पूर्वम्: ८।३।३९
अनन्तरम्: ८।३।४१
 
सूत्रम्
नमस्पुरसोर्गत्योः॥ ८।३।४०
काशिका-वृत्तिः
नमस्पुरसोर् गत्योः ८।३।४०

नमस् पुरसित्येतयोः गतिसंज्ञकयोः विसर्जनीयस्य सकारादेशो भवति कुप्वोः परतः। नमस्कर्ता। नमस्कर्तुम्। नमस्कर्तव्यम्। गत्योः इति किम्? पूः, पुरौ, पुरः करोति।
न्यासः
नमस्पुरसोर्गत्योः। , ८।३।४०

"अपदादौ" ८।३।३८ इति निवृत्त्म्()। नमःशब्दस्य "साक्षात्प्रभृतीनि च" १।४।७३ इति गतिसंज्ञा, पुरःशब्दस्य तु "पुरोऽव्ययम्()" १।४।६६ इत्यनेन। "पूः पुरौ, पुरः करोति" इति। "पृ पालनपूरणयोः" (धा।पा।१०८६), "भ्राजभ्रास" ३।२।१७७ इत्यादिना क्विप्(), "उदोष्ठ()पूर्वस्य" ७।१।१०२ इत्युत्त्वम्(), रपरत्वम्(), स्वादयः, हल्ङ्यादिलोपः ६।१।६६, "र्वोरुपधाया दीर्घः" ८।२।७६ इत्येकवचने दीर्घः। पूः, पुरावित्यत्रागतिसंज्ञकत्वात्? पुराशब्दस्य सत्वं न भवति, तस्मिन्नसति विसर्जनीय एव स्यात्(); पक्ष उपध्मानीयोऽपि। पुरः करोतीत्यत्रागतिसंज्ञकत्वात्? सकारो न भवति, तस्मिन्नसति विसर्जनीय एव भवति, पक्षे जिह्वामूलीयोऽपि। नमःशब्दस्य तु नमःकृत्वेति प्रत्युदाहरणं वेदितव्यम्()। वृत्तिकृता तु सुबोधत्वान्न दर्शितम्()॥
तत्त्व-बोधिनी
नमस्पुरसोर्गत्योः १२५, ८।३।४०

पुरःप्रवेष्टव्या इति। "पृ? पालनपूरणयोः"। भ्राजभासे"त्यादिना क्विप्। तदन्ताज्जस्। जसन्ततां स्फुटीकर्तुं "पूः पुरा"वित्युपन्यस्तम्।