पूर्वम्: ५।२।१८
अनन्तरम्: ५।२।२०
 
सूत्रम्
अश्वस्यैकाहगमः॥ ५।२।१९
काशिका-वृत्तिः
अश्वस्यैकाहगमः ५।२।१९

निर्देशादेव समर्थविभक्तिः। अश्वशब्दाद् षष्ठीसमर्थातेकाहगमः इत्येतस्मिन्नर्थे खञ् प्रत्ययो भवति। एकाहेन गम्यते इति एकाहगमः। अश्वस्य एकाहगमो ऽध्वा आश्वीनः। आश्वीनानि शतं पतित्वा।
न्यासः
अश्व्स्यैकाहगमः। , ५।२।१९

"एकाहेन गम्यत इति एकाहगमः" इति। "अकत्र्तरि च" ३।३।१९ इत्यादिना घञ्(), निपातनान्न वृद्धिः। "कर्त्तृकरणे कृता बहुलम्()" २।१।३१ इति समासः। "आ()आईनानि शतं पतित्वा" इति। एकाहेन यानि गम्यन्ते योजनानि तेषां शतं गत्वेत्यर्थः। शतं संख्येये वत्र्तमानं स्वसंख्योपादान एव स्वभावाद्वत्र्तते। तेना()आईनानि शतमित्या()आईनशब्देन बह्वर्थप्रवृत्तिसामानादिकरण्येऽप्येऽप्येकवचनान्तमेव प्रयुज्यते॥
बाल-मनोरमा
अ�आस्यैकाहगमः १७९७, ५।२।१९

अ()आस्यैकाहगमः। अ()आशब्दात्षष्ठ()न्तादेकाहगम इत्यर्थे खञ्स्यादित्यर्थः। "एकाहगम"शब्दं व्युत्पादयति--एकाहेनेति। अस्मादेव निपातनात्कर्मणि गमेरविति भावः। "कर्तृकरणे कृते"ति समासः। अ()आस्येति कर्तरि षष्ठी। आ()आओनोऽध्वेति। अ()ओन कत्र्रा एकाहेन गन्तुं शक्य इत्यर्थः।

तत्त्व-बोधिनी
अ�आस्यैकाहगमः १३८६, ५।२।१९

अ()आस्य। कर्तरि षष्ठीयं निर्देशादेव समर्थविभक्तिः। एकाहगम इति। "कर्तृकरणे कृते"ति समासः। नन्विह "ग्रहणवृद्दनिश्चिगमश्चे"त्यपं बाधित्वा "पारिमाणाख्यायां सर्वेभ्यः"इति घञ्प्राप्नोति, अस्ति चाऽत्र परिमाणख्या "एकाहेन गम्यते"इति परिच्छेदावगमात्। अत्राहुः---अस्मादेव निपातनादप्द्रष्टव्य इति।