पूर्वम्: ८।४।३७
अनन्तरम्: ८।४।३९
 
सूत्रम्
क्षुभ्नाऽ‌ऽदिषु च॥ ८।४।३८
काशिका-वृत्तिः
क्षुभ्नादिषु च ८।४।३९

न इति वर्तते। क्षुभ्ना इत्येवम् आदिषु शब्देषु नकारस्य णकारदेशो न भवति। क्षुभ्नाति। अजादेशस्य स्थानिवद्भावादिह अपि प्रतिषेधो भवति। क्षुभ्नीतः। क्षुभ्नन्ति। नृनमनः पूर्वपदात संज्ञायाम् इति प्राप्तिः। छन्दस्यृदवग्रहात् ८।४।२५ इति च प्राप्नोति। नन्दिन्, नन्दन, नगर, एतान्युत्तरपदानि संज्ञायां प्रयोजयन्ति हरिनन्दी। हरिनन्दनः। गिरिनगरम्। नृतिं यङि प्रयोजयन्ति नरीनृयते। तृप्नु तृप्नोति। नर्तन, गहन, नन्दन, निवेश, निवास, अग्नि, अनूप, एतानि उत्तरपदानि प्रयोजयन्ति। परिनर्तनम्, परिगहनम् इति संज्ञायाम् पूर्वपदात् संज्ञायाम् इति प्राप्नोति। परिनन्दनम् इत्यत्र उपसर्गादसमासे ऽपि इति प्राप्नोति। शरनिवेशः, शरनिवासः, शराग्निः, दर्भानूपः इत्येताः संज्ञाः। आचार्यादणत्वं च। आचार्यभोजीनः। आचार्यानी। इरिकादिभ्यो वनोत्तरपदेभ्यः संज्ञयाम्। इरिका, तिमिर, समीर, कुबेर, हरि, कर्मार इत्युत्तरपदवनशब्दस्थस्य संज्ञायाम्। क्षुभ्नादिराकृतिगणः। अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः।
लघु-सिद्धान्त-कौमुदी
क्षुभ्नादिषु च ७२०, ८।४।३८

णत्वं न। नरीनृत्यते। जरीगृह्यते॥
लघु-सिद्धान्त-कौमुदी
इति यङन्त प्रक्रिया ७२०, ८।४।३८

लघु-सिद्धान्त-कौमुदी
अथ यङ्लुक् प्रक्रिया ७२०, ८।४।३८

न्यासः
क्षुभ्नादिषु च। , ८।४।३८

"रवाभ्मां नो णः" ८।४।१ इत्यादिशास्त्रेण प्राप्तस्य णत्वस्य प्रतिषेधोऽयमुच्यते। "क्षुभ्ना" इति स्वरूपग्रहणमेतत्(), न धातुग्रहणम्(); अन्यथा "क्षोभणम्()" इत्यत्रापि स्यात्? प्रतिषेधः। यद्येवम्(), "क्षभ्नन्ति" इत्यत्र "श्नाभ्यास्तयोरातः" ६।४।११२ इत्याकारलोपे कृते, "क्षुभ्नीतः" ["क्षुध्वनीतः--प्रांउ।पाठः] इत्यत्र "ई इल्यधोः" ६।४।११३ इतीत्त्वे कृते णत्वस्य प्रतिषेधो न स्यात्(); स्वरूपस्याभावात्()? अजादेशस्य स्थानिवद्भावादेश विकृतस्यानन्यत्वाद्वा (व्या।प।१६) भविष्यतीत्यदोषः। "एतान्युत्तरपदानौ" इत्यादि। एतेन "पूर्वपदात्? संज्ञायामगः" ८।४।३ इति प्राप्ति दर्शयति। "हरिन्दी" इति। ताच्छील्ये णिनिः। "हरिनन्दनः" इति। त्युडन्तेन समासः। एवं "हरिनगरम्()" [गिरि नगरम्()"--काशिका, पदमञ्जरी च] इत्यत्रापि नगरेण षष्ठीसमासः। "नरीनृत्यते" इति। "रीगृदुपधस्य च" ७।४।९० इत्यभ्यासस्य रीगागमः, "अट्कुप्वाङ्()" ८।४।२ एवं "तृप्नोति" इत्यत्रापि। "तृप प्रीणने" (धा।पा।२१९५), व्यत्वयेन श्नुः। "परिनत्र्तनम्(), परिगहनम्? इति। गतिसमासौ। "कृत्यचः" ८।४।२८ इति प्राप्तिः। "शरनिवेशा"दयो "दर्भानूप" पर्यन्ताः षष्ठीसमासाः। "अनूपः" ति। अमुगता आपो यस्मिन्निति बहुव्रीहिः, "ऋक्पूरब्धूःपथामानक्षे" ५।४।७४ इत्यकारः समासान्तः, "ऊदनोर्देशे" ६।३।९७ इत्युत्त्वम्(), सवर्णदीर्घत्वम्()। "आचार्यादणत्वञ्च" इति। चकाराण्णत्वं च, तेन विभाषा सम्पद्यते। व्यवस्थितविभाषाविज्ञानादाचार्येणेति नित्यं णत्वं भवति। "आचार्यभोगौनः" इति। "आत्मन्वि()आजनभोगोत्तरपदात्? खः" ५।१।९। "अट्कुप्वाङ्()" ८।४।२ इत्यादिना प्राप्तिः। एवं "आचार्यानी" इत्यत्रापि। "इन्द्रवरुण" ४।१।४९ इत्यादिना ङीष्(), आनुगागमश्च। चकारस्यानुक्तसमुच्चयार्थत्वावपरिसमा()प्त क्षुभ्नादेर्बोधयतीति मत्वाऽ‌ऽह--"क्षुभ्नादिराकृतिगणः" इति॥["क्षुध्वनीतः--प्रांउ।पाठः]
बाल-मनोरमा
क्षुभ्नादिषु च ७८२, ८।४।३८

क्षुभ्नादिषु च। "रषाभ्या"मित्यतो "ण" इति, "न भाभूपूकमी"त्यतो "ने"ति चानुवर्तते। तदाह--एष्विति। दीर्घाह्नी प्रावृडिति। वर्षर्तौ प्रावृट्शब्दः स्त्रीलिङ्गः। "स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षाः" इत्यमरः। दीर्घाण्यहानि यस्मिन्निति बहुव्रीहिः। "अन उपधालोपिनोऽन्यतरस्या"मिति ङीप्। "अल्लोपोऽनः" इत्युपधालोपः। "अह्नोऽदन्ता"दिति णत्वं तु क्षुभ्नादित्वान्नेति भावः। ननु क्षुभ्नादिषु "दीर्घाह्नी"त्यस्य पाठो व्यर्थः, "अह्नोऽदन्तात्" इत्यत्र हि "अर्ह्ने"त्यदन्तात् षष्ठ()र्थे प्रथमा। अदन्तपूर्वपदस्थान्निमित्तात्परस्याऽह्नशब्दस्य नस्य णत्वं स्यादिति तदर्थः। दीर्घाह्नीत्यत्र च?ह्नादेशस्याप्रसक्त्याऽदन्तत्वाऽभावादेव णत्वस्याऽप्राप्तौ किं तन्नुवृत्त्यर्थेन क्षुभ्नादिपाठेनेत्यत आह--एवंचेति। एवं सति=दीर्घाह्नीशब्दस्य क्षुभ्नादिपाठे सति, एतदर्थम्--"अह्नोऽदन्ता"दिति णत्वनिवृत्त्यर्थम्, अह्नेत्यस्य अदन्तत्वानुसरणं, षष्ठ()र्थे व्यत्ययेन प्रथमानुसरणं क्लेशावहं न कर्तव्यमित्यर्थः। क्षुभ्नादिपाठादेव णत्वनिवृत्तिसिद्धेरिति भावः। ननु दीर्घाह्नीत्यस्य णत्वाऽभावय किं क्षुभ्नादिपाठो।()भ्युपगम्यतामुत "अह्ने"त्यस्याऽदन्तत्वमित्यत्र विनिगमनाविरह इत्यत आह--प्रातिपदिकान्तेति। अथ "अह्नोऽदन्ता"दित्यत्र पूर्वपदविशेषणेऽदन्तादिति तपरत्वस्य प्रयोजनमाह--अदन्तादिति। पराह्न इति। "प्रादयो गताद्यर्थे" इति समासः, टच्, अव्ययात्परत्वादह्नादेशः परेति पूर्वपदस्याऽदन्तत्वाभावान्न णत्वमिति भावः।

तत्त्व-बोधिनी
क्षुभ्नादिषु च ६८९, ८।४।३८

व्द्यह्नेति। "अह्नोऽह्न"इति सूत्रेऽह्नदेसं प्रत्यख्याय "अच्प्रत्यन्ववे"त्यतोऽचमनुवर्त्त्य "टजपवादोऽ"जिति व्याचक्षाणस्य भाष्यकारस्य मते तु निर्विवाद एवात्र टाप्। कथं तर्हि कालनिर्णयदीपिकायां व्द्यह्नीति प्रयोग इति चेत्, अत्राहुः--द्वे अहनी यस्यां तिथाविति बहुव्रीहौ नान्तलक्षणो ङीब्बोध्यः। "द्वयोरह्नोर्भव"इति व्याख्यानग्रन्थस्तु फलितार्थकथन परतया ज्ञेय इति। सङ्ख्यादिभिन्नस्य तत्पुरुषस्य समाहारे वृत्त्यसम्भवादाह---स्पष्टार्थमिति।