पूर्वम्: ५।२।१५
अनन्तरम्: ५।२।१७
 
सूत्रम्
अध्वनो यत्खौ॥ ५।२।१६
काशिका-वृत्तिः
अध्वनो यत्खौ ५।२।१६

ततिति द्वितीया समर्थविभक्तिरनुवर्तते। अलङ्गामी इति च प्रत्ययार्थः। अध्वन्शब्दात् द्वितीयासमर्थादलङ्गामी इत्येतस्मिन्नर्थे यत्खौ प्रत्ययौ भवतः। अध्वानम् अलङ्गामी अध्वन्यः, अध्वनीनः। ये च अभवकर्मणोः ६।४।१६८, आत्माध्वानौ खे ६।४।१६९ इति प्रकृतिभावः।
न्यासः
अध्वनो यत्खौ। , ५।२।१६

बाल-मनोरमा
अध्वनो यत्खौ १७९४, ५।२।१६

अद्वनो यत्खौ। अध्वन्शब्दादलिङ्गमीत्यर्थे यत्खौ स्त इत्यर्थः। अध्वानमलंगच्छतीति। अलङ्गामीत्यनेन विग्रहे तु अध्वनोऽलङ्गामीत्येव विग्रहः।