अकारादुत्तरस्य अनव्ययविसर्जनीयस्य समासे अनुत्तरपदस्थस्य नित्यं सकारादेशो भवति कृ कमि कंस कुम्भ पात्र कुशा कर्णी इत्येतेषु परतः। कृ अयस्कारः। पयस्कारः। कमि अयस्कामः। पयस्कामः। कंस अयस्कंसः। पयस्कंसः। कुम्भ अयस्कुम्भः। पयस्कुम्भः। अयस्कुम्भी, पयस्कुम्भी इत्यत्र अपि भवति, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति। पात्र अयस्पात्रम्। पयस्पात्रम्। अयपात्री पयस्पात्री। कुशा अयस्कुशा। पयकुशा। कर्णी अयस्कर्णी। अपय्स्कर्णी। शुनस्कर्णः इत्ययं तु कस्कादिषु द्रष्टव्यः। अतः इति किम्? गोःकारः। धूःकारः। तपरकरणं किम्? भाःकरणम्। भास्करः इत्ययं तु कस्कादिषु द्रष्तव्यः। अनव्ययस्य इति किम्? श्वःकारः। पुनःकारः। समासे इत्येव, यशः करोति। पयः करोति। यशः कामयते। अनुत्तरपदस्थस्य इत्येव, परमपयःकारः। परमपयःकामः।
आदुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सादेशः करोत्यादिषु परेषु। यशस्करी विद्या। श्राद्धकरः। वचनकरः॥
"कुप्वोः क पौ च"
८।३।३७ इति प्राप्ते वचनमिदम्()। "अयस्कारः" इति। "कर्मण्यण"
३।२।१। एवं "अयस्कामः" इत्यत्रापि। "शीलिकामिभिक्ष्याचरिभ्यो णो वकतव्यः" (वा।२२९) इति त्वत्र न प्रवत्र्तते। तत्रोपसंख्याने ण्यन्तस्य कमेरुपादानात्(), इह त्वण्न्तस्य। यदा "आयादय आर्धधातुके वा" (३।१।
३१) इति कमेर्णिङ्? नास्ति, तदा कमेरण्यन्तता। "अयस्कंसः" इति। षष्ठीसमासः। ननु कमेरेव "वृ()तृ()वदिहनिकमिकषिभ्यः सः" (द।उ।९।२९) इति से कृते कंस इति भवति, तत्र कमिग्रहणेनैव सिद्धत्वात्()।
कंसग्रहणमनर्थकम्()? न; ज्ञापनार्थत्वात्()। एतदनेन ज्ञाप्यते--अस्तीदमपि दर्शनम्()--"उणादयोऽव्युत्पन्नानि। प्रापतिपदिकानि" (है।प।पा।१०३) इति,। "अयस्कुम्भः" इति। अयसो विकारः कुम्भ इति "समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च" (वा।८३) इति पध्यपदलोपी समासः। षष्ठीसमासो वा। "अय स्कुम्भी" इति। गौरादित्वाङङीष्()। अयस्कुम्भवत्समासः।
"अयस्पात्री" इति। पात्रशब्दः ष्टुन्प्रत्ययान्तः, "षिद्गौरादिभ्यश्च
४।१।४१ इति ङीष्()। "अयस्कुशा" इति। अयोदिकारोऽत्र न विवक्षितः। तेन जानपदाविसूत्रेण
४।१।४२ इति ङीष्()। "अयस्कुशा" इति। अयोदिकारोऽत्र न विवक्षितः। तेन जानपदादिसूत्रेण (४।१।
४२) ङीष्? न भवति। अय इव कर्णावस्या इत्ययस्कर्णी, "नासिकोदर"
४।१।५५ इत्यादिना ङीव्()। ईकारान्तस्य कर्णशब्दस्य ग्रहणम्()। अतः शुनःकर्ण इत्यत्र सत्वेन त भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्(), निराकर्तुमाह--"शुनस्कर्ण इत्ययं तु" इत्यादि।
"भाःकरणम्()" इति। ल्युडन्तेन समासः। यदि तर्हि तपरकरणं न क्रियेत भास करोतीति विवादिसूत्रेण (३।२।
२१) टे कृते भास्कर इत्यत्रापि भवति? अत आह--"भास्कर इत्ययं तु" इत्यादि। सुबोधम्()॥