पूर्वम्: ५।२।१२
अनन्तरम्: ५।२।१४
 
सूत्रम्
अद्यश्वीनाऽवष्टब्धे॥ ५।२।१३
काशिका-वृत्तिः
अद्यश्वीना अवष्टब्धे ५।२।१३

विजायते इति वर्तते। अद्यश्वीन इति निपात्यते अवष्टब्धे विजने, आसन्ने प्रसवे। आविदूर्ये हि मूर्धन्यो विधीयते अवाच् च आलम्बनाऽविदूर्ययोः ८।३।६८ इति। अद्य वा श्वो वा विजायते ऽद्यश्वीना गौः। अद्यश्वीना वडवा। केचित् तु विजायते इति न अनुवर्तयन्ति, अवष्टब्धमात्रे निपातनम् इत्याहुः। अद्यश्वीनं मरणम्, अद्यश्वीनो वियोगः इति।
न्यासः
अद्य�आईनावष्टब्धे। , ५।२।१३

"अवष्टब्धे विजन आसन्ने प्रसवे" इति। अत्र पूर्वयोः पदयोरुत्तराभ्यां यथाक्रममर्थाख्यानम्()॥
बाल-मनोरमा
अद्य�आईनावष्टब्धे १७९१, ५।२।१३

अद्य()आईनाऽवष्टब्धे। "अद्य()आईने"त्यविभक्तको निर्देशः। अवष्टब्धम्ासन्नम्। "अवाच्चालम्बनाविदूर्ययो"रित्याविदूर्ये स्तन्भेः षत्वविधानात्। अद्य ()आओ वा विजायत इत्यर्थे अद्य ()आसिति समुदायात्खः स्यादासन्नत्वे गम्ये इत्यर्थः। अद्य()आईना वडवेति। अद्य वा ()आओ वेति वार्थे निपानात्समासः। खे सति "अव्ययानां भमात्रे" इति टिलोपः। सूत्रे अद्य()आईनेति टाबन्तनिर्देशे तु अद्य()आईनो गोसमूहः, अद्य()आईनां गोमण्डलमिति न स्यात्।

तत्त्व-बोधिनी
अद्य�आईनावष्टब्धे १३८१, ५।२।१३

अद्य ()आओ वेति। निपातनाद्वाऽर्थे समासोऽयमिति भावः। "अवाच्चालम्बने"ति सूत्रेण आविदूर्ये स्तन्भेः षत्वविधानादवष्टब्धशब्द आसन्नपरः। "विजायते"इति हि वर्तते। स च गर्भविमोचनार्थकः। तदाह---आसन्नप्रसतेत्यर्थ इति।