षट्संज्ञकेभ्यः चतुःशब्दाच् च उत्तरस्यामो नुडागमः भवति। षण्णाम्। पञ्चानाम्। सप्तानाम्। नवानाम्। दशानाम्। चतुर्णाम्। रेफान्तायाः सङ्ख्यायाः षट्संज्ञा न विहिता, षड्भ्यो लुक्
७।१।२२ इति लुग् मा भूत्। बहुवचननिर्देशादत्र सङ्ख्याप्रधानस्य ग्रहणं भवति। परमषण्णाम्। परमपञ्चानाम्। परमसप्तानाम्। परमचतुर्णाम्। उपसर्जनीभूतायास् तु सङ्ख्यायाः न भवति, प्रियषषाम्, प्रियपञ्चाम्, प्रियचतुराम् इति।
"पञ्चानाम्()" इति। "नोपधायाः"
६।४।७ इति दीर्घः, "नलोपः प्रातिपदकान्तस्य"
८।२।७ इति नलोपः। "षष्णाम्()" इति। "झलां जशोऽन्ते"
८।२।३९ इति षकारस्य डकारः, "यरोऽनुनासिकेऽनुनासिको वा"
८।४।४४ इति डकारस्य णकारः, "ष्टुना ष्टुः"
८।४।४० इति नकारस्य णकारः।
"ष्णान्ता षट्()"
१।१।२३ इति रेफान्ताया अपि संख्यायाः कस्मान्न विहिता षट्संज्ञेति,
एवं सतीह चुतुग्र्रहणं न कत्र्तव्यं भवति? इत्याह--"रेफान्तायाः" इत्यादि। गतार्थम्()। "बहुवचननिर्देशात्()" इत्यादि। यदि हि शब्दस्य प्रधानस्य ग्रहणं स्यात्(),
तदेतरेतवयोगपक्षे "षट्चतुभ्र्याम्()" इति द्विवचने निर्देशं कुर्यात्? समाहारपक्षे त्वे कवचनेन "षट्चतुरः" इति बहुवचनेन तु निर्देशः कृतः।
तस्माद्बहुवचननिर्देशात्? संख्याप्रधानस्यैव षठ्संज्ञकस्य चतुःशब्दस्य च ग्रहणम्()। तस्य चेदं प्रयोजनम्()--यत्र संखक्यायाः प्राधान्यम्(), तेन तदन्तादपि भवति। अर्थप्रधाने हि निर्देशेऽर्थग्रहणेतद्भवति, अर्थाच्च शब्दद्वारेणैवामः परत्वं विज्ञायते। अतः केवलेभ्यः षद्चतुर्भ्यो भवति, तदन्ताच्च। तदन्तादपि शब्दद्वारेणैवामः परत्वं भवत्येव।
"उपसर्जनोभूतायास्तु" इत्यादि। बहुवचननिर्देशाद्वि संख्यार्थस्येदं ग्रहणम्()। स चार्थो द्विविधः--प्रधानः अप्रधानश्च। तत्र प्रधाने कार्यसम्प्रत्ययाद्यत्र संख्यायाः प्राधान्यं तत्र तदन्तादपि भवति। यत्र तूपसर्जनीभूता संख्या तत्र न भवति--प्रियषषामित्यादौ। अन्यपदार्थस्य ह्रत्र प्राधान्यम्(), संख्यायास्त्वप्राधान्यम्()। "प्रियपञ्च्ञाम" इति। अल्लोपे
६।४।१३४ कृते "स्तोः श्चुना श्चुः"
८।४।३९ इति श्चुत्वम्()॥
षट्चतुभ्र्यश्च। षट्चतुभ्र्य इति पञ्चमी। "आमि सर्वनाम्नः" इत्यत आमीत्यनुवृत्तं षष्ठ()आं विपरिणम्यते। षडिति षट्संज्ञकं गृह्रते। नतु षट्शब्दः, "कृत्रिमाकृत्रिमयो"रिति न्यायात्। तदाह षट्संज्ञकेभ्य इत्यादिना। नुटि टकार इत्, उकार उच्चारणार्थः। टित्त्वादाद्यवयवः। णत्वमिति। "रषाभ्या"मित्यनेने"ति शेषः। द्वित्वमिति। "अचो रहाभ्या"मिति णकारस्ये"ति शेषः। द्वित्वस्याऽसिद्धत्वात्पूर्वं णत्वे कृते ततो णस्य द्वित्वम्। नच "पूर्वत्रासिद्धमद्विर्वचने" इनि निषेधः शङ्क्यः, द्वित्वे कर्तव्ये अन्यदसिद्धं नेति हि तदर्थः। न तु द्वित्वस्याऽप्यसिद्धत्वं नेति तदर्थ इति णत्वोत्तरमेव द्वित्वमिति भावः। चतुर् सु इति स्थिते रेफस्य विसर्गे प्राप्ते-।
षट्चतुभ्र्यश्च। बहुवचननिर्देशादर्थस्य प्राधान्यं विवक्षितम्। अर्थाच्चाऽऽमः परत्वं शब्दद्वारकं, तेन तदन्तविधौ सत्यपि "परमचतुर्णा"मित्यादावेब भवति, न तु बहुव्रीहौ। तदेतद्वक्ष्यति--"गौणत्वे तु नुण्नेष्यते"इत्यादिना। द्धित्वमिति। "अचोरहाभ्या"मित्यनेन।