पूर्वम्: ६।४।१४१
अनन्तरम्: ६।४।१४३
 
सूत्रम्
ति विंशतेर्डिति॥ ६।४।१४२
काशिका-वृत्तिः
ति विंशतेर् डिति ६।४।१४२

भस्य विंशतेः तिशब्दस्यङिति प्रत्यये लोपो भवति। विंशत्या क्रीतः विंशकः। विंशं शतम्। विंशतेः पूर्णो विंशः। एकविंशः। डिति इति किम्? विंशत्या।
लघु-सिद्धान्त-कौमुदी
ति विंशतेर्डिति ११८०, ६।४।१४२

विंशतेर्भस्य तिशब्दस्य लोपो डिति परे। विंशः। असंख्यादेः किम्? एकादशः॥
न्यासः
ति विंशतेर्डिति। , ६।४।१४२

"विंशकः" इति। "विंशतिर्त्रिशद्भ्यां ड्वुनसंज्ञायाम्()" ५।१।२४ इति ड्वुन्(), तिशब्दस्य लोपे कृते अतो गुणे" ६।१।९४ पररूपत्वम्()। "विंशं शतम्()" इति। विंशतिरधिकाऽस्मिन्निति "शदन्तर्विशतेश्च" ५।२।४६ इति डप्रत्ययः। "विंशः, एकविंशः" इति। तस्य पूरणे डट्? ५।१।४७। तिग्रहणमनत्यस्य मा भूदित्येवमर्थम्()॥
बाल-मनोरमा
ति विंशतेर्डिति ८३४, ६।४।१४२

आसन्नशब्दस्य विंशतिशब्देन षष्ठ()न्तेन समासे डचि कृते "टे"रितीकारमात्रस्य लोपे प्राप्ते आह--ति विंशतेर्डिति। तीति लुप्तषष्ठीकम्। "भस्ये"त्यधिकृतम्। "अल्लोपोऽनः" इत्यनुवर्तते। तदाह--विंशतेर्भस्येति। अलोऽन्त्यस्ये"ति न भवति, "नानर्थकेऽलोऽन्त्यविधि"रित्युक्तेः। आसन्नविंशा इति। विंशतिसङ्क्याऽ‌ऽसन्नसङ्क्यावन्त इत्यर्थः। डचि कृते आसन्नविंशति-अ-इति स्थिते, तिलोपे सवर्णदीर्घ बाधित्वा "अतो गुणे" इति पररूपे, आसन्नविंशशब्दोऽदन्तः। "उत्तरपदत्वे चापदादिविधौ प्रतिषेधः" इति प्रत्ययलक्षणाऽभावेनाऽपदत्वात्। अथाऽदूरशब्दस्योदाहरति--अदूरतिं()रशा इति। तिं()रशतोऽदूरा इति विग्रहः। तिं()रशत्सङ्ख्याया अदूरसङ्ख्यावन्त इत्यर्थः। डचि टिलोपः। अधिकस्योदाहरति--अदिकचत्वारिंशा इति। चत्वारिंशतोऽधिका इति विग्रहः। चत्वारिंशत्सङ्ख्याया अधिकसङ्ख्यावन्त #इत्यर्थः। डचि टिलोपः। सङ्ख्यावाचकशब्दस्य सङ्ख्यावाचकशब्देन समासमुदाहरति--द्वित्रा इति। "वाऽर्थे बहुव्रीहिः। द्वित्यन्यतरा इत्यर्थः। डचि टिलोपः। ननु "द्वित्रा आनीयन्ता"मित्युक्ते कदाचिद्द्वावानयति, तदा कथं बहुवचनमिति चेत्, अत्र भाष्ये "अनिश्चये बहुवचनं प्रयोक्तव्य"मिति वचनात् समाहितम्। तथा "कार्यान्वये विकल्पः शब्दात्तु नियमेन कोटिद्वयोपस्थिति। तदुपस्थित्यनन्तरमन्यतरानयनमिच्छया। अतः शब्दान्नियमेन पञ्चानामुपस्थिति"रित्यपि समाहितम्। नच वाऽर्थप्राधान्यात् "अनेकमन्यपदार्थे" इत्येवाऽत्र सिद्धमिति वाच्यं, "शेषाद्विभाषे"ति कबभावार्थकत्वात्। स हि कप् "अनेकमन्यपदार्थे" इति विहितबहुव्रीहावेव प्रवर्तत इति भाष्ये स्पष्टम्। अथ सङ्ख्यायाः सङ्ख्यया समासे उदाहरणान्तरमाह--द्विदशा इति। शब्दशक्तिस्वाभाव्यात्सुजर्थान्तर्भावेण पूर्वपदस्य वृत्त्याश्रयणात् समासे सुचो न श्रवणमिति भाष्ये स्पष्टम्। द्वित्वसङ्ख्याकदशत्ववन्त इत्यर्थः। फलितमाह--विंशतिरित्यर्थ इति।

तत्त्व-बोधिनी
ति विंशतेर्ङिति ७३१, ६।४।१४२

तिशब्दस्येति। आसन्नविंशा इति। इह तिलोपोत्तरम् "अतो गुणे"इति पररूपमेव, न तु टिलोपः, टिलोपस्याऽ‌ऽभीयत्वेनाऽसिद्धत्वात्। न चात्र पररूपमपि न स्याट्टिलोपस्य स्थानिवत्त्वादिति शङ्क्यम्, अज्झलादेशोऽजादेशो न भवतीति "अचः परस्मि"न्नित्यस्याऽप्रवृत्तेः। "स्थानिवदादेशः" इति तु न प्रवर्तत एव, शास्त्रिये कार्ये हि क्रतव्ये तत्प्रवृत्तिर्न तु विधातार्थमिति सिद्धान्तात्। विंशतेरिति। इहापि आसन्ना विंशतिर्येषामिति न विगृहीतम्, उक्तयुक्तेः। अदूरेत्यादि। अदूरा()स्त्रशतः, अधिकाश्चात्वारिंशत इति विग्रहौ बोध्यौ। द्वित्रा इति। वाऽर्थेऽयं बहुव्रीहिः। स च वार्थो न विकल्पः, पक्षे द्विवचमस्याप्यापत्तेः, किं तु संशयः। स चाऽनियतसकङ्ख्यावमर्शी, तत्र त्रयोऽपि सर्वदा भासन्त इति तदपेक्षं बहुवचनमेव। आनयनादिक्रियान्वयस्तु द्वयोस्त्रयाणां वेत्यनियत एवेत्याहुः। द्विरावृत्ता इति। सुजर्थे बहुव्राहिरित्यर्थः। वृत्तौ तु सुजार्थान्तर्भावेणैवैकार्थीभावाश्रयणात्सुचोऽप्रयोगः। सङ्ख्येति किम्()। चत्वारो ब्राआहृणाः। अव्ययेत्यादि किम्()। ब्राआहृआणाः पञ्च। सङ्ख्येये इति किम्। अधिका विंशतिर्गवाम्। सङ्ख्यार्थेयं सङ्ख्येति न सम#आसः। आ दशतः सङ्ख्याः सङ्ख्येते वर्तन्ते न तु सङ्ख्यायाम्। विंशत्याद्याः सङ्ख्यास्तु सङ्ख्येय सङ्ख्ययोर्वर्तन्ते। यदा तु सङ्ख्येये विंशतिशब्दस्तदा भवत्येव समासः--अधिकाविंशा इति।