पूर्वम्: ६।३।१३५
अनन्तरम्: ६।३।१३७
 
सूत्रम्
अन्येषामपि दृश्यते॥ ६।३।१३६
काशिका-वृत्तिः
अन्येषाम् अपि दृश्यते ६।३।१३७

अन्येषाम् अपि दीर्घो दृश्यते, स शिष्टप्रयोगादनुगन्तव्यः। यस्य दीर्घत्वं विहितं, दृश्यते च प्रयोगे, तदनेन कर्तव्यम्। केशाकेशि। कचाकचि। जलाषाट्। नारकः पूरुषः। शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु। श्वादन्तः। श्वादंष्ट्रः। श्वाकर्णः। श्वाकुन्दः। श्वावराहः। श्वापुच्छः। श्वापदः।
न्यासः
अन्येषामपि दृश्यते। , ६।३।१३६

ऋचीति निवृत्तम्()। "केशाकेशि" इति। केशेषु केशेषु गृहीत्वेदं युद्धं वृ()त्तमिति "तत्र तेन" (२।२।२७) इत्यादिना बहुव्रीहिः "इच्? कर्मव्यतिहारे" (५।४।१२७) इतीच्? समासान्तः। "जलाषाट्()" इति। जलं सहत इति "छन्दसि सहः" ३।२।६३ इति ष्विः, "सहेः षाडः षः" ८।३।५६ इति षत्वम्()। "()आआदन्तः" इति। शुनो दन्त इति षष्ठीसमासः। "()आआदंष्ट्रः" इति। शुन इव दंष्ट्रा अस्येति बहुव्रीहिः। "()आआकर्णः" इत्यादयः षष्ठीतत्पुरुषाः, बहुव्रीहयो वा॥
बाल-मनोरमा
अन्येषामपि दृश्यते ८३८, ६।३।१३६

अन्येषामपि दृश्यते। अनुवर्तते इति। ढ्रलोपे इत्यत" इति शेषः। "नहिवृतिवृषी"त्यादिपूर्वसूत्रोक्तादन्येषामपि दीर्घो दृश्यत इत्यर्थः। अतिप्रसङ्गमाशङ्क्याह--कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घ इति। "बहुव्रीहौ चेत् कर्मव्यतिहारे एव पूर्वपदान्तस्यैव दीर्घ" इत्यर्थः। तेन "तुराषा"डित्यादौ दीर्गो निर्बाधः। दृशिग्रहणादयमर्थो लभ्यते। वक्ष्यत इति। "इच्कर्मव्यतिहारे इति सूत्रेणे"ति शेषः। तिष्ठधुप्रभृतिष्विति। वृत्तिग्रन्थ एवात्र प्रमाणम्। अव्ययीभावत्वमिति। तत्र "अव्ययीभावः" इत्यनुवृत्तेरिति भावः। अव्ययत्वमिति। "अव्ययीभावश्चे इत्यनेने"ति शेषः। "अव्ययादाप्सुपः" इति सुब्लुक् तत्फलमिति भावः। गृहीत्वेति। "परस्पर"मिति शेषः। न च केशग्रहणस्य पुरुषकर्तृकत्वात् प्रवृत्तेश्च युद्धकर्तृकत्वात्समानकर्तृकत्वाऽभावात्कथमिह क्त्वाप्रत्यय इति वाच्यं, गृहीत्वेत्यनन्तरं "स्थितयो"रित्यद्याहारात्। ततश्च अस्य केशेषु केशेष्वित्यनयोग्र्रहणाद्यन्तर्भावेन वृत्तिघटकयोः समासे सति सुब्लुक्। पूर्वपदस्य दीर्घः। इच्समासान्तः। "यस्येति चे"त्यकारलोपः। अव्ययत्वात्सुब्लुगिति भावः। अन्यपदार्थवृत्तित्वेऽपि एकसेषापवादोऽयं बहुव्रीहिसमासः, अप्रथमान्तार्थश्च, दण्डैश्चेति। अस्य डण्डैः सः, तस्य दण्डैरयमित्येव परस्परं प्रह्मत्य स्तितयोरिदं युद्धं प्रवृत्तमिति विग्रहार्थः। दण्डादण्डीति। दण्डैर्दण्डैरित्यनयोः प्रहरणाद्यन्तर्भावेन समासघटकयोः समासे सति सुब्लुक्, पूर्वपदस्य दीर्घः, इच्, "यस्येति च" इति अकारलोपः। अव्ययत्वात्सुब्लुक्। भुष्टीमुष्टीति। अस्य मुष्टिभिः सः, तस्य मुष्टिभिश्चायमित्येवं परस्परं प्रह्मत्य स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः। मुष्ट()आ मुष्ट()आ इत्यनयोः समासे सति सुब्लुगादि पूर्ववत्। "मुष्टामुष्टी"ति पूर्वपदान्तस्य आत्वमपाणिनीयमेव।

ओर्गुणः। ओरित्युकारात्षष्ठ()एकवचनम्। तेन भस्येत्यधिकृतं विशेष्यते। तदन्तविधिः। "नस्तद्धिते" इत्यनुवर्तते। तदाह--उवर्णान्तस्येति। बाहूबाहवीति। बाहौ बाहौ च परस्परं गृहीत्वा स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः। समासः, सुब्लुक्, पूर्वपदस्य दीर्घः , इच्। "यस्येति चे"ति बाधित्वा ओर्गुणः, अवादेशः। अव्ययत्वात्सुपो लुक्। ननु गुण उकारस्थाने भवन् स्थासाम्यादोकार एव भवति, ततश्च लाघवात् "ओरो"रित्येव सिद्धे "गुण" इति गुरुनिर्देशो व्यर्थं इत्यत आह--ओरोदिति। नचैवमपीह तद्धितसंज्ञापूर्वकत्वं दुर्वारमिति वाच्यं, विधेयसमर्पबकं पदं यत्र संज्ञारूपं स एव संज्ञापूर्वकविधिरित्यभ्युपगमात्। नच "ओ"दिति तपरस्तत्कालस्य संज्ञेति वाच्यं, विधायमानत्वादेव तत्कालत्वसिद्ध्या तकारस्य उच्चारणार्थत्वात्। स्वायम्भुवमिति। स्वयम्भुवोऽपत्यमित्यर्थे अण्, स्वायंभुवः। संज्ञापूर्वकत्वेनानित्यत्वादोर्गुणाऽभावे उवङ्, आदिवृद्धिरिति भावः। "स्वायम्भुव"मिति पाठे तस्येदमित्यण्। हलेन मुसलेनेति। अत्र असरूपत्वाद्धलामुसलीति न भवतीति भावः।

तत्त्व-बोधिनी
अन्येषामपि दृश्यते ७३३, ६।३।१३६

अन्येषामपि दृश्यते। अत्र प्राचा "दृशिग्रहणात्कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घत्वम्, आत्वं वाऽनचि" इत्युक्तम्। तत्र "आत्वं वा"इत्यपाणिनीयम्। अतएव मुष्टामुष्टीत्युदाहरणमप्यप्रामाणिकमेव। एतच्च मनोरमायां स्पष्टम्।