पूर्वम्: ५।१।४
अनन्तरम्: ५।१।६
 
सूत्रम्
तस्मै हितम्॥ ५।१।५
काशिका-वृत्तिः
तस्मै हितम् ५।१।५

तस्मै इति चतुर्थीसमर्थाद् ह्तम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। वत्सेभ्यो हितो गोधुक् वत्सीयः। अवत्सीयः। पटव्यम्। गव्यम्। हविष्यम्। अपूप्यम्। अपूपीयम्।
लघु-सिद्धान्त-कौमुदी
उगवादिभ्यो यत् ११४२, ५।१।५

प्राक् क्रीतादित्येव। उवर्णान्ताद्गवादिभ्यश्च यत् स्यात्। छस्यापवादः। शङ्कवे हितं शङ्कव्यं दारु। गव्यम्। (नाभि नभं च)। नभ्योऽक्षः। नभ्यमञ्जनम्॥तस्मै हितम्॥ वत्सेभ्यो हितो वत्सीयो गोधुक्॥
न्यासः
तस्यै हितम्?। , ५।१।५

एतदेव ज्ञापकम्()-हितयोगे चतुथ्र्यस्तीति। तेन यदुक्तम्()-"हितयोगे चतुर्थी वक्तव्या" (वा। १२३) इत्येतदुपपननं भवति॥
बाल-मनोरमा
तस्मै हितम् १६४३, ५।१।५

तस्मै हितम्। असमिन्नर्थे चतुथ्र्यन्ताद्यथाविहितं प्रत्ययाः स्युः। वत्सीय इति। छे रूपम्। यो गोधुग्वत्सेभ्यः पयः शिष्ट्वा दोग्धि स एवमुच्यते। शङ्कव्यमिति। शङ्कवे हितमित्यर्थः। उवर्णान्तत्वाद्यत्। गव्यमिति। गोभ्यो हितं तृणादिकमित्यर्थः। गवादिलक्षणो यत्। हविष्यमिति। हविषे हितमित्यर्थः। हविःशब्दो गवादिः। "विभाषा हवि"रित्यत्र तु हविर्विशेषवाचिनामेव ग्रहणं, व्याख्यानात्।

तत्त्व-बोधिनी
तस्मै हितम् १२६८, ५।१।५

"हविरपूपादिभ्यो विभाषाया उगवादिभ्यो यत्पूर्वविप्रतिषेधेन"। सक्तव्या धानाः। चस्व्यास्तण्डुलाः। चरुर्नाम हविरिति काशिका। स्थालीवचनस्य चरुशब्दस्य तत्रत्ये हविषि उपचाराद्वृत्तिरिति कैयटादयः।