पूर्वम्: ५।१।६९
अनन्तरम्: ५।१।७१
 
सूत्रम्
यज्ञर्त्विग्भ्यां घखञौ॥ ५।१।७०
काशिका-वृत्तिः
यज्ञर्त्विग्भ्यां घखञौ ५।१।७१

यज्ञशब्दादृत्विक्शब्दाच् च यथासङ्ख्यं घखञौ प्रत्ययौ भवतः तदर्हति इत्यस्मिन् विषये। ठको ऽपवादौ। यज्ञियो ब्राह्मणः। आर्त्विजीनो ब्राह्मणः। यज्ञर्त्विग्भ्यां तत्कर्मार्हति इत्युपसङ्ख्यानम्। यज्ञकर्म अर्हति यज्ञियो देशः। ऋत्विक्कर्म अर्हति आर्त्विजीनं ब्राह्मणकुलम्। अर्हीयाणां ठगादीनां पूर्णो ऽवधिः। अतः परं प्राग्वतीयः ठञेव भवति।
न्यासः
यज्ञ�त्वग्भ्यां घखञौ। , ५।१।७०

द्वितीयाप्रकरणे पुनर्द्वितोयोच्चारणमिष्टविषये द्वितीयान्ताद्यथा स्यादित्येवमर्थम्()। तेन यद्यपि पारायणं गुरुणा शिष्येण च गम्यते तथापि शिष्य एव प्रत्ययो भवति, न गुरौ। तथा तुरायणो यागो यद्यपि यजमानेन याजकैश्च वर्त्त्यते तथापि यजमान एव प्रत्ययो भवति, न याजके॥
बाल-मनोरमा
यज्ञर्विग्भ्यां घखञौ ५०३, ५।१।७०

यज्ञ()त्वग्भ्यां घखञौ। तदर्हतीत्येव। यज्ञमृत्विज्ञं वेति। यज्ञमर्हतीति यज्ञिकः। ऋत्विजमर्हतीत्या()त्वजीन इत्यन्वयः। तत्कर्मेति। यज्ञर्मार्हतीत्यर्थे यज्ञशब्दादृत्विक्कर्मार्हतीत्यर्थे ऋत्विक्छब्दाच्च यथासह्ख्यं घखञोरुपसह्ख्यानमित्यर्थः। यद्यपि यज्ञ()त्वक्छब्दयोस्तत्कर्मणि लक्षणया सिध्यति तथाप्यत्र प्रकरणे मुख्यार्थेभ्य एव प्रत्यय इति ज्ञापनार्थमिदम्। ठगादीनां द्वादशानामिति। "प्राग्वते"रित्यारभ्य "तेन क्रीत"मित्यतः प्राक्र त्रयोदश प्रत्यया अनुक्रान्ताः। तत्र "प्राग्वते"रिति ठ()#ं विना "आर्हा"दित्यादिविहितानां ठगादीनां द्वादशानां विधिः पूर्ण इत्यर्थः।

***** इति बालमनोरमायाम् आर्हीयाणां द्वादशानां पूर्णोऽवधिः। *****

अथ तिङन्ते आत्मनेपदप्रक्रिया।

तत्त्व-बोधिनी
यज्ञ�त्वग्भ्यां धखञौ ४३१, ५।१।७०

यज्ञमृत्विजं चार्हतीति। अमर्थी सर्थो विद्वान्()। शास्त्रेणाऽपर्युदस्त इत्यर्थः। देसस्यानेवंविधत्वादुपसंख्यातम्।

यज्ञ()त्वग्भ्यांतत्कर्मार्हतीत्युपसङ्ख्यानम्। यज्ञियो देश इति। यज्ञाननुष्ठाने योग्य इत्यर्थः। ऋत्विगिति। स तु ऋत्विक्कर्मार्हति, न तु ऋत्विजमिति सूत्रेण खञोऽप्राप्तावुपसंख्यानम्।

आर्हीयाणां ठगादीनां द्वादशानां गतोऽवधिः।

इति तत्त्वबोधिन्यां आर्हीयादि समाप्तम्।

अथ तिङन्ते आत्मनेपदप्रक्रिया।