पूर्वम्: ५।२।६
अनन्तरम्: ५।२।८
 
सूत्रम्
तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति॥ ५।२।७
काशिका-वृत्तिः
तत् सर्वाऽदेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति ५।२।७

ततिति द्वितीया समर्थविभक्तिः। व्याप्नोति इति प्रत्ययार्थः। परिशिष्टं प्रकृतिविशेषणम्। सर्वाऽदेः प्रातिपदिकात् पथिनङ्ग कर्मन् पत्र पात्र इत्येवम् अन्ताद् द्वितीयासमर्थाद् व्याप्नोति इत्यस्मिन्नर्थे खः प्रत्ययो भवति। सर्वपथं व्याप्नोति सर्वपथीनो रथः। सर्वाङ्गिणः तापः। सर्वकर्मीणः पुरुषः। सर्वपत्रीणः सारथिः। सर्वपात्रीणः ओदनः।
न्यासः
तत्सर्वादेः पथ्यङ्गकर्मपत्त्रपात्रं व्याप्नोति। , ५।२।७

अथ सूत्र द्वितीयान्तप्रकृत्युच्चारणं किमर्थम्()? तदिति द्वितीयासामथ्र्यात्? प्रत्ययो यथा स्यात्()। अथ वा--पथ्यङ्गकर्मपत्त्रपात्रमिति नैवेयं द्वितीया, न हि व्याप्नोतिक्रियया पथ्यादयः सम्बध्यन्ते, किं तर्हि? सर्वादि। तस्मात्? तस्यैव कर्मत्वम्(), न पथ्यादीनां तदवयवानाम्()। तत्? कुतः? न सा द्वितीया, सुब्व्यत्ययेन पञ्चम्याः स्थाने प्रथमा त्वेषा। तस्मात्? समाहारद्वन्द्वस्य नपुंसकलिङ्गत्वात्? "अतोऽम्()" २।४।८३ इत्यभ्भावः कृतः। "परिशिष्टम्()" इति। "सर्वादेः पथ्यङ्गकर्मपत्त्रपात्रम्()" इत्येतच्च। सर्वादेः प्रातिपदिकस्य पथ्यादयश्चादौ न भवन्ति। ततः सामथ्र्यात्? तदन्तविधिर्विज्ञायत इत्याह--"पथ्यङ्गकर्मपत्त्रपात्रान्तात्()" इति। "सर्वपथीनः" इति। सर्वश्चासौ पन्थाश्चेति "पूर्वकाल" २।१।४८ इत्यादिना समासः, "ऋक्पूरब्धूःपथामानक्षे" ५।४।७४ इत्यकारः समासान्तस्तदतः। ननु च समासान्ते कृते पथ्यन्तमेव न भवति? यदत्र पथ्यन्तं तदाश्रयो विधरिर्भवतीत्यदोषः। ननु च व्यवधानान्न प्राप्नोति? अन्तग्रहणात्? समासान्ताः समासग्रहणेन गृह्रन्त इति नास्ति व्यवधानम्()॥
बाल-मनोरमा
तत्सर्वादेः पथ्यङ्कर्मपत्रपात्रं व्याप्नोति १७८५, ५।२।७

तत्सर्वादेः। पथिन्, अङ्ग, कर्मन्, पत्र, पात्र-एषां समाहारद्वन्दावात्पञ्चम्यर्थे द्वितीया। प्रातिपदिकविशेषणत्वात्तदन्तविधिः। "ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती"ति निषेधस्तु न, केवलानामेषां सर्वादित्वस्याऽसंभवात्। "त"दिति तु द्वितीयान्तं व्याप्नोतीत्यत्रान्वेति। ततश्च तद्व्याप्नोतीत्यर्थे सर्वशब्दपूर्वपदकेभ्यः प्रातिपदिकेभ्यो द्वितायान्तेभ्यः पथ्यङ्गकर्मपत्रपात्रान्तेभ्यः खः स्यादित्यर्थः फलति। तदाह--सर्वादेरित्यादिना। सर्वपथानिति। "ऋक्पू"रिति समासान्ताः। आप्रपदम्। "आप्रपद"मित्यव्ययीभावाद्द्वितीयान्तात्प्राप्नोतीत्यर्थे खः स्यादित्यर्थः। पदस्याग्रं प्रपदमिति। "पादाग्रं प्रपद"मित्यमरः।

तत्त्व-बोधिनी
तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति १३७६, ५।२।७

तत्सर्वादेः। "त"दिति द्वितीया समर्थविभक्तिः। व्याप्नोतीति प्रत्ययार्थः। परिशिष्टं प्रकृतिविशेषणम्। तत्र केवलानां पथ्यादीनां सर्वादित्वाऽसंभवात्प्रातिपदिकैरपि तैस्तदन्तविधिः। तदाह----पथ्याद्यन्तादिति। पथ्यङ्गकर्मपत्रपात्रान्तात्प्रातिपदिकादित्यर्थः। सर्वपथीनि इति। "पूर्वकालैके"ति समासः। "ऋक्पी"रिति समासान्तः। तस्य पथ्यन्तसमासग्रहणेन ग्रहणाद्भवति खप्रत्यय।