पूर्वम्: ५।४।९१
अनन्तरम्: ५।४।९३
 
सूत्रम्
गोरतद्धितलुकि॥ ५।४।९२
काशिका-वृत्तिः
गोरतद्धितलुकि ५।४।९२

गोशब्दान्तात् तत्पुरुषात् टच् प्रत्ययो भवति, स चेत् तपुरुषस् तद्धितलुग्विषयो न भवति। परमगवः। उत्तमगवः। पञ्चगवम्। दशगवम्। अतद्धितलुकि इति किम्? पञ्चभिर् गोभिः क्रीतः पण्चगुः। दशगुः। तेन क्रीतम् ५।१।३६ इत्यागतस्य आर्हीयस्य ठको ऽध्यर्धपूर्वाद् द्विगोः इति लुक्। तद्धितग्रहणं किम्? सुब्लुकि प्रतिषेधो मा भूत्। राजगवमिच्छति राजगवीयति। लुग्ग्रहणं किम्? तद्धित एव मा भूत्। पञ्चभ्यो गोभ्यः आगतं पञ्चगवरूप्यम्, पञ्चगवमयम्। दशगवरूप्यम्, दशगवमयम्।
लघु-सिद्धान्त-कौमुदी
गोरतद्धितलुकि ९४२, ५।४।९२

गोऽन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तु तद्धितलुकि। पञ्चगवधनः॥
न्यासः
गोरतद्धितलुकि। , ५।४।९२

पञ्चगवमिति। "तद्धितार्थ" २।१।५० इति समाहारे द्विगुः। "पञ्चगुः" इत्यत्रापि तद्धिनार्थे। "राजगवम्()" इति। षष्ठीसमासः। "सुपो धातुप्रातिपदिकयोः" २।४।७१ इति सुपो लुक्()। "राजगवीयति" इति। "सुप आत्मनः क्यच्()" ३।१।८, सुब्लुक्(), "क्यचि च" ७।४।३३ इतीत्त्वम्()। अस्त्यत्र लुक्(), स तु सुपः; न तद्धितस्य। परव्यत्ययेनात्र पञ्चम्यर्थे सप्तमी। कुत एतत्()? पञ्चम्यन्तेन गोशब्देन सामानाधिकरण्यात्()॥
बाल-मनोरमा
गोरतद्धितलुकि ७१९, ५।४।९२

गोरतद्धितलुकि। "तत्पुरुषस्याङ्गुले"रित्यतस्तत्पुरुषस्येत्यनुवृत्तं पञ्चम्या विपरिणतं गोरित्यनेन विशेष्यते। तदन्तविधिः।"राजाहः सखिभ्यः" इत्यतष्टजित्यनुवर्तते। "समासान्त" इत्यधिकृतम्। तदाह--गोऽन्तादित्यादिना। अतद्धितलुकीति किम्?। पञ्चभिर्गोभिः क्रीतः पञ्चगुः। अत्र तद्धितस्य "अध्यर्धे"ति लुक्। पञ्चगवधन इति। त्रिपदबहुव्रीहौ कृते सति धनशब्दे उत्तरपदे परे पूर्वयोस्तत्पुरुषे टचि अवादेश इति भावः। अत्र "द्वन्द्वतत्पुरुषयो"रिति वार्तिके द्वन्द्वस्योदाहरणं तु वाक् च त्वक् च प्रिया यस्य स वाक्त्वचप्रिय इति बोध्यम्। इह त्रिपदबहुव्रीहौ कृते पूर्वयोर्नित्यद्वन्द्वः। तेन "द्वन्द्वाच्चुदषहान्तात्समाहारे" इति टजपि नित्य एव। न च वाक्त्वक्छब्दयोः परस्परसामानाधिकरण्याऽभावात्कथमिह त्रिपदबहुव्रीहिरिति वाच्यं, द्वयोः प्रियाशब्दसामानाधिकरण्यमादाय तदुपपत्तेः। सप्तमीविशेषणे बहुव्रीहौ" इति ज्ञापकेन "कण्ठेकाल" इत्यादाविव व्यधिकरणबहुव्रीहिसंभवाच्च। "वाक्त्वचप्रियः" इति भाष्ये उदाहरणमेवात्र लिङ्गमित्यलम्। अथ समाहारे उदाहर्तुं विग्रहं दर्शयति--पञ्चानां गवां समाहार इति।

तत्त्व-बोधिनी
गोरतद्धितलुकि ६३७, ५।४।९२

गोरतद्धित। "तत्पुरुषस्ये"त्यनुवर्तते, टच्च,तदाह--गोन्तादित्यादिष। ननु ग्रहणवता प्रातिपदिकेन तदन्तविधेरभावत्तत्पुरुषस्यावयवो यो गोशब्दस्तस्माट्टजित्यर्थः स्यात्। तथा च "गोमूत्र"मित्यादावतिप्रसङ्गः स्यादत आह--समासान्त इति। अयं भावओः--"समासान्ताः" इत्यधिकाराट्टचा समासान्तेन भवितव्यम्, गोरिति पञ्चमीश्रवणात्ततः परेणापि। न चैतत्तदन्तविधिमन्तरेणोपपद्यत इति सामथ्र्यात्तदन्तविधिलाभः, ततश्च तत्पुरुषस्येति षष्ठ()न्तं पञ्चम्यन्तेन विपरिणम्यत इति। न तु तद्धितलुकीति। लुग्विषय इत्य्रथो, न तु तद्धितलुकि सतीति, समासान्ता नामन्तरङ्गत्वात्। अतद्धितलुकीति किम्()। पञ्चभिर्गोभिः क्रीतः पञ्चगुः। अत्र तद्धितस्य ठको "ऽद्यर्धपूर्वे"ति लुक्।