ननु पूर्वसवर्णदीर्घाऽभावाय दकार एवादेशः क्रियतामित्यत आह-एङ्ह्यस्वादित्यादि। सोर्दकारादेशे सति तस्य स्थानिवत्त्वेन संबुद्धित्वाद्ध्रस्वान्तादङ्गात्परत्वाच्च लोपः प्रसज्येत। अद्डादेशे तु टिलोपे सति कतरित्यङ्गं,न तद्ध्रस्वान्तम्। यत्तु ह्यस्वान्तं "कतर" इति न तदङ्गं, रेफादकारस्य प्रत्ययावयवत्वेन तदन्तस्य प्रत्ययपरकत्वाऽभावेन अङ्गत्वाऽभावात्। अतष्टिलोपप्रवृत्तयेऽद्डादेशविधिरिति भावः। पुनस्तद्वदिति। प्रथमावद्द्वितीयेत्यर्थः। शेषं पुंवदिति। सर्ववदित्यर्थः। अन्यतमशब्दस्य त्विति। तस्याऽव्युत्पन्नप्रातिपतिकत्वेन डतमप्रत्ययान्तत्वाऽभावेन तत्राद्डादेशो नेत्यर्थः।
एकाच्च प्राचा"मिति डतरजन्तादेकतरशब्दात्स्वमोरद्डादेशे प्राप्ते आह-एकतरादिति। एकतरशब्दात्परयोः स्वमोरद्डादेशप्रतिषेधो वक्तव्य इत्यर्थः। अविद्यमाना जरा यस्य कुलस्येति विग्रहे "नञोऽस्त्यर्थना"मिति बहुव्रीहौ विद्यमानपदलोपे "गोस्त्रियो"रिति ह्यस्वत्वेऽजरशब्दः। तस्य प्रक्रियां दर्शयति--सोरिति। सोरमादेशे कृतेऽजरमित्यन्वयः। जरसादेशमाशङ्क्याह--संनिपातेति। अदन्तसंनिपाताश्रयस्य अमोऽदन्तत्वविघातकजरसादेशं प्रति निमित्तत्वाऽयोगादिति भावः। अजरसी इति। "नपुंसकाच्चे"ति शीभावे जरसादेशे रूपम्। अजरे इति। जरसादेशाऽभावे रूपम्। जसि रूपं दर्शयितुमाह--परत्वादिति। अजर-सिति स्थिते "जश्शसोः शिः" इति शिभावात् परत्वाज्जरसि कृते ततः शिभावे झलन्तत्वान्नुमित्यर्थ इति केचित्। तदेतत् "जराया जरसि"ति सूत्रे अजरांसीत्यत्र "नुम्जरसोः प्राप्तयोर्विप्रतिषेधेन जरसि"ति भाष्यविरुद्धत्वादुपेक्ष्यम्। शिभावात्पूर्वमेव परत्वाज्जरसः प्रवृत्तौ हि तदा जसः सर्वनामस्थानत्वाऽभावेन नुम एवाऽप्रसक्तेस्तदसङ्गतिः स्पष्टैव। पूर्वविप्रतिषेधमाश्रित्य जरसः पूर्वमेव शिभावे तु तद्भाष्यं सङ्गच्छते। एवञ्च जरसः पूर्वमेव शिभावे कृते तस्य सर्वनामस्थानत्वात्तस्मिन् परे नुम्जरसोः प्राप्तयोः नुमपेक्षया परत्वाज्जरस्। ततो झलन्तलक्षणो नुमित्येव व्याख्येयम्। यदि हि जरसादेशात्प्रागेव अजन्तलक्षणो नुम् स्यात्, तदा "अजरन् इ" इति स्थिते "निर्दिश्यमानस्यादेशा भवन्ती"ति न्यायेन "जर" इत्यस्य जरसि कृते अजरस् न इति स्थिते सान्यसंयोगाऽभावात् "सान्त महतः" इति वक्ष्यमाणदीर्घो न स्यादित्यादि शब्देन्दुशेखरे निर्जरशब्दनिरूपणे, अत्र च प्रपञ्चितम्। उभयथापि अजरन् स् इ इति स्थिते नान्तत्वाऽभावात् "सर्वनामस्थाने चे"ति दीर्घे अप्राप्ते।