पूर्वम्: ५।२।१६
अनन्तरम्: ५।२।१८
 
सूत्रम्
अभ्यमित्राच्छ च॥ ५।२।१७
काशिका-वृत्तिः
अभ्यमित्राच् छ च ५।२।१७

अभ्यमित्रशदात् द्वितीयासमर्थातलङ्गामी इत्यस्मिन्नर्थे छः प्रत्ययो भवति। चकाराद् यत्खौ च। अभ्यमित्रम् अलङ्गामी अभ्यमित्रीयः अभमित्र्यः, अभ्यमित्रीणः। अमित्राभिमुखं सुष्ठु गच्छति इत्यर्थः।
न्यासः
अभ्ययित्राच्छ च। , ५।२।१७

"अभ्यमित्रात्()" इति। अमित्रस्याभिमुखमभ्यमित्रम्()। "लक्षणेनाभिप्रती आभिमुख्ये" २।१।१३ इत्यव्ययीभावः। क्रियाविशेषणञ्चैतत्()। तेन द्वितीयैव समर्थविभक्तर्भवति॥
बाल-मनोरमा
अभ्यमित्राच्छ च १७९५, ५।२।१७

अब्यमित्राच्छ च। अमित्रः=शत्रुः। तमभिमुखो भूत्वेत्यर्थे "लक्षणेनाभिप्रती आभिमुख्ये" इत्यव्ययीभावे अभ्यमित्रशब्दः। तस्मादलङ्गामीत्यर्थे छप्रत्ययः स्यादित्यर्थः।

तत्त्व-बोधिनी
अभ्यमित्राच्छ च १३८४, ५।२।१७

अभ्यमित्रात्। अभ्यमित्रशब्दो "लक्षणेनाभिप्रती आभिमुख्ये"इत्यव्ययीबावः। क्रियाविशेषणत्वाद्द्वितीया समर्थविभक्तिः।