पूर्वम्: ५।२।१३
अनन्तरम्: ५।२।१५
 
सूत्रम्
आगवीनः॥ ५।२।१४
काशिका-वृत्तिः
आगवीनः ५।२।१४

आगवीनः इति निपात्यते। गोः आङ्पूर्वादा तस्य गोः प्रतिपादनात् कर्मकारिणि खः प्रत्ययो निपात्यते। आगवीनः कर्मकरः। यो गवा भृतः कर्म करोति आ तस्य गोः प्रत्यर्पणात्।
न्यासः
आगवीनः। , ५।२।१४

बाल-मनोरमा
आगवीनः १७९२, ५।२।१४

आगवीनः। कर्मकरे इति। वार्तिकलभ्यमिदम्। भृतिं गृहीत्वा यः कर्म करोति स--कर्मकरः। अत्र गोपालो विवक्षितः। स हि प्रातर्गां गृहीत्वा आसायं चारयित्वा स्वाभिनो गृहं नीत्वा प्रत्यर्पयति। तदाह--गोः प्रत्यर्पणेति। आगवीन इति। "गो" शब्दो गोप्रत्यर्पणे लाक्षणिकः। "आङ्मर्यादाभिविध्यो"रित्यव्ययीभावे "गोस्त्रियो"रिति ह्यस्वत्वे, आगुशब्दात्खे "ओर्गुणः" इति भावः।

तत्त्व-बोधिनी
आगवीनः १३८२, ५।२।१४

कर्मकतरे इति। यस्तु प्रातर्गा गृहीत्वा गच्छति गोपालस्तस्मिन्नित्यर्थः। गोः प्रत्यर्पणपर्यन्तमिति। गोशब्दो लक्षणया गोः प्रतिदाने वर्तते इति भाव। आगवीन इति। "आङ्भर्यादाभिविध्यो"रित्यव्ययीभङावे "गोस्त्रियो"रिति ह्यस्वे कृतो खप्रत्ययः। "ओर्गुणः"।