पूर्वम्: ३।१।७
अनन्तरम्: ३।१।९
 
सूत्रम्
सुप आत्मनः क्यच्॥ ३।१।८
काशिका-वृत्तिः
सुप आत्मनः क्यच् ३।१।८

कर्मणः इच्छायां वा इत्यनुवर्तते। इषिकर्मणः एषितुः एव आत्मसम्बन्धिनः सुबन्तादिच्छायाम् अर्थे वा क्यच् प्रत्ययो भवति। आत्मनः पुत्रम् इच्छति पुत्रीयति। सुब्ग्रहणं किम्? वाक्यान् मा भूत्। महान्तं पुत्रम् इच्छति। आत्मनः इति किम्? राज्ञः पुत्रम् इच्छति। ककारः नः क्ये १।४।१५ इति सामान्यग्रहणार्थः। चकारस् तदविघातार्थः। क्यचि मान्ताव्ययप्रतिषेधो वक्तव्यः। इदम् इच्छति। उच्चैरिच्छति। नीचिअरिच्छति। छन्दसि परेच्छायाम् इति वक्तव्यम्। मा त्वा वृका अघायवो विदन्।
लघु-सिद्धान्त-कौमुदी
सुप आत्मनः क्यच् ७२३, ३।१।८

इषिकर्मण एषितुः संबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात्॥
न्यासः
सुप आत्मनः क्यच्। , ३।१।८

आत्मशब्दः परस्य व्यावृतिं()त कुर्वाणो यस्तत्प्रतियोगिनमर्थमाचष्टे स इह परिगृह्रते, न तु योऽन्तव्र्यापारवति पुरुषे भोक्तरि वत्र्तते; स इह गृह्रमाणोऽकिञ्चित्करः स्यात्। तेनेच्छा विशिष्येत, सुबन्तं वा; तत्रेच्छा तावदात्मनः, अन्यस्य न सम्भव्तयेवेति तद्विशेषणता तस्यायुक्ता। सुबन्थमप्येषित्रान्येन वा सम्बध्यमानमात्मसम्बद्धमेव भवति; उभयोरपि तयोरात्मसम्बन्धित्वात्। तस्मात् सुबन्तविशेषणत्वमपि तस्यायुक्तमिति परप्रतियोगिवचन एव गृह्रते। एवं हि कपरनिवृत्तिः शक्यते कर्त्तुम्, नान्यथा। अत्रापीच्छायाः सन्निधानात् तयैव व्याप्यमानस्य कर्मत्वं विज्ञायते, इत्याह-- "इषिकर्मणः" इति। आत्मग्रहणेन यदीच्छा विशिष्येत तदेहापि स्यात्-- राज्ञः पुत्रमिच्छतीति। राज्ञोऽपि पुत्र इष्यमाणे सत्यात्मन एवैषितुरिच्छा भवति। तस्मासुबन्तमेवात्मगर्हणेन विशेषयितुं युक्तमिति मत्वाऽ‌ऽह-- "एषितुरात्मसम्बन्धिनः" इति। आत्मसम्बन्धित्वं तु सुबन्तस्यार्थद्वारकं वेदितव्यम्। अथैषितुरेवैतत् कुतो लभ्यते? इच्छया सन्निधीयमानयेहैषितुः सन्निधापितत्वात्। एतदपि कुतः? तेन विना तदभावात्। "पुत्रीयति" इति। "क्यचि च" ७।४।३३ इतीत्त्वम्। सब्ग्रहणमिह प्रातिपदिकनिवृत्त्यर्थं वा स्यात्? धातुनिवृत्त्यर्थं वा? तत्र प्रातिपदिकनिवृत्त्यर्थं तावन्नोपपद्यते, न हि सुबन्तात् प्रत्ययोत्पत्तौ प्रातिपदिकाद्वा कश्चिद्विशेषोऽस्ति। धातुनिवृत्त्यर्थमपि न युज्यते, ततो विहितस्य सनो बाधकत्वादित्यभिप्रायेणाह-- "सुब्ग्रहणं किम्" इति, "वाक्यान्मा भुत्" इति। सुब्ग्रहणप्रयोजनमाह-- असति सुब्राग्रहणे वाक्यादपि स्यात्, अतस्तन्निवृत्त्यर्थं कृतं सुब्ग्रहणम्। अथ किमिदानीं न भवितव्यमेव महापुत्रीयतीति? भवितव्यं यदा समासे कृत एतद्वाक्यं भवति-- महापुत्रमिच्छतीति, यदात्वेतद्वाक्यं भवति-- महान्तं पुत्रमिच्छतीति, तदा न भवितव्यम्। पदसमुदायोपलक्षणञ्च वाक्यग्रहणं वेदितव्यम्। तस्मान्महान्तं पुत्रमित्यतः समुदायात् प्राप्तिराशङ्क्यते, न चैतद्वाक्यम्; अपरिसमाप्त्यर्थत्वात्। किञ्च स्यात् यद्यतः स्यात्? प्रत्ययार्थे गुणीभूतयोर्महत्पुत्रशब्दयोरसत्येकार्थीभावलक्षणेऽसामार्थ्ये समासो न स्यात्। ततश्चोत्तरपदे विधीयमानं "आन्महतः समानाधिकरणजातीययोः" ६।३।४५ इत्यात्त्वं न स्यात्। अथ वा-- प्रत्ययार्थे गुणीभूतस्य पुत्रशब्दस्य पूज्यमानताविशेषणं न स्यादिति "सन्महत्" २।१।६० इत्यादिना समासो न स्यात्, तदभावादात्त्वमपि न स्यात्। अथ क्रियमाणे सुब्ग्रहणे कस्मादेवात्र न भवति, सुबन्तं ह्रेतत्? नैतत्; प्रत्ययग्रहणपरिभाषया यतः सुबूत्पन्नः सुब्ग्रहणे सति तदादेरेव ग्रहणं भवति। न चेह वाक्यात् सुबुत्पन्नः, किं तर्हि? अवयवात्। तेन वाक्यादुत्पत्तिर्न भवति। अवयवात् तर्हि पुत्रशब्दात् कस्मान्न भवति? अगमकत्वात्। वृत्तिसमानार्थेन हि वाक्येन प्रत्ययान्तेन भवितव्यम्। यश्चेह महान्तं पुत्रमिच्छतीति वाक्यनार्थः प्रतीयते नासौ प्रत्ययान्तेन। {तथा हि महान्तं पुत्रमिच्छतीति वाक्येनार्थः कञ्चित्-- वाराणसीमुद्रणम्} तथा हि महान्तं पुत्रीयतीत्युक्ते महान्तं कञ्चित् पुत्रमिवाचरतीत्येषोऽर्थो वाक्यार्थद्भिन्नजातीय ए गम्यते। "राज्ञः पुत्र मिच्छति" इति। ननु च सापेक्षत्वादसामर्थ्ये सति न भविष्यति, किमात्मग्रहणेन,कथमसामथ्र्यम्? सापेक्षमसमर्थं भवति" (चां।प।२७) इति वचनात्? नैतत्। यदा तह्र्रर्थात् प्रकरणाद्वाऽनपेक्षं निज्र्ञातं भवति तदा प्राप्नोति। इह च प्राप्नोति-- पापमिच्छति, अघमिच्छतीति। अत्र हि तृतीयस्य परपदस्य प्रयोगमन्तरेणापि परस्येति गम्यते, न हि कश्चिदात्मनः पापमिच्छति। "ककार#ः" इत्यादि। असति ककारेऽस्य ग्रहणं न स्यात्; "नः क्ये" १।४।१५ इत्यत्र ककारानुबन्धवतो ग्रहणात्। चकारस्तदविघातार्थः। असति चकारे तु सति क्यच्क्यङक्यषो द्वनुबन्धका भवन्तीति सामान्यग्रहणस्य विघातो न भवति। अन्तोदात्तार्थस्तु चकारो न भवति; "घातोः" ६।१।१५६ इति तस्य सिद्धत्वात्। "वक्तव्यः" इति। व्याख्येय इत्यर्थः। व्याख्यानन्तु-- वेत्यनुवत्र्तमानस्य व्यवस्थितविभाषात्वमाश्रित्य कत्र्तव्यम्। तेन मान्ताव्ययेभ्यएः क्यज्न भवति। "छन्दसि" इत्यादि। छन्दसि परेच्छायामपि क्यज्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं पुनर्यद्यं क्यचि कृते "अ()आआद्यस्यात्" ७।४।३७ इतीत्त्वबाधनार्थमघशब्दस्येत्त्वं शास्ति तज्ज्ञापयति-- छन्दसि परेच्छायामपि क्यज्भवति। न हि कश्चिदात्मनोऽघमिच्छति। "अघायवः" इति। ज्ञापकसुत्रेणात्त्वम्, "क्याच्छन्दसि" ३।२।१७० इत्युप्रत्ययः, "जसि च" ७।३।१०९ इति गुणः, अवादेशः॥
बाल-मनोरमा
सुप आत्मनः क्यच् ४८२, ३।१।८

अथ नमधातुप्रक्रिया निरूप्यन्ते। सुप आत्मनः। प्रत्ययग्रहणपरिभाषया सुबन्तादिति लभ्यते। सन्निधानादिच्छां प्रत्येव कर्मत्वं विवक्षितम्। आत्मन्शब्दः स्वपर्यायः। तादथ्र्यस्य शेषत्वविवक्षायां षष्ठी। स्वर्थात्कर्मण इति लभ्यते। स्वश्च इच्छायां सन्निधापितत्वादेषितैव विवक्षितः। तथा च स्वस्मै यदिष्यते कर्मकारकं तद्वृत्तेः सुबन्तादिच्छायां क्यज्वा स्यादिति फलति। तदिदमभिप्रेत्य आह--इषिकर्मण एषितृसम्बन्धिन इत्यादिना। एषित्रर्थादिषिकर्मण इत्यर्थः। एषित्रा स्वार्थं यदिष्यते कर्मकारकं।द्वाचकात्सुबन्तादिति यावत्। धात्ववयवत्वादिति। सुबन्तात्क्यचि कृते तदन्तस्य "सनाद्यन्ता" इति धातुत्वादिति भावः।

तत्त्व-बोधिनी
सुप आत्मनः क्यच् ४१५, ३।१।८

सुप आत्मनः क्यच्। "धातोः कर्मणः" इति पूर्वसूत्रात्कर्मण इच्छायां वेत्यनुवर्तते। ततश्च सन्निधानादिच्छाकर्मण एव भवतीत्याह-- इषिकर्मण इति। "परस्य पुत्रमिच्छती"त्यत्रातिप्रसङ्गवारणाय सूत्रे आत्मशब्द उपात्तः। स तु स्वशब्दपर्याय। स्वश्च क इत्याकाङ्क्षायामिच्छायाः सन्निधापितत्वादेषितैव गृह्रते। तदाह--एषितृसंबन्धिन इति। सुबन्तस्योक्तविशेषणद्वयमर्थद्वारकं बोध्यम्।