पूर्वम्: ५।१।५१
अनन्तरम्: ५।१।५३
 
सूत्रम्
आढकाचितपात्रात् खोऽन्यतरयाम्॥ ५।१।५२
काशिका-वृत्तिः
आढकाऽचितपात्रात् खो ऽन्यतरस्याम् ५।१।५३

आढकाऽचितपात्रशदेभ्यो द्वितीयासमर्थभ्यो ऽन्यतरस्यां संभवादिष्वर्थेषु खः भवति। ठञो ऽपवादः। पक्षे सो ऽपि भवति। आढकं संभवति अवहरति पचति वा आढकीना, आढकिकी। आचितीना, आचितिकी। पात्रीणा, पात्रिकी।
बाल-मनोरमा
आढकाचितपात्रात्खोऽन्यतरस्याम् १६९६, ५।१।५२

आढकाचित। आढक, आचित, पात्र--एभ्यो द्वितीयान्तेभ्य सम्भवत्यवहरतिपचतीत्यर्थेषु खो वा स्यादित्यर्थः। पक्षे ठञिति। "आर्हाता" इत्यत्रः परिमाणपर्युदासान्न ठगिति भावः।