पूर्वम्: ५।१।९७
अनन्तरम्: ५।१।९९
 
सूत्रम्
सम्पादिनि॥ ५।१।९८
काशिका-वृत्तिः
सम्पादिनि ५।१।९९

तेन इत्येव। तृतीयासमर्थात् सम्पादिन्यभिधेये ठञ् प्रत्ययो भवति। गुणोत्कर्षः सम्पत्तिः। आवश्यके णिनिः। कर्णवेष्टकाभ्यां संपादि मुखं कार्णवेष्टकिकं मुखम्। वास्त्रयुगिकं शरीरम्। वस्त्रयुगेन विशेषतः शोभते इत्यर्थः।
न्यासः
सम्पादिनि। , ५।१।९८

"गुणोत्कर्षः सम्पत्तिः" इति। सम्पादिनीत्यत्र प्रकृतिभागस्यार्थमाचष्टे। पूर्वावस्थाया गुणातिरेको गुणोत्कर्षः। "आवश्यके णिनिः" इति। अवश्यं सम्पद्यत इति "आवश्यकाधमर्णयोर्णिनिः" ३।३।१७०। "विशेषतशोभते" इति। शोभनाख्यस्य गुणस्य पूर्वावस्थाया उत्कर्षादतिरिच्यमानत्वात्()॥
बाल-मनोरमा
सम्पादिनि १७४०, ५।१।९८

सम्पादिनि। तेनेत्येवेति। संपाद=संपत्तिः, शोभा, अस्यास्तीति-संपादी। तस्मिन्नर्थे तृतीयान्ताट्ठगित्यर्थः।

तत्त्व-बोधिनी
सम्पादिनि १३४२, ५।१।९८

संपादिनि। गुणोत्कर्षः--संपत्तिः। "आवश्यके णिनि"रिति वृत्तकृत्। एवं वस्त्रयुगेन संपादि वास्त्रयुगिकं शरीरमित्यप्युदाहार्यम्। वस्त्रयुगेन अवश्यं शोभत इत्यर्थः।