पूर्वम्: ५।१।९२
अनन्तरम्: ५।१।९४
 
सूत्रम्
तदस्य ब्रह्मचर्यम्॥ ५।१।९३
काशिका-वृत्तिः
तदस्य ब्रह्मचर्यम् ५।१।९४

तदिति द्वितियासमर्थविभक्तिः। सा च अत्यन्तसंयोगे। अस्य इति प्रत्ययार्थः। ब्रहमचर्यम् इति द्वाभ्याम् अपि सम्बध्यते। कालस्य व्यापकं, प्रत्ययार्थस्य च स्वम् इति। तदिति द्वितीयासमर्थात् कालवाचिनः प्रातिपदिकादस्य इति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, ब्रह्मचर्यं चेद् गम्यते। मासं ब्रह्मचर्यमस्य मासिकः ब्रह्मचारी। आर्धमासिकः। सांवत्सरिकः। अपरा वृत्तिः तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, यत् तदस्य इति निर्दिष्टं ब्रह्मचर्यं चेद् तद् भवति। मासो ऽस्य ब्रहमचर्यसय् मासिकं ब्रहमचर्यम्। आर्धमासिकम्। सांवत्सरिकम्। पूर्वत्र ब्रहमचारी प्रत्ययार्थः, उत्तरत्र ब्रहमचर्यम् एव। उभयम् अपि प्रमाणम्, उभयथा सूत्रप्रणयनात्। महानाम्न्यादिभ्यः षष्ठीसमर्थेभ्य उपसङ्ख्यानम्। माहानामिकम्। गौदानिकम्। आदित्यव्रतिकम्। तच् चरति इति च। महानाम्न्य ऋचः, तत् सहचरितं व्रतं तच्छब्देन उच्यते। महानाम्नीश्चरति माहानामिकः। आदित्यव्रतिकः। गौदानिकः। भस्याढे इति पुंबद्भावेन ङीपि निवृत्ते नस् तद्धिते ६।४।१४४ इति टिलोपः। अवान्तरदीक्षादिभ्यो डिनिर्वक्तव्यः। अवान्तरदीक्षां चरति अवान्तरदीक्षी। तिलव्रती। अष्टाचत्वारिंशतो ड्वुंश्च डिनिश्च वक्तव्यः। अष्टाचत्वारिंशद् वर्षाणि व्रतं चरति अष्टाचत्वारिंशकः, अष्टाचत्वरिंशी। चातुर्मास्यानां यलोपश्च ड्वुंश्च डिनिश्च वक्तव्यः। चातुर्मास्यानि चरति चातुर्मासकः, चातुरमासी। चतुर्मास्याण् ण्यो यज्ञे तत्र भवे। चतुर्षु मासेषु भवानि चातुर्मास्यानि। संज्ञायामण् वक्तव्यः। चतुर्षु मासेषु भवा चातुर्मासी पौर्णमासी। आषाढी। कार्तिकी। फाल्गुनी।
न्यासः
तदस्य ब्राहृचर्यम्?। , ५।१।९३

"द्वाभ्यामपि सम्बध्यते" इति। समर्थविभक्त्या, प्रत्ययार्थेन च। कथं सम्बध्यते? इत्याह--"कालस्य" इत्यादि। इह हि द्वितीयाऽत्यन्तसंयोगे।सा हियः कालस्य व्यापकस्तमपेक्षते, नान्तरयकत्वात्()। न हि तेन विनाऽत्यन्तसंयोग उपपद्यते। ब्राहृचर्यं च "कालस्य व्यापकम्()" इति। "व्यापकम्()" इति। व्यापकमपेक्षमाणायां विभक्तौ ब्राहृचर्यसम्बन्धो भवति। कथं प्रत्ययार्थेन सम्बध्यते? इत्यत आह--"प्रत्ययार्थस्य च स्वम्()" इति। प्रत्ययार्थः प्रतियोगि वसक्तु स्वमपेक्षते।प्रकृतत्वाच्च ब्राहृचर्यस्यैव प्रतियोगित्वं विज्ञायते, तद्धि तस्य स्वं भवति। अतः प्रतियोग्यपेक्षायां प्रत्ययार्थस्यापि ब्राहृचर्येण सम्बन्धो भवति। "पूर्वत्र" इत्यादिना पूर्वोत्तरयोर्वृत्त्योर्विशेषं दर्शयति। किं पुनरत्र प्रमाणमित्याह--"द्वयमपि" इत्यादि। कथं पुनद्र्धयमपि प्रमाणमित्याह--"उभयथा" इत्यादि। उभयस्मिन्नपि ह्रत्रार्थे सूत्रमेतदाचार्येण प्रणीतम्()। द्वयमपि प्रमाणम्()। "महानाम्न्यादिभ्य" इति। ब्राहृचर्यं एवार्थ इदमुपसंख्यानाम्()। "तच्चरति" इत्यादि। तदिति द्वितीयासमर्थेभ्यो महानाम्न्यादिभ्यः शब्देभ्यः "चरति" इत्येतस्मिन्नर्थे इदं ठञ उपसंख्यानम्()। "तत्सहचरितं व्रतं तच्छब्देनोच्यते" इति। भवति हि साहचर्यात्? ताच्छब्द्यम्(), यथा--यष्टीः प्रवेशयेति। अथ ऋच एवोच्यन्त इत्येवं कस्मान्न विज्ञायेते? चरणार्थस्यायोगात्()। ब्राहृचर्य हि चर्यते। "चतुर्मासाण्ण्यो यज्ञे" इत्यादि। चतुमसिशब्दात्? तत्रेति सप्तमीसमर्थाद्भव इत्येतस्मिन्नर्थे यज्ञे विषये ण्यो वक्तव्यः "संज्ञायामण्वक्तव्यः" इति। चतुर्मासाद्भव इत्येतदपेक्षते। इदञ्च यज्ञादन्यत्रोपसंख्यानम्। ननु च "तत्र भवः ४।३।५३ इत्यनेनाणाभवत्येव, किमर्थमुपसंख्यायते? सत्यमस्ति; तस्य तु द्विगोर्लुगनपत्ये" ४।१।८८ इति लुक्प्रप्नोति। अतो लुग्बाधनार्थं तस्योपसंख्यानम्()॥
बाल-मनोरमा
तदस्य ब्राहृचर्यम् १७३५, ५।१।९३

तदस्य ब्राहृचर्यं। ननु द्वितीयान्तादिति, कथं सूत्रे ब्राहृचर्यविशेषणस्य तच्छब्दस्य प्रतमान्तत्वादित्यत आह--अत्यन्तेति। तता च कालविशेषाभिव्याप्तं ब्राहृचर्यमस्येत्यर्थे कालात्प्रत्ययः। इदमर्थं प्रति ब्राहृचर्यं विशेषणम्। मासिको ब्राह्वचारीति। मासाभिव्याप्तब्राहृचर्यवानित्यर्थः। आर्धमासिक इति। "अर्धात्परिमाणस्ये"त्युभयपदवृद्धिः। अत्र इदंशब्दार्थस्य ब्राहृचर्यमिति षष्ठ()र्थे प्रथमा। तथाच प्रथमान्तात्कालवाचिनोऽस्य ब्राहृचर्यस्येत्यर्थे ठञित्यर्थः फलति। तदाह--प्रथमान्तादिति। "कालवाचिन" इति शेषः। अस्येत्यर्थ इति। अस्य ब्राहृचर्यस्येत्यर्थे इत्यर्थः। मासोऽस्येत्यनन्तरं "ब्राहृचर्यस्ये"ति शेषः। अस्मिन्पक्षे ब्राहृचर्यमेव प्रत्ययार्थत्वात्प्रधानम्। इदमर्थस्तु तद्विशेषणिति बोध्यम्। उपसंख्यानमिति। "अस्य ब्राहृचर्यमित्यर्थे ठञ" इति शेषः।

माहानाम्निक इति। महानाम्नीशब्दस्य ऋग्विशेषेषु रूढस्य नित्यस्त्रीलिङ्गत्वात् भाषितपुंस्कत्वाऽभावात् "भस्याऽढे" इति पुंवत्त्वं नेति भावः। हरदत्तस्त्विति। "माहनाम्निक"मित्येव भाष्ये उदाह्मतत्वादिमुपेक्ष्यमिति भावः।

चतुर्मासाण्ण्यो यज्ञे तत्रेति। वार्तिकमिदम्। तत्र भवो यज्ञ इत्यर्थे चतुर्मासशब्दात्सप्तम्यन्ताण्ण्यो वाच्य इत्यर्थः। चतुर्ष्विति। चतुर्षु मासेषु अतीतेष्वित्यर्थः।

अण् संज्ञायामिति। वार्तिकमिदम्। चतुर्मासब्दाद्भवार्थे अण् वाच्यः संज्ञायामित्यर्थः। चतुर्ष्विति। फाल्गुनीं पौर्णमासीमारभ्य चतुर्षु मासेष्वतीतेष्वित्यर्थः। आषाढीति। आषाढ्याः पौर्णमास्याश्चातुर्मासीति संज्ञेति भाव। नच "तत्र भवः" इत्यणैव सिद्धमिति वाच्यं, "द्विगोर्लुगनपत्ये" इति लुङ्निवृत्त्यर्थत्वात्।