पूर्वम्: १।४।६५
अनन्तरम्: १।४।६७
 
प्रथमावृत्तिः

सूत्रम्॥ पुरोऽव्ययम्॥ १।४।६६

पदच्छेदः॥ पुरः अव्ययम् १।१ ६८ गतिः १।१ ५९ क्रियायोगे ७।१ ५८ निपाताः १।३ ४६

काशिका-वृत्तिः
पुरो ऽव्ययम् १।४।६७

असिप्रत्ययान्तः पुरःशब्दो ऽव्ययम्। स गतिसंज्ञो भवति। समासस्वरोपचाराः प्रयोजनम्। पुरस्कृत्य। पुरस्कृतम्। यत् पुरस् करोति। अव्ययम् इति किम्? पूः, पुरौ। पुरः कृत्वा काण्डं गतः।
न्यासः
पुरोऽव्ययम् , १।४।६६

"पुरस्कृत्य" इति। पूर्वस्माद्देशागत इत्यस्मिन्नर्थे "पूर्वाधरावराणामसि पुरधवश्चैषाम्" ५।३।३९ इत्यसिप्रत्ययः पूर्वशब्दस्य च पुरादेशः। "तद्धितश्चासर्वविभक्तिः" १।१।३७ इत्यव्ययसंज्ञा विसर्जनीयस्थानिकस्य सकारस्योपचार इत्येषा संज्ञा पूर्वाचार्यप्रणीता। "नमस्पुरसोर्गत्योः" ८।३।४० इति सकारः। "पूः पुरौ, पुरः कृत्वा गतः" इति। पुरः कृत्वेतीदं प्रत्युदाहरण्। पूः परावित्येतयोस्तूपन्यसस्तत्साहचर्येण पुरःशब्दस्यानव्ययत्वप्रदर्शनार्थः। "पृ? पालनपूरणयोः" (धा।पा।१४८९), "भ्राजभ्रास" ३।२।१७७ इत्यादिना। क्विप्। "उदोष्ठ()पूर्वस्य" ७।१।१०२ इत्युक्तम्, रपरत्वञ्च। गतिसंज्ञाया अभावादिह समासादि कार्यं न भवति। "नमस्पुरसोर्गत्योः" ८।३।४० इति विसर्जनीयस्य सकारोऽपि न भवति। ननु च यद्यत्र गतिसंज्ञा स्यात् गतिसमासे कृते सुपो निवृत्त्या भवितव्यम्, तदा पुर इति रूपं न स्यात्; असति तस्मिन् संज्ञाऽपि निवत्र्तते, नैतदस्ति; यद्यपि विभक्तौ निवृत्तायां पुर इति रूपं न स्यात्, नैवं संज्ञा निवत्र्तते; एकदेशविकृतस्यानन्यत्वात् (व्या।प।१६)॥
बाल-मनोरमा
पुरोऽव्ययम् ७५८, १।४।६६

पुरोऽव्ययं। पुर इत्यव्ययं गतिसंज्ञकं स्यात्। पुरस्कृत्येति। गतिसमासे क्त्वो ल्यप्। अव्ययं किम्?। पुरम्, पुरौ, पुरः कृत्वा गतः।

तत्त्व-बोधिनी
पुरोऽव्ययम् ६६९, १।४।६६

पुरस्कृत्येति। "पूर्वधरावराणा"मित्यसिप्रत्ययान्तोऽयमव्ययम्। "नमस्पुरसो"रिति विसर्गस्य सः। "अमुं परः पश्यसी"त्यत्र तु" स्थित"मित्यध्याहारेण दृशि प्रत्ययतित्वात्सत्वाऽभावः। अव्ययं किम्()। पुरं पुरौ पुरः कृत्वा गतः। अस्तं च। अवययमिति किम्()। अस्तं कृत्वा काण्डं गतः। क्षिप्तमित्यर्थः।