४६
 
सूत्रम्
पात्रात् ष्ठन्॥ ५।१।४५
काशिका-वृत्तिः
पात्रात् ष्ठन् ५।१।४६

पात्रशब्दात् ष्ठन् प्रत्ययो भवति तस्य वापः ५।१।४४ इत्येतस्मिन् विषये। ठञो ऽपवादः। नकारः स्वरार्थः। षकारो ङीषर्थः। पात्रशब्दः परिमाणवाची। पात्रस्य वापः पात्रिकं क्षेत्रम्। पात्रिकी क्षेत्रभक्तिः।
न्यासः
पात्रात्? ष्ठन्?। , ५।१।४५

"पात्रशब्दः परिमाणवाची" इति। "ठञोऽपवादः" इति। अत्रेयं युक्तिः--यदि ह्रपरिमाणवाची स्यात्? तदार्हीयस्य ठकोऽपवादः, न ठञः। "पात्रिकी" इति। "षिद्गौरादिभ्यश्च" ४।१।४१ इति ङीष्()॥
बाल-मनोरमा
पात्रात्ष्ठन् १६८९, ५।१।४५

पात्रात् ष्ठन्। तस्य वाप इत्येव। पात्रिकमिति। पात्रस्य वाप इत्यर्थः। षित्त्वं ङीषर्थमित्याह--पात्रिकीति।