पूर्वम्: ४।१।४८
अनन्तरम्: ४।१।५०
 
सूत्रम्
इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवन- मातुलाचार्याणामानुक्॥ ४।१।४९
काशिका-वृत्तिः
इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाऽचार्याणामानुक् ४।१।४९

इन्द्रादिभ्यः प्रातिपदिकेभ्यः स्त्रियाम् ङीष् प्रत्ययो भवति, आनुक् च आगमः। येषाम् अत्र पुंयोग एव इष्यते, तेषाम् आनुगागममात्रं विधीयते। रत्ययस् तु पूर्वेण एव सिद्धः। अन्येषां तूभयं विधीयते। इन्द्राणी। वरुणानी। भवानी। शर्वाणी। रुद्राणी। मृडानी। हिमारण्ययोर् महत्त्वे। महद्धिमं हिमानी। महदरण्यम् अरण्यानी। यवाद् दोषे। दुष्टो यवः यवानी। यवनाल्लिप्याम्। यवनानी लिपिः। उपाध्यायमातुलाभ्यां वा। उपाध्यायानी, उपाध्यायी। मतुलानी, मतुली। आचार्यादणत्वं च। आचार्यानी, आचार्या। अर्यक्षत्रियाभ्यां वा। अर्याणी, अर्या। क्षत्रियाणी, क्षत्रिया। विना पुंयोगेन स्वार्थ एव अयं विधिः। पुंयोगे तु ङीषा एव भवितव्यम्। अर्यी। क्षत्रियी। मुद्गलाच्छन्दसि लिच्च। रथीरभून्मुद्गलानी गविष्टौ।
लघु-सिद्धान्त-कौमुदी
इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलचार्याणामानुक् १२६६, ४।१।४९

एषामानुगागमः स्यात् ङीष् च। इन्द्रस्य स्त्री - इन्द्राणी। वरुणानी। भवानी। शर्वाणी। रुद्राणी। मृडानी। (हिमारण्ययोर्महत्त्वे)। महद्धिमं हिमानी। महदरण्यमरण्यानी। (यवाद्दोषे)। दुष्टो यवो यवानी। (यवनाल्लिप्याम्)। यवनानां लिपिर्यवनानी। (मातुलोपाध्याययोरानुग्वा)। मातुलानी, मातुली। उपाध्यायानी, उपाध्यायी। (आचार्यादणत्वं च)। आचार्यस्य स्त्री आचार्यानी। (अर्यक्षत्रियाभ्यां वा स्वार्थे), अर्याणी, अर्या। क्षत्रियाणी, क्षत्रिया॥
न्यासः
इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयनमातुलाचार्याणामानुक्। , ४।१।४९

"येषाम्" इति। इन्द्राणीनाम्। "अन्येषां तु" इति। हिमादीनाम्। अथ किमर्थमानुक् क्रियते, अनुगेव नोच्येत, तेन सवर्णदीर्घत्वेन सिध्यति? न सिध्यति; "अतो गुणे" ६।१।९४ इति पररूपत्वं हि प्राप्नोति। अकारोच्चारणसामथ्र्यान्न भविष्यति, पररूपे हि नुगेव वक्तव्यः स्यात्। एवं तह्र्रकारोच्चारणसमथ्र्याद्भविष्यति। ल्वरसन्धिरेव न भवतीत्येवमपि विज्ञायते। तस्मान्मैवं विज्ञायीत्यानुगेव वक्तव्यः। अथ वा-- इन्द्रमाचष्ट इति "तत्करोति तदाचष्टे" (वा।२००,२०१) इति णिचि "णाविष्टवत् प्रातिपदिकस्य" (वा।८१३) इति टिलोपः, इन्द्रयतेः क्विप्, णिलोपः, इन्द्रः स्त्रीन्द्राणीत्यत्र दीर्घघस्याकारस्य श्रवणं यथा स्यादित्येवमर्थमानुको विधानम्। आनुकि हि सति दीर्घो न श्रूयेत। ननु च नैवात्र ङीषा भवितव्यम्, अत इत्यधिकारात्? दीर्घोच्चारणसामथ्र्याद्भविष्यति। "हिमारण्ययोर्महत्त्वे" इति। महत्त्वेन युक्ता हिमादयः स्त्रीलिङ्गेनाभिसम्बध्य्नते यदा, तदा स्त्रीत्वविवक्षायामनयोः प्रत्ययागमयोर्विधानमित्येतदनेनाख्यायते, न तु स्त्रीप्रत्ययस्यायमपवाद उच्यते। स्त्रीत्व एव हि प्रत्ययो भवति। "यथाद्दोषे"इति। यवाद्दोषे गम्यमाने स्त्रियां ङीष् भवति-- दुष्टो यवो यवानी। "यवनाल्लिप्याम्" इति। "यवनानां लिपिः" इति। "तस्येदम्" ४।३।१२० इत्यप्प्रसङ्गे ङीष् विधीयते, स तु तदर्थस्य ङीषैव द्योतितत्वान्न भवति। "आचार्यदणत्वञ्च" इति। नेदमपूर्वं वक्तव्यम्, क्षुभ्नादिष्वस्य पाठात्। "स्वार्थ एवायं विधिः" इति। एवकारेण पुंयोगो व्यवच्छिद्यते। यदि हि पुंयोगे विधिरयं स्यात् शूद्राऽपि क्षत्रियस्य भार्या क्षत्रियाणीति स्यात्। तस्मात् स्वार्थे एवायं विधिः-- क्षत्रियैव क्षत्रियाणीति। "पुंयोगे तु ङीषैव भवितव्यम्" इति। पूर्वसूत्रेण। "लिच्च"इति। कस्य तल्लित्वम्? आनुकः। तथा हि-- मुद्गलानीशब्दस् द्वितीय उदात्त आम्याये पठ()ते। ङीषस्तु लित्वे तृतीय उदात्तः स्यात्॥
बाल-मनोरमा
इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनामातुलाचार्याणामानुक् ४९८, ४।१।४९

इन्द्रवरूण। आनुगागम इति। कित्त्वादागमलिङ्गादिति भावः। ङीष् चेति। "अन्यतो ङीष" इत्यतस्तदनुवृत्तेरिति भावः। पुंयोग एवेष्यते इति। पुंयोगादित्यनुवृत्तेः, तेषां स्त्रीत्वे पुंयोगं विनाऽप्रवृत्तेश्चेति भावः। नन्वेवं पुंयोगादित्येव सिद्धे ङीष्विधिव्र्यर्थ इत्यत आह--तत्रेति। तत्र इन्द्रादिषु षट्सुमातुलाचार्ययोश्च पुंयोगादित्येव ङीषि सिद्धे तत्संनियोगेन आनुगागममात्रं विधीयत इत्यर्थः। इतरेषामिति। हामारण्ययवयवनानां तु आनुक् ङीष् चेत्युभयं विधीयते, तत्र पुंयोगस्याऽसंभवादिति भावः। इन्द्राणीति। आनुकि ककार इत्, उकार उच्चारणार्थः, कित्त्वादन्तावयवः, सवर्णदीर्घः, णत्वमिति भावः। वरुणानी, भवानी, शर्वाणी, रुद्राणी, मृडानीत्युदाहरणानि सुगमत्वादुपेक्षितानि। दीर्घोच्चारणं विना अनुग्विधौ तु पररूपापत्तिः, अकारोच्चारणस्य अल्लोपनिवृत्त्य चरितार्थत्वात्। नुग्विधौ तु अल्लोपापत्तिरित्यन्यत्र विस्तरः।

हिमारण्योर्महत्त्वे--इति वार्तिकम्। महत्त्वविशिष्टे हिमे अरण्ये च वर्तमानयोरानुङ्ङीषावित्यर्थः। महद्धिमं हिमानीति। महत्त्वयोगे स्त्रीत्वमत एव ज्ञेयम्। अरण्यानीति। महदरण्यमित्यर्थः।

यवाद्दोषे--इति वार्तिकम्। "आनुङ्ङीषा"विति शेषः। दुष्टयवे वृत्तौ स्त्रीत्वमत एव ज्ञेयम्।

यवनाल्लिप्याम् --इत्यपि वार्तिकम्। विपिरक्षरविन्यासः। तत्र लक्षमया वृत्तौ आनुङ्ङीषावित्यर्थः।

मातुलोपाध्याययोरानुग्वेति। इदमपि वार्तिकम्। अत्र पुंयोगादिति सम्बध्यते, हिमादिष्विवाऽत्र असम्भवाऽभावात्। अत्र आनुगेव तु विकल्प्यते, आनुगभावेऽपि पक्षे ङीष् भवत्येव। मातुलान्नित्यं प्राप्ते उपाध्यायादप्राप्ते विभाषेयम्। मातुलानी मातुलीति। मातुलस्य स्त्रीत्यर्थः। उपाध्यायानी उपाध्यायीति। उपाध्यायस्य स्त्रीत्यर्थः।

या तु स्वयमेवेति। इदं तु वार्तिकं तृतीयस्य तृतीयस्य तृतीये "इहश्चे"ति सूत्रे पठितम्। या स्वयमेवाध्यापयति न तूपाध्यायस्य स्त्री, तत्र पुंयोगाऽभावेऽपि केवलङीष्विकल्पो वाच्य इत्यर्थः। युगान्तरे ब्राहृवादिन्यः स्त्रियः सन्ति तद्विषयमिदम्। "पुरा युगेषु नारीणां मौञ्जीबन्धनमिष्यते। अध्यापनं च वेदानां सावित्री वचनं तथा।" इति स्मरणात्।

आचार्यादणत्वं च --इत्यपि वार्तिकम्। चकार आनुङ्ङीषोः समुच्चयार्थः। आचार्यानीति। आचार्यस्य स्त्रीत्यर्थः। "अट्कुप्वा"ङिति णत्वं न भवति। "उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः। सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते।" "एकदेशमुपाध्यायः" इति स्मृतिः। पुंयोग इत्येवेति। पुंयोगग्रहणमनुवर्तते एवेत्यर्थः। तत्प्रयोजनमाह--आचार्येति। अत्र पुंयोगाऽभावं विशदयति--स्वयं व्याख्यात्रीति। धर्मोपदेष्ट्रीत्यर्थः। "यस्माद्धर्मानाचिनोति स आचार्यः इति स्मरणादिति भावः।

अर्यक्षत्रियाभ्यां वा--इति वार्तिकम्। "आनुङ्ङीषा"विति शेषः। "स्वार्थे"ति व्याख्यानलभ्यं, तेन पुंयोगनिरासः। अत एव भाष्ये "आर्याणी अर्या" इत्येवोक्तम्। पुंयोग एव प्रवृत्तौ तु उपाध्यायीतिवदर्यीति ङीषमेवोदाहरेत्। अर्यशब्दं व्याचष्टे--स्वामिनी वैश्या वेत्यर्थ इति। "अर्यः स्वामिवैश्ययोः" इति निपातनादिति भावः। क्षत्रियाणी क्षत्रियेति। क्षत्रियात् क्षत्रियायां भार्यायामुत्पन्नेत्यर्थः। "सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः" इत्युपक्रम्य "विन्नास्वेष विधिः स्मृतः" इति स्मरणात्। विन्नास्वित्यस्य ऊढास्वित्यर्थः। पुंयोगे तु अर्यी क्षत्रियीति। अर्यस्य स्त्री अर्यी, क्षत्रियस्य स्त्री क्षत्रियी, वैश्या शूद्रा वेत्यर्थः। कथमिति। "इन्द्रवरुण"त्यादिसूत्रे ब्राहृन्शब्दस्याऽग्रहणाद्ब्राहृणः स्त्रीत्यर्थे ब्राहृणीत्यानुङ्ङीषौ कथमिति प्रश्नः। उत्तरमाह--ब्राहृआणमिति। आनयतीत्यस्य व्याख्यानं-जीव्यतीति। "अन प्राणने"। प्राणनं जीवनम्। अस्माद्धातोर्हेतुमण्णिचि उपधावृद्धौ तिपि शपि गुणाऽयादेशयोरानयतीति रूपम्। भर्तृजीवनस्य जायासौमङ्गल्यायत्तत्वात्। ततस्च ब्राहृआणमानयतीति विग्रहे "आनि" इति ण्यन्तात् "कर्मण्यणि"त्यपि "णेरनिटी"ति णिलोपे आनशब्देन ब्राहृआणमित्यस्य उपपदसमासे सुब्लुकि नलोपे सवर्णदीर्घे ब्राहृआनशब्दात् "टिड्ढाणञि"ति ङीपि "यस्येति चे"त्यकारलोपे "पूर्वपदात्संज्ञाया"मिति णत्वे ब्राहृणीति रूपमिति भावः। "एकाजुत्तरपदे" इति तु न, अणि सति प्रातिपदिकस्य द्व्यच्कत्वाल्लुप्तेऽप्यणि लोपस्य स्थानिवत्त्वात्। "पूर्वत्रासिद्धीये न स्थानिवत्" इति तु न, "तस्य दोषः" इत्युक्तेः।

तत्त्व-बोधिनी
इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् ४४९, ४।१।४९

यवाद्दोषे। दुष्टो यवो यवानीति। जात्यन्तरमेवानेनामिधीयते। अयमेव चाऽस्य दोषो यस्माद्धि यवत्वजातेरभावेऽपि तदाकारानुकृतिः।

यवनाल्लिप्याम्। वा ङीष्वाच्य इति। इदं च "इङश्चे"ति घञ्विधायकसूत्रस्थं वार्तिकम्। वक्ष्यति च तत्र---"अपादाने स्त्रियामुपसङ्ख्यानं तदन्ताच्च बा ङी"षिति। उपाध्यायी--उपाध्यायेति। उपेत्य अस्या अधीयत इति विग्रहः। स्वार्थैति। यदि तु पुंयोगे एवायं विधिः स्याच्छूद्रापि क्षत्त्रियस्य भार्या क्षत्त्रियाणी स्यात्। ब्राआहृणभार्या च क्षत्त्रिया क्षत्त्रियाणी स्यादिति भावः।

अर्यक्षत्त्रियाभ्यां वा स्वार्थे। वैश्या वेत्यर्थं इति। "अर्यः स्वामिवैश्ययो"रित्यर्थद्वये निपातनादिति भावः। अत्राऽमरस्य सङ्ग्रहः---"अर्याणी स्वयमर्या स्यात्क्षत्त्रिया क्षत्त्रियाण्यपि। उपाध्यायाऽप्युपाध्यायी स्यादाचार्यापि च स्वतः। आचार्यानी सु पुंयोदे स्यादर्यी क्षत्त्रियी तथा। उपाध्यायाऽप्युपाध्यायी---"इति। कथमिति। सूत्रे ब्राहृआन्शब्दस्याऽग्रहणादानुगनुपपन्न एवेति प्रश्नः। उत्तरं तु---ब्राहृआणमानयतीत्यादि। ण्यन्तात् "अन प्राणने"इत्यस्मात्कर्मण्यणि "णेरनिटी"ति णिलोपे "टिड्ढाण"ञिति ङीपि "पूर्वपदाक्संज्ञाया"मिति णत्वे च "ब्राहृआणी"ति रूपसिद्धेरिति भावः।