पूर्वम्: ५।२।४८
अनन्तरम्: ५।२।५०
 
सूत्रम्
नान्तादसंख्याऽ‌ऽदेर्मट्॥ ५।२।४९
काशिका-वृत्तिः
न अन्तादसङ्ख्याऽअदेर् मट् ५।२।४९

डटिति वर्तते। नकारान्तात् सङ्ख्यावाचिनः प्रातिपदिकातसंख्यादेः परस्य डटो मडागमो भवति। नान्तातिति पञ्चमी इट आगमसम्बन्धे षष्ठीं प्रकल्पयति। पञ्चानां पूरणः पञ्चमः। सप्तमः। नान्तातिति किम्? विंशतेः पूरणः विंशः। असङ्ख्यादेः इति किम्? एकादशानां पूरणः एकादशः।
लघु-सिद्धान्त-कौमुदी
नान्तादसंख्यादेर्मट् ११७९, ५।२।४९

डटो मडागमः। पञ्चानां पूरणः पञ्चमः। नान्तात्किम्?।
न्यासः
नान्तादसंख्यादेर्मट्?। , ५।२।४९

"डटो मडागमो भवति" इति। अथ प्रत्यय एव नान्तात्? मट्? कस्मान्न भवति? नर्हति प्रत्ययो भवितुम्()। प्रत्यये हि तस्मिन्? सति डटोऽनुवृत्तिरपार्थिका स्यात्(), स हि पूर्वमेव विहितः, न च विहितस्यानुवृत्तिर्विधानार्थोपपद्यत इति। आगमार्थे च सा विज्ञायते। ननु च पञ्चम इत्यादौ न कश्चिद्विशेषः--मट आगमत्वे, प्रत्ययत्वे वा; तदेव हि रूपम्(), स एव हि स्वरः, किञ्चानुवृत्तेन, मट एव प्रत्ययत्वमस्तु? सत्यम्(), इह नास्ति विशेषः; विंशतितम इत्यादौ तु विद्यते। तथा हि "विशत्यादिभ्यस्तमडन्यतरस्याम्()" ५।२।५५ इति मट्प्रत्ययः स्यात्()। ["मयट्()" मुद्रितपाठः] विंशतितमप्रभृतयः शब्दाः प्रत्ययस्वरेण मध्योदात्ताः स्युः। डटि तु प्रत्यये सति तस्याद्युदात्तत्वे कृते ततश्चागमानुदात्तत्वे चान्तोदात्ता भवन्ति। तस्मादुतरार्थेऽनुवत्र्तमानस्येहापि डट एव प्रत्ययत्वं विज्ञायते। कथं पुनर्डटो मडागमः शक्यो विधातुम्(), यावता प्रथमानिर्दिष्टं प्रकृतं डड्ग्रहणम्(), षष्ठीनिर्दिष्टेन चेहार्थः? इत्यादि--"नान्तात्()" इत्यादि। यद्यपि प्रथमान्तं डड्ग्रहणं प्रकृतम्(), तथापि डट आगमसम्बन्धेन "तस्मादित्युत्तरस्य" १।१।६६ इति नान्तादित्येषा पञ्चमी डडिति प्रथमायाः षष्ठीं प्रकलपयतत्यदोषः। "पञ्चमः" इति। टिलोपोऽत्र न भवति; मटि कृते सत्यभसंज्ञकत्वात्()। ननु च परत्वाट्टिलोपेनैव तावद्भवितव्यम्()? नैतदस्ति; अन्तरङ्गो ह्रागमः, स हि प्रत्ययसन्नियोगेनोच्यते। टिलोपस्तूत्पन्ने प्रत्यये भसंज्ञाया सत्यां प्रकृतिप्रत्ययावाश्रित्य भवतीति बहिरङ्गो भवति। "एकादशानां पूरणा एकादशः" इति। कथं पुनरस्मात्प्राप्तिः, यावता संख्याग्रहणमनुवत्र्तते, संख्यासम्()दायोऽपि हि संख्याग्रहणेन गृह्रते--संख्यायतेऽनयेति कृतवा। अवश्यं चैतदेवं विज्ञेयम्(); अन्यथाऽदशतया न स्यात्()॥
बाल-मनोरमा
नान्तादसङ्ख्यादेर्मट् १८२६, ५।२।४९

नान्तासङ्ख्यादेर्मट्। डटो मडागमः स्यादिति। शेषपूरणमिदम्। डटि टकार इत्। अकार उच्चारणार्थः। पञ्चम इति। पञ्चन्शब्दाड्डटि तस्य भडागमे सति नलोपः। यद्यपिमटः प्रत्ययत्वेऽपि न रूपभेदः, तथापि स्वरविशेषार्थं मडागमाश्रयणमिति भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
नान्तादसङ्ख्यादेर्मट् १४१०, ५।२।४९

नान्तादसङ्ख्यादेः। डट इति। "डट्िति प्रथमान्तस्यानुवृत्तस्य "नान्ता"दिति पञ्चम्या षष्ठी कल्प्यत इति भावः। यद्यपीह मटः प्रत्ययत्वेऽपि न क्षतिः, तथाप्युत्तरत्र तमट आगमत्वमेवाभ्युपगन्तव्यम्, अनुदात्तता यथा स्यात्। प्रत्ययत्वै ह्राद्युदात्तः स्यात्। तया चैकरूप्येणैव संदर्भव्याख्यानमुचितम्। अन्येत्वाहुः--मटः प्रययत्वे अकारसहितो मकारो विधेयः, आगमत्वे तु मकारमात्रमिति लाघवमस्तीति। विंश इति। विशतेः पूरणः। "ति विंशतेर्डिति"इति लोपः।