पूर्वम्: ५।१।५५
अनन्तरम्: ५।१।५७
 
सूत्रम्
तदस्य परिमाणम्॥ ५।१।५६
काशिका-वृत्तिः
तदस्य परिमाणम् ५।१।५७

ततिति प्रथमासमर्थातस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत् प्रथमासमर्थं परिमाणं चेत् तद् भवति। प्रस्थः परिमाणम् अस्य प्रास्थिको राशिः। खारशतिकः। शत्यः, शतिकः। साहस्रः। द्रौणिकः। कौडविकः। वर्षशतं परिमाणमस्य वार्षशतिकः। वार्षसहस्रिकः। षष्टिर्जीवितपरिमाणम् अस्य इति षाष्टिकः। साप्ततिकः। समर्थविभक्तिः प्रत्ययार्थश्च पूर्वसूत्रादेव अनुवर्तिष्यते, किम् अर्थं पुनरनयोरुपादानम्? पुनर् विधानार्थम्। द्वे षष्टी जीवितपरिमाणम् अस्य द्विषाष्टिकः। द्विसाप्ततिकः। पुनर् विधानसामर्थ्यादध्यर्धपूर्वद्विगोर् लुक् न भवति।
न्यासः
तदस्य परिमाणम्?। , ५।१।५६

"प्रास्थिको राशिः" इत्यादौ सर्वत्र ठञ्()। "द्विषाष्टिकः" इत्यादि। "संख्यायायाः संवत्सरसंख्यस्य च" ७।३।१५ इत्युत्तरपदवृद्धिः। "पुनर्विधानसामथ्र्यात्()" इत्यादिना पुनर्विधानफलं दर्शयति। "द्विषाष्टिकः" इत्यादौ द्विः प्रत्यविधानम्(), तत्र पूर्वसूत्रात्? समर्थविभक्तेः प्रत्यायार्थसयानुवृत्तेः प्रथमं प्रत्ययो विधीयते, तस्य "अध्यर्धपूर्व" ५।१।२८ सूत्रेण लुग्भवति। नन्विह च यः सूत्रे समर्थविभक्तेः प्रत्ययार्थस्य चोपादनात्? पुनर्विधीयते तस्यापि पुनर्विधानमनर्थकं स्यात्()॥
बाल-मनोरमा
तदस्य परिमाणम् १७००, ५।१।५६

तदस्य परिमाणम्। अस्मिन्नर्थे प्रतमान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। प्रास्थिक इति। "आर्हात्" इत्यत्र परिमाणपर्युदासात् प्राग्वतीयष्ठञ्। अत्र संख्याऽपि परिमाणम्। यद्यपि "अगोपुच्छसंख्यापरिमाणा"दिति पृथग्ग्रहणात् संख्या न परिमाणम्,तथाप्यत्र परिच्छेदकत्वात् संख्यापि परिमाणम्, उत्तरसूत्रे संख्यायाः परिमाणेन विशेषणाल्लिङ्गात्। तेन षष्टिः परिमाणमस्य षाष्टिकमिति सिद्धम्। द्विषष्ट()आदिभ्यस्त्वनभिधानान्नेति भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
तदस्य परिमाणम् १३१४, ५।१।५६

तदस्य परिमाणम्। इह परिमाणशब्देन परिच्छेदकमात्रं गृह्रते, नतु सर्वतोमानमेव, उत्तरसूत्रे सङ्ख्यायाः परिमाणेन विशेषणात्। षष्टिर्जीवितं परिमाणमस्य षाष्टिकः। "सोऽस्ये"ति वर्तमाने पुनः "तदस्ये"ति ग्रहणात् "द्वे षष्टी जीवितं परिमाणमस्य द्विषाष्टिकस्त्रिषाष्टिकः" इत्यादौ "अध्यर्धे"ति लुङ् न भवति। स्पष्टं चेदं काशिकादौ। पूर्वसूत्रमिति। तेन पञ्च गावः परिमाणमस्य पञ्चको गोसङ्घ इत्यादि सिध्यति। यदा तु प्रकत्यर्थस्यैव परिच्छेदिका संख्या---पञ्च गावोऽस्य सङ्घस्येति, तदा तु प्रत्ययो न भव ति, परिमाणस्या प्रत्ययार्थत्वाऽभावात्। एतच्च "आर्हादगोपुच्छे"ति सूत्रे कैयटे स्पष्टम्।

संज्ञायां स्वार्थे प्रत्ययो वाच्यः। पञ्चैवेति। स्तोमे डविधिरिति। डित्करणमेकविंश इत्यत्र तिलोपार्थम्। त्रय()स्त्रशादौ टिलोपार्थं च।

स्तोमे डविधिः। पञ्चदश मन्त्रा इतदि। "साम्ना स्तुवीत", "एकं सामत्र्यृचे क्रियते"इति हि श्रुतिः। तत्र त्र्यृचस्य पञ्चकृत्व आवृत्त्या पञ्चदशमन्त्राः। सप्तदशे स्तोमे अन्त्याया ऋचः सप्तकृत्व आवृत्तिः। प्रथममध्यमयोस्तु पञ्चकृत्व एव, एकविंशे स्तोमे तु त्र्यृचस्य सप्तकृत्व आवृत्तिरिति ज्ञेयम्। छन्दोगौरिति। सामगैरित्यर्थः।