पूर्वम्: ५।२।७
अनन्तरम्: ५।२।९
 
सूत्रम्
आप्रपदं प्राप्नोति॥ ५।२।८
काशिका-वृत्तिः
आप्रपदं प्राप्नोति ५।२।८

प्रपदम् इति पादस्य अग्रम् उच्यते। आङ् मर्यादायाम्। तयोरव्ययीभावः। आप्रपदशब्दात् तदिति द्वितीयासमर्थात् प्राप्नोति इत्येतस्मिन्नर्थे खः प्रत्ययो भवति। आप्रपदं प्राप्नोति आप्रपदीनः पटः। शरीरेण असम्बद्धस्य अपि पटस्य प्रमाणम् आख्यायते।
न्यासः
आप्रपदं प्रप्नोति। , ५।२।८

"तयोरव्ययीभावः" इति। "आङ्मर्यादाभिविध्योः" २।१।१२ इत्यनन। "शरीरेणासम्बद्धस्यापि पटस्य प्रमाणमाख्यातम्()" इति। प्राप्तियोग्यतामुपादाय हि योग्योऽसावाप्रपदाच्छरीरं प्राप्तुम्()। अथ व्याप्तिप्राप्त्योः को विशेषः, येन व्याप्नोतीति कृते प्राप्नोतीत्युक्तम्()? सम्बन्धमात्रं प्राप्तिः, सम्बन्ध एव साकल्येन व्याप्तिरित्येव विशेषः॥
बाल-मनोरमा
आप्रपदं प्राप्नोति १७८६, ५।२।८

आप्रपदमिति। "आङ्मर्यादाभिविध्यो"रित्यव्ययीबावः। अनुपद। अनुपद, सर्वान्न, अयानय-एषां समाहारद्वन्द्वाद्द्वितीया। बद्धा, भक्षयति, नेय-एषां द्वन्द्वात्सप्तमी। तिङन्तस्य द्वन्द्वानुप्रवेश आर्षः। अनुपदादिभ्यो द्वितीयान्तेभ्यः क्रमाद्बद्धादिष्वर्थेषु खः स्यादित्यर्थः। अनुरायामे सादृश्ये वेति। आद्ये "यस्य चायामः" इत्यव्ययीभावः, द्वितीये सादृश्ये अव्ययीभावः।