ईषदसमाप्तिविशेष्टे ऽर्थे वर्तमानात् सुबन्तात् विभषा बहुच् प्रत्ययो भवति। स तु पुरस्तादेव भवति, न परतः। चित्करणम् अन्तोदात्तार्थम्। ईषदसमाप्तः पटुः बहुपटुः। बहुमृदुः। बहुगुडो द्राक्षा। विभाषावचनात् कल्पबादयो ऽपि भवन्ति। सुब्ग्रहणं तिङन्तान् मा भूदिति।
ईषदसमाप्तिविशिष्टेर्ऽथे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव न तु परतः। ईषदूनः पटुर्बहुपटुः। पटुकल्पः। सुपः किम्? जयति कल्पम्॥
विभाषाग्रहणेनेह बहुच्? सम्बध्यते, न पुरस्तादित्येतत्; तेन बहुचः पूर्वत्वं न विक्ल्प्यत इति नित्यमेव तद्भवति, अत एवाह--"स तु पुरस्तादेव" इति। एवकारेम तुशब्दस्यावधारणार्थतां दर्शयति। यदि पुनस्तुशब्दोऽ वधारणार्थो न क्रियते,
ततो न ज्ञायते--किं विभाषाग्रहणेन बहुच्? सम्बध्यते,
अथ पुरस्तादितयेतदिति! तु शब्देन त्ववधारणार्थेन पुरस्तादितत्येतस्मिन्? नियमिते पारिशेष्याद्विभाषावचने बहुजेवाभिसम्बध्यत इति विज्ञायते। "चित्करणमन्तोदात्तार्थम्()" इति।
कस्य पुनरन्तोदात्तत्वं चित्कराद्भवति? सप्रकृतेः समुदायस्य;"चितः सप्रकृतेर्ब ह्वकजर्थम्()" (वा।६।१।१६३) इति वचनात्()। यद्येवम्(),
पटव इति सुबन्तादुत्पत्तौ जस उदात्तत्वं प्राप्नोति? नैष दोषः;
बहुच्युत्पन्ने सति "अर्थवदधातुरप्रत्ययः प्रातिपदिकम्? १।२।४५ इति प्रातिपदिकसंज्ञायां कृतायाम्(), "सुपो धातुप्रातिपादिकयोः" (२।४।
७१) इति सुब्लुक्? तावत्? क्रियते,
तस्मिन्? कृते पश्चादुदात्तत्वं क्रियमाणं पटुशब्दे य उकारस्तस्य भवति।
यस्तु पुनः प्रातिपदिकसंज्ञायां कृतायां सुब्लुकि च कृते अन्यो जस्? उत्पद्यते, तस्योदात्तत्वं नाशह्कनीयम्(), न ह्रसौ प्रकृत्येकदेशः।
ननु चार्थवत्समुदायानां समासग्रहणं नियमार्थमिति बहुच्पूर्वस्य प्रातिपदिकसंज्ञया न भवितव्()यम्()? नैष दोषः; तुल्यजातीयस्य नियमः।
कश्च तुल्यजातीयः? यथाजातीयकानां समासः।
कथञ्जातीयकानां समासः? भदसंसर्गवताम्()। भेदसंसर्गौ च पृथगर्थानामेव भवतः। द्योतकानाञ्च पृथगर्थवत्ता न सम्भवति।
अथ कस्मात्? सुब्लुक्? तावत्? क्रियते, पश्चादन्तोदात्तत्वम्(),
यावता परत्वादन्तोदात्तत्वे नै व पूर्वं युक्तं भवितुम्()? नैतदस्ति; नित्यो हि लुक्(), कृताकृतप्रसङ्गित्वात्()। स हि कृतेऽप्यन्तोदात्तत्वे प्राप्नोति, अकृतेऽपि; अन्तोदात्तत्वं त्वन्यस्य लुकि कृते प्राप्नोति।
अन्यस्याकृते शब्दान्तरस्य प्राप्नुवन्? विधिरनित्यो भवति,
तस्माल्लुगेव तावत्? क्रियते।
"बहुगुडा द्राक्षा" इति। कथं पुनरत्रेषदसमाप्तिः, यावता गुडशब्देन गुडजातिरुच्यते, तदाधारो वा द्रव्यम्()। तत्र जातिस्तावदेका, निरवयवा चेति सर्वस्मिन्नाश्रये समाप्ता,
द्रव्यमपि यत्? तया सम्बद्धं तत्? सर्वतः पूर्णत्वात्? समाप्तमेव। तस्मादीषदसमाप्तिरयुक्तमिह विशेणम्(),
असम्भवात्()? सामानाधिकरण्यं च बहुगुडा द्राक्षेति द्राक्षाशब्देन न प्राप्नेति,
तस्यार्थान्तरत्वात्()? स्त्रीलिङ्गमपि "स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवत्र्तन्ते" (व्या। प।
७४) इति नोपपद्यते? नैष दोषः; इह शब्दादुच्चारिताद्द्वयं प्रतीयते--शब्दोऽर्थः, जातिद्र्रव्यञ्च; अभिधेयसम्बन्धेनाशब्दार्थभूता अपि गुणाः, यत्रैतदुभयमस्ति तत्र समाप्तिः। यत्र त्वन्यतरन्नास्ति तत्रेह गुडशब्दो गुडजातिहीने माधुर्यादिगुणहीने वा द्रव्ये वत्र्तते इत्युपपद्यत ईषदसमान्तिः सामानाधिकरण्यमप्युपद्यत एव।
कथम्()? यदा तावज्जातिहीने केनचित्? साधम्र्येण द्राक्षादिशब्दाभिधेये वर्त्तित्वा गुडशब्दः प्रत्ययमुत्पदयत, तदा द्राक्षाशब्देन सामानाधिकरण्यं भवति; उभयोरेकार्थवृत्तित्वात्()। यदा तु गुणहीने गुडजीतीय एव, तदापि सामानाधिकरण्यम्(), गौर्वाहीक इति यथा, तथा भविष्यति गुणहीनोऽपि गुडशब्दः। गुडो बहुगुडशब्देनोत्त्यते, तेन च तुल्या द्राक्षेति साऽपि बहुगुडशब्देनाभिदायिष्यते। स्त्रीलिङ्गमपि चोपपद्यते; तस्य लोकाश्रयत्वात्()। अपि च "स्वार्थिकाः प्रकृतेलिंङ्गवचनान्यनुवत्र्तन्ते (व्या। प। ७४) इति प्रायिकमेतत। तेन कदाचिदतिवत्र्ततन्तेऽपि, यथा कुटीरः, शमीर इति। "कुटीशमीशुण्डाभ्यो रः"
५।३।८८ इति स्वार्थिकश्च।
"विभाषावचनात्()" इत्यादिना विभाषाग्रहणस्य प्रयोजनमाचष्टे।
असति हि विभाषाग्रहणे तिडन्तेषु कृतावकाशाः कल्पबादयो बहुचा सुबन्ताद्विशेषविहितेन बाध्येरन्? तस्मिस्तु सतदि पक्षे तेऽपि भवन्ति। ननु च भिन्नदेशेन बहुचा नास्ति तेषां विरोधः,
तत्कुतो बाधा? असत्यां वा बाधायां कृतेऽपि बहुचि तैर्भवितव्यमेव,
परदशस्यानवष्टब्धत्वात्()? नैतदस्ति; न ह्रवश्यं देशकृत एव सामान्यविशेषयोर्विरोधो भवति,
किं तर्हि? अर्थकृतोऽपि।
बहुचश्च कल्पबादिभिः समानोर्थ इति बहुचा द्योतितत्वात्? तस्यार्थस्य कल्पबादयो न भवविष्यन्ति। न हि द्योतिते पुनर्द्योतनमस्ति, यथाभिहिते नाभिधातव्यम्()।
अथ सुब्ग्रहणं किमर्थम्(), यावता प्रातिपदिकग्रहणमनुवत्र्तते,
न च प्रातिपदिकात्? सुबन्ताद्वा बहुच उत्पत्तौ कश्चिद्विशेषोऽस्ति? अत आह--"सुब्ग्रहणम्()" इत्यादि। असति हि सुब्ग्रहणे "तिङश्च" (५।३।
५६) इति प्रकृतत्वात्? ततो हि प्रत्ययः स्यात्()। अतस्तन्निवृत्त्यर्थं सुबग्रहणम्()॥
विभाषा सुपः। सूत्रे "सुपः"इति षष्ठ()न्तं, "षष्ठ()तसर्थप्रत्ययेने"त्युक्तेः। सुबन्तादिति। एतच्च पञ्चम्यन्तं युक्तमेव, पुरस्ताच्छब्दपर्यायस्य प्रागितिशब्दस्य वृत्तौ प्रयुक्तत्वात्। प्रागित्यपकृष्यत इथि तु मनोरमायां स्थितम्। नस च सूत्रस्थपुरस्ताच्छब्दसमानार्थकप्राक्()शब्दयोगेऽपि "षष्ठ()तसर्थे"ति षष्ठी स्यादिति वाच्यम्, "अन्यारा"दिति सूत्रेऽञ्चूत्तरपदस्य दिक्शब्दत्वेऽपि "षष्ठ()तसर्थप्रत्ययेने"त्येतद्बाधनार्थं पृथग्ग्रहणमिति सिद्धान्तयित्वा "प्राक् प्रत्यग्वा ग्रामा"दित्युदाह्मतत्वात्। काशिकायां तु वृत्तपवि पुरस्ताच्छब्दः प्रयुक्तः, सुबन्तादिति च प्रयुक्तं। तदसमञ्जसमिति मत्वा हरदत्तेन कथंचितं समर्थितं---"ल्यब्लोप एषा पञ्चमी। एवंभूतं प्रकृतित्वेनाश्रित्येत्यर्थ"इति। प्रागेवेति। सौत्रस्तुशब्दोऽवधारणे वर्तत इति भावः। तेन च बहुजेव विकल्प्यते, न तु पूर्वत्वम्। तुशब्दाऽभावे तु प्राक्त्वं विकल्प्येत। तथा च पक्षे बहुच् परः स्यात्। भाष्यकारस्य मते तु नेदं तुशब्दस्य फलम्। तथाहि---"उद()इआतोऽन्यतरस्या"मित्यादौ प्रधानत्वात्प्रत्यय एव विकल्प्यते, न तु परत्वं, प्रत्यय एव हि परत्वविशिष्टो विधीयत इत#इ , विशेषणस्य गुणत्वात्, "गुणानां च परार्थत्वादि"ति न्यायात्। तद्वदिहापि विभाषाग्रहणेन बहुजेब संभन्त्स्यते, न पुरस्तादित्येतत्। तुशब्दस्य तु अवधारणार्थस्याऽन्यदेव प्रयोजनं "पुस्तादेव सर्वं यथा स्या"दिति। तेन लिङ्गसङ्ख्ये अपि प्राक् प्रत्ययोत्पत्तेः प्रकृत्यवस्थायां ये दृष्टे ते एव स्तः। बहुचः प्रयोगश्च प्राक् प्रकृतेरेव भवतीति। तेन "बहुगुडो द्राक्षा", "लघुर्बहुतृणं नरः"इत्यादौ प्रकृतिवल्लिङ्गमेव भवति, न त्विभिधेयवल्लिङ्गम्। ननु "स्वार्थिकाः प्रकृतितो लिङ्गवचनामि लभन्ते"इत्येव सिद्धमिति किमनेन तुशब्दग्रहणेनेति चेत्। अत्राहुः---एतदेव ज्ञापयति "ईषदसमाप्तौ ये स्वार्थिकास्तेष्वभिधेयवदेव लिङ्गवचने स्तः"इति। तेन "गुडकल्पा द्राक्षा" "शर्कराकल्पो गुड"इत्यादि सिद्धण्। प्रागिवात्कः। "सुपः"इत्यनुवर्तते, तेन तिङन्तात्को न।