पूर्वम्: ५।२।९३
अनन्तरम्: ५।२।९५
 
सूत्रम्
रसादिभ्यश्च॥ ५।२।९४
काशिका-वृत्तिः
रसादिभ्यश् च ५।२।९५

रसादिभ्यः प्रातिपदिकेभ्यः मतुप् प्रत्ययो भवति तदस्य अस्त्यस्मिनित्येतस्मिन् विषये। रसवान्। रूपवान्। किमर्थम् इदम् उच्यते, न पूर्वसूत्रेण एव मतुप् सिद्धः? रसादिभ्यः पुनर् वचनम् अन्यनिवृत्त्यर्थम्, अन्ये मत्वर्थीया मा भूवन्निति। कथं रूपिणी कन्या, रूपिको दारकः? प्रायिकम् एतद् वचनम्। इतिकरणो विवक्षार्थो ऽनुवर्तते। अथ वा गुणातिति अत्र पठ्यते। तेन ये रसनेन्द्रियादिग्राह्या गुणाः, तेषाम् अत्र पाठः। इह मा भूत्, रूपिणी, रूपिकः इति। शोभायोगो गम्यते। रसिको नटः इत्यत्र भावयोगः। रस। रूप। गन्ध। स्पर्श। शब्द। स्नेह। गुणात्। एकाचः। गुनग्रहणं रसादीनां विशेषणम्।
न्यासः
रसादिभ्यश्च। , ५।२।९४

"अन्यनिवृत्त्यर्थम्()" इति। अन्यस्येनिप्रभृतेर्मत्वर्थीयस्य निवृत्तिरर्थः प्रयोजनं यस्य तत्तथोक्तम्()। "कथम्()" इत्यादि। रसादिभ्यः पुनर्वचनमन्यनिवृत्त्यर्थम्()। ततो रूपिणी कन्येत्यादि न सिध्यतीति भावऋः। "प्रायिकम्()" इत्यादि। अन्यनिवृत्तेर्बाहुल्येनार्थः--सोऽस्यास्तीति प्रायिकमेव युक्तं भवतीति। बाहुल्येनास्यान्यनिवृत्तित्वेन रूपणीत्यादौ क्वचिदन्योऽपि भवतीति कथं पुनरस्य प्रायिकत्वं लभ्यते? इत्याह--"इतिकरणः" इत्यादि। इतिकरणश्चेह विवक्षार्थोऽनुवत्र्ते। तेन यतद्र तु मतुबन्तादेव लोकस्य विवक्षा भवति, तत्र तेनान्यनिवृत्तिः क्रियते; न सर्वत्र। "अथ वा" इत्यादि। परिहारान्तरम्()। आदिशब्देन चक्षुरादीन्द्रियपरिग्रहः। गुणादिति गणे पठ()ते। च गुणग्रहणं सर्वेषामेव रसादीनां विशेषणम्()। तेन ये रसनादीन्द्रियग्राह्राः। "तेषामेवायं पाठः" इति। गुणवचनान्तेभ्यो रसनादीन्द्रियग्राह्रेभ्योऽन्यनिवृत्तिरनेन क्रियते, नान्येभ्य-। स्यादेतत्--रूपिणीत्यादावपीन्द्रियग्रह्रा ये गुणास्तेभ्यो मत्वर्थीय उत्पन्न:? इत्याह--"रूपिणो, रूपिकः" इत्यादि। रूपिणी, रूपिक इत्यत्र शोभागुणो गम्यते, न चक्षुग्र्राह्रेण रूपेण। "रसिको नटः" इत्यत्रापि भावगुणो गम्यते, न तु रसनेन्द्रियग्राह्रेण गुणेन। भावाः शृङ्गारवीरबीभत्सादयो रचनाधर्माः। "एकाचः" इति। एकाक्षरादिति। एकोऽज्? यस्य तस्मान्मतुबेव भवतीति--धीमान्(), स्ववानिति॥
बाल-मनोरमा
रसादिभ्यश्च १८७०, ५।२।९४

रसादिभ्यटश्च। मतुबिति। शेषपूरणमिदम्। "उक्तविषये" इति शेषः। पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह--अन्यमत्वर्थीयेति। "अत इनिठनौ" इत्यादिनिवृत्त्यर्थमित्यर्थः। रसादीन्पठति--रसरूपेत्यादि भावेत्यन्तम्। गुणादिति। एकाच इति। गणसूत्रम्। उदाहरति-स्ववानिति। गुणग्रहणमिति। गुणादित्येतद्रसादीनां षण्णां विशेषणमित्यर्थः। तेन गुणवाचकानामेव एषां ग्रहणाज्जलादिवाचकानां रसादिशब्दानां द्रव्यवाचिनां च गन्धादिशब्दानामिह न ग्रहणमिति भावः। "रसिको नटः" "स्पर्शिकं वारि" इत्यादि प्रयोगदर्शनादिदं सूत्रं भाष्ये प्रत्याख्यातम्।

तत्त्व-बोधिनी
रसादिभ्यश्च १४४०, ५।२।९४

अन्यमत्वर्थीयेति। कथं तर्हि "रूपिमी कन्या" "रसिको नटः"इति()। अत्राहुः---रसादिगणे "गुणात्िति पठ()ते। तेन गुणवाचिभ्य एवाऽन्यमत्वर्थीयस्य निषेधः, रूपिणीत्यत्र तु रूपशब्देन सौन्दर्यं गृह्रते। तच्च न गुणः। "रसिक"इत्यत्र तु रसशब्देन भावो गृह्रते, न तु रसनाग्राह्रो गुण इति।

गुणवचनेभ्यो मतुपो लुगिष्ठ। गुणवचनेभ्य इति। गुणे तद्वति च प्रसिद्धा ये शुक्लादयस्त एव गृह्रन्ते न तु रूपादयोऽपि। तेन रूपं वरुआमित्यादिप्रयोगो न भवति।