पूर्वम्: ५।१।५३
अनन्तरम्: ५।१।५५
 
सूत्रम्
कुलिजाल्लुक्खौ च॥ ५।१।५४
काशिका-वृत्तिः
कुलिजाल् लुक्खौ च ५।१।५५

द्विगोः इत्येव। कुलिजशब्दानताद् द्विगोः संभवत्यादिष्वर्थेषु लुक्खौ भवतः। चकारात् ष्ठन् च। अन्यतरस्याम् ग्रहणानुवृत्त्या लुगपि विकल्प्यते। ठञः पक्षे श्रवणं भवति। तेन चातूरूप्यं संपद्यते। द्वे कुलिजे संभवति अवहरति पचति वा द्विकुलिजिकि, द्विकुलिजीना, द्विकुलिजी, द्वैकुलिजिकि। परिमाणान्तस्य असंज्ञाशाणयोः ७।३।१७ इत्यत्र कुलिजग्रहणम् अपीष्यते, तेन उत्तरपदवृद्धिरपि न भवति।
न्यासः
कुलिजाल्लुक्खौ च। , ५।१।५४

"चातूरूप्यम्()" इति। एकं खे रूपम्(), ष्ठनि द्वितोयम्(), लुकोऽपि विकल्पितत्वाट्ठञोऽलुकि तृतीयम्(), लुकि चतुर्थम्()। ननु च कुलिजशब्दसय परिमाणवाचित्वात्? "परिमाणान्तस्य" (७।३।१७) इत्युत्तरपदवृद्धिः कस्मान्न भवति? इत्यत आआह--"परिमाणान्तस्य" इति। "परिमाणान्तस्यासंज्ञाशाणकुलिजात्()" इत्येवैतत्? सूत्रं प्रत्येतव्यमिति दर्शयति॥
बाल-मनोरमा
कुलिजाल्लुक्खौ च १६९८, ५।१।५४

कुलिजाल्लुक्खौ च। अन्यतरस्यामित्यनुवृत्तिमभिप्रेत्याह--लुक्खौ वा स्त इति। "आर्हात्" इत्यत्र परिमाणपर्युदासाट्ठगभावे प्राग्वहतीयस्य ठञः "अध्यर्धे"ति नित्यं लुकि प्राप्ते लुको विकल्पविधिः। चात्ष्ठंश्चेति। तथाच ठञो लुक्खश्च ष्ठंश्चेति। तथाच ठञो लुक्खश्च ष्ठंश्चेति त्रितयं विकल्प्यते। तत्र ष्ठनः खस्य ठञो लुकश्चाऽभावे ठञः श्रवणं पर्यवस्यति। तदाह--लुगभावे ठञः श्रवणमिति। द्विकुलजीति। ठञो लुकि रूपम्। "द्विगोः" इति ङीप्। द्विकुलिजीनेति। खे रूपम्। द्विकुलिजिकीति। ष्ठनि रूपम्। द्वौकुलिजिकीति। ठञो लुगभावे रूपम्। "परिमाणान्तस्ये"त्यत्र "असंज्ञाशाणकुलिजाना"मित्युक्तेर्नोत्तरपदवृद्धिः।

तत्त्व-बोधिनी
कुलिजाल्लुक्खौ च १३१३, ५।१।५४

द्वैकुलिजिकीति। "असंज्ञाशाणयो"रित्यत्र कुलिजशब्दोऽपि इष्यते, तेनोत्तरपदवृद्धिनेत्याहुः।