पूर्वम्: ५।१।६७
अनन्तरम्: ५।१।६९
 
सूत्रम्
कडङ्गरदक्षिणाच्छ च॥ ५।१।६८
काशिका-वृत्तिः
कडङ्करदक्षिणाच् छ च ५।१।६९

कडङ्करदक्षिणाशब्दाभ्यां छः प्रत्ययो भवति, चकाराद् यत् च, तदर्हति इत्यस्मिन् विषये। ठको ऽपवादः। कडङ्करम् अर्हति कडङ्करीयो गौः, कडङ्कर्यः। दक्षिणाम् अर्हति दक्षिणीयो भिक्षुः, दक्षिण्यो ब्राह्मणः। दक्षिणशब्दस्य अल्पाच्तरस्य अपूर्वनिपातेन लक्षणव्यभिचारचिह्नेन यथासङ्ख्याभावं सूचयति।
न्यासः
कड्ङ्गरदक्षिणाच्छ च। , ५।१।६८

"चकाराद्यच्च" इति। अथानन्तरस्य यतः समुच्चयः कस्मान्न भवति? एवं मन्यते--स्वरतत्वं प्रतिज्ञातमिति। अनन्तराच्च स्वरित आसन्नतरः। स च प्रतियोगमुपतिष्ठमानो वाक्यशेष एव भवति। तस्माद्यत एव समुच्चयो युक्त इति। यो गौर्निर्गुणत्वात्? खलकणाद्यनर्हः स कडङ्गर्यः कडङ्गरीय इति चोच्यते। माषादीनां खलेष्ववस्करनालकाष्ठमतिदुर्जरं बुसाद्यपि कडङ्गरमुच्यते। अथात्र यथासंख्यं कस्मान्न भवति, अस्ति हि तस्य प्राप्तिः, प्रकृतिप्रत्ययानां साम्यात; तथा हि--द्वे प्रकृतौ, द्वौ प्रत्ययौ? इत्यत आह--"अल्पाच्तरस्य" इत्यादि। दक्षिणशब्दस्याल्पाच्तरस्य पूर्वनिपाते प्राप्ते योऽयमिह परनिपातः स लक्षणानपेक्षतां निर्देशस्य दर्शयन्? लक्षणव्यभिचारस्यचिह्नं भवति। अतस्तेन चिह्नेन यथा-संख्याभावं सूचयति सूत्रकारः। तेन न भवति यथासंख्यम्()॥
बाल-मनोरमा
कडङ्करदक्षिणाच्छ च १७१०, ५।१।६८

कडङ्करदक्षिणाच्छ च। "कडमदे" कडनं कडः=मजः। "घञर्थे कविधान"मिति कः। खजिति। तथा च "खित्यनव्ययस्ये"ति मुमिति भावः। कडङ्करं च दक्षिणा चेति समाहारद्वन्द्वात्पञ्चमी।

तत्त्व-बोधिनी
कडङ्करदक्षिणाच्छ च १३२१, ५।१।६८

कडङ्करदक्षिणाच्छ च। "कडङ्गरे"ति पाठस्तूपेक्ष्य इति ध्वनयति---कडं करोतीति। "कड मदे"। कडतीति कडः। माषमुद्नादिकाष्ठमिति। अमरश्चाह "कडङ्करो बुसं क्लीब "मिति। गौरिति। "नीवारपाकादिकडङ्करीयैः"इति रघुः।