पूर्वम्: १।१।७०
अनन्तरम्: १।१।७२
 
प्रथमावृत्तिः

सूत्रम्॥ येन विधिस्तदन्तस्य॥ १।१।७१

पदच्छेदः॥ येन ३।१ विधिः १।१ तदन्तस्य ६।१ स्वम् १।१ ६७ रूपम् १।१ ६७

समासः॥

सः अन्ते यस्य सः तदन्तः, तस्य तदन्तस्य, बहुव्रीहिः।

अर्थः॥

येन (विशेषणेन) विधिः विधीयते, सः तदन्तस्य समुदायस्य, स्वस्य च रूपस्य ग्राहकः भवति।

उदाहरणम्॥

{अचो यत् (३।१।९७)} चेयम्, जेयम्। {एरच् (३।३।५६)} चयः, जयः, अयः।
काशिका-वृत्तिः
येन विधिस् तदन्तस्य १।१।७२

येन विशेषणेन विधिर्विधीयते स तदन्तस्य आत्मान् तस्य समुदायसय् ग्राहको भवति , स्वस्य च रूपस्य। एरच् ३।३।५६, इवर्णान्तादच्प्रत्ययो भवतिचयः। जयः। अयः। ओरावश्यके ३।१।१२५, उवर्णान्ताद् ण्यद् भवति अवश्यलाव्यम्। अवश्यपाव्यम्। समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः। द्वितीयान्तं श्रितादिभिः सह समस्यते २।१।२३ कष्टश्रितः। इह मा भूत् कष्टं परमश्रित इति। प्रत्ययविधौ नडाऽदिभ्यः फक् ४।१।९९, नडस्य अपत्यं नाडायनः। इह मा भूत् सूत्रनडस्य अपत्यं सौत्रनाडिः। किम् अविशेषेण? न इत्याह। उगिद्वर्णग्रहणवर्जम् इति वाच्यम्। उगितश्च ४।१।६ इति ङीप्प्रत्ययः तदन्तादपि भवति भवती, अतिभवती। वर्णग्रहनमत इञ् ४।१।९५, दाक्षिः। प्लाक्षिः। यस्मिन् विधिस् तदादावल्ग्रहणे। अल्ग्रहणेषु यस्मिन् विधिस्तदादौ इति वक्तव्यम्। अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ६।४।७७ इति श्रियः। भ्रुवः।
न्यासः
येनविधिस्तदन्तस्य। , १।१।७१

"स्वं रूपं शब्दस्येत्यस्यायमपवादः"। इदमपि संज्ञासूत्रम्। न तु परिभाषा। न ह्रत्र नियमरूपता परिभाषाधर्मो विद्यते। "येन" इति करमए तृतीया। विधीयते = अपूर्व एव क्रियते इति विधिः कर्मसाधनः; उपसर्गे घोः किः" ३।३।९२ इति किप्रत्ययान्तः। तदन्तस्य" इति। सोऽन्तोऽस्येति बहुव्रीहिः। तदित्यनेन स एव करणभूतः शब्दः प्रत्यवमृश्यते। अनतशब्दोऽयमवयववाची, अवयवश्च समुदायस्य भवति। अतश्च तस्यैवेयं संज्ञा विज्ञायत इत्याह--- "समुदायस्य संज्ञा भवति" इति। "अवश्यलाव्यम्" इति। "अवश्यपाव्यम्" इति। "लूञ् छेदने" (धा।पा।१४८४), "पूञ् पवने" (धा।पा।१४८३) वृद्धौ कृतायाम् "वान्तो यि प्रत्यये" ६।१।७६ इत्यावादेशः, मयूरव्यंसकादित्वात् समासः; "लुम्पेदवश्यमः कृत्येः" (काशिका।६।१।१४४) इति मकारलोपः। अथेह कस्मादेजन्तस् संज्ञा न सम्भवति, "एचोऽयवायावः" (६।१।७८) इति? किञ्चस्यात्? "चयनं चायको लवनं लावकः" इत्यत्रानेकाल्त्वादयादयः सर्वादेशाः स्युः, नैष दोषः; "निर्दिश्यमानस्यादेशा भवन्ति" (व्या।प।१०६) इत्येच एव भविष्यन्ति, न सर्वस्यतदन्तस्य। अथ वा-- अस्य योगस्यैवं विधो विषय एव न भवति, ततो नायमिह प्रवर्तते। तथा हि येनेति करणे तृतीयेत्युक्तम्, न चाकर्तृकं करणमस्तीति कत्र्ताप्याश्रितः। स पुनरिह सम्बन्धिशब्दत्वादन्तशब्देनावयववाचिना सन्निधापितः समुदायो विज्ञाप्यते। प्रकृतत्वात् स्वरूपं च कर्ता च त्रिभिः प्रकारैः सन्निहितो भवति। क्वचिन्निर्देशात्-- "ईदूदेद्()द्विचनम्" १।१।११ इति, अत्र द्विवचनं कर्तृभूतं निर्दिष्टम्। तथा हीदादिभिः करणैः प्रगृह्रसंज्ञां विदधाति। क्वचित् प्रकरणात्--यथा "एरच्" ३।३।५६ इति, अत्र "धातोः" ३।१।९१ इत्यधिकाराद्()धातुः प्रकरणात् कत्र्ता सन्निहितः। स इकारेण करणेनाचं विदधाति। क्वचिच् सामथ्र्यात्-- यथा "इको झल्" १।२।९ इति, अत्र धातोरेव सन् विधीयते, नान्यसमादिति सामथ्र्याद्धातुः कर्ता सन्निहितः; स इका करणेन सनः कित्त्वं विदधाति। तदेवम्, "ईदूदेद्()द्विवचम्" १।१।११ इत्यादौ कर्तृकरणयोरुभयोरपि विद्यमानत्वात् सोऽस्य सूत्रस्य विषय इति तत्र तदन्तविधिर्भवति। "एचोऽयवायावः" ६।१।७५ इत्यत्र तु न केनचित् कत्र्ता सन्निहितः प्रकारेण, न चाकर्तृकं करणं सम्भवति;तस्मात् कर्तृकरणयोरुभयोरप्यसन्निहितत्वाननायमस्य सूत्रस्य विषय इति न सम्भवति तदन्तविधिः। "वक्तव्यः" इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यायम्-- "द्वितीया श्रित" २।१।२४) इत्यादौ सुपा श्रितादयो विशिष्यन्ते,न श्रितादिभिः सुप्। विशेषणेन च तदन्तविधिः, न विशेष्येण। यस्मादयेनेति करणे तृतीया, करणं च परतन्त्रं परार्थं भवति, न विशेष्यम्, तस्माद्विशिष्टैः श्रितादिभिस्तदन्तविधिर्न भवति। "नडादिभ्यः फक्" इति। अत्रापि प्रकृतेन प्रातिपदिकेन नडादयो विशिष्यन्ते, न नडादिभिः प्रातिपदिकम् अतोऽत्रापि नास्ति तदन्तविधिरिति। "उगिद्वर्णग्रहणवर्जम्" इति। उगिता वर्णेन च प्रातिपदिकं विशिष्यते। विशेषणेन च तदन्तविधिर्भवत्येव। "यस्मिन् विधिः" इत्यादि। तदन्तविधौ प्राप्ते तदादिविधिरुच्यते। यस्मिन्नि- ति सप्तमीनिर्दिष्टे तदादिविधिं दर्शयति। यत्राल्ग्रहणे सप्तमीनिर्दिष्टे पूर्वस्य विधिस्तत्र तदादौ वेदितव्यः। अलादावित्यर्थः। यदि तर्हि तत्रापि तदन्तिविधिः स्यात्, इहैव स्यात्-- श्रियाविति,इह तु न स्यात्-- "श्रियः" इति? तदादिविधौ तु सतीहापि भवति, स्वस्य च रूपस्येति श्रियावित्यत्रापि भवत्येव।
बाल-मनोरमा
येन विधिस्तदन्तस्य २८, १।१।७१

यच्छब्दस्वरूपमुपादाय यो विधिरारभ्यते स तस्य तदन्तस्य च भवतीत्येतद्वक्तुमाह-येन विधिः। विधीयत इति विधिः। "उपसर्गे घोः कि"रिति धाधातोर्भावे किप्रत्ययः। येनेति करणे तृतीया। शास्त्राकृद्विधाने कर्ता। धातोरित्यधिकृत्य #एरजिति इकारेण करणेन धातोरच्प्रत्ययं विधत्ते पाणिनिः। करणं च व्यापारवत्। एरजित्यत्र विशेषणस्य इकारस्य पाणिनिकर्तृकविधानक्रियायां करणस्य इतरव्यावर्तनमेव व्यापारः। ततश्च विशेषणमेवात्र येनेति तृतीयान्तेनोच्यते। स्वं रूपमित्यतः स्वमित्यनुवर्तते षष्ठ()न्ततया च विपरिणम्यते। एवं च "विशेषणसमर्पकः शब्दस्तदन्तस्य स्वस्य च प्रत्यायक" इति फलति। तदाह--विशेषणमित्यादि। विशेषणसमर्पकः शब्दस्तदन्तस्य शब्दस्य, विशेषण समर्पकशब्दस्य च बोधकः स्यादिति यावत्। ततश्च एरजित्यत्र इकारान्ताद्धातोरच्प्रत्ययः स्यात्, इकाररूपाद्धातोश्चेति फलति। यथा-चयः, अयः। केचित्तु करणं कर्तृपरतन्त्रमिति तृतीयया पारतन्त्र्यं लक्ष्यते, तच्च शब्दानां विशेषणत्वेनेति विशेषणपरत्वं यच्छब्दस्य लभ्यत इत्याहुः।

तत्तु शब्देन्दुशेखरे दूषितम्। समासेति। वार्तिकमेतत्। समासविधौ प्रत्ययविधौ च तदन्तविधेः प्रतिषेधो वाच्य इत्यर्थः। तेन कृष्णं परमश्रित इत्यत्र "द्वितीया श्रिते"ति समासो न भवति। सूत्रनडस्य गोत्रापत्यं सौत्रनाडिः। "अत इञ्"। अनुशतिकादीनां चेत्युभयपदवृद्धिः। अत्र नडादिभ्यः फगिति फग्()नभवति। नन्वेवं सति पचन्तमतिक्रान्ता अतिपचन्तीत्यत्र "उगितश्चे"ति उगिदन्तात्प्रातिपदिकाद्विहितो ङीप् न स्यात्, प्रत्ययविधौ तदन्तविधेः प्रतिषेधात्। तथा दाक्षिरित्यत्र अत इञिति इञ्? न स्यात्।

अस्यापत्यं इरित्यत्रैव इञ्स्यादित्यत आह--उगिदिति। इदमपि वार्तिकम्। "द्वितीयायां चे"ति वर्जयतेर्णमुल्। "उगिद्ग्रहणं वर्णग्रहणं च वर्जयित्या समासप्रत्ययविधावित्युक्तः प्रतिषेधो भवती"त्यर्थः। उगिद्वर्णग्रहणे तु येन विधिरिति तदन्तविधिरस्त्येव, ततश्च अतिपचन्तीत्यत्र उगिदन्तप्रातिपदिकान्तादुगितश्चेति ङीप्, दाक्षिरित्यत्र अवर्णान्तादिञ् च सिध्यति।

तत्त्व-बोधिनी
येन विधिस्तद्गन्तस्य २६, १।१।७१

येन विधिः। "विधि"रित्यत्र "उपसर्गे" घोः किः" इति कर्मणि किः प्रत्ययः। "येने"ति करणे तृतीया, न तु कर्तरि। तस्याः कृद्योगषष्ट()आ बाधात्। नच "उभयप्राप्तौ कर्मणी"ति नियमेन निर्वाहः, कर्मण उक्तत्वेनोभयप्राप्त्यभावात्। तथा चात्र करणे तृतीयैव। करणं च परतन्त्रं, कत्र्रधिष्ठितस्यैव करणत्वात्। एवं चेह तृतीयया पारतन्त्र्यं लक्ष्यते। नच "एर"जित्यादाविकारादीनां पारतन्त्र्यं धात्वादीनां च स्वातन्त्र्यं वास्यादीनामिव तक्षादीनामिव संभवति, किंतु वैवक्षिकम्। तेन विशेषणमप्रधानम्। तच्चात्मान्तरस्य संज्ञेति फलितं, तदेतदाह--विशेषणं तदन्तस्यैति। स्वस्य चेति। "स्व रूप"-मित्यनुवृत्तेरेतल्लभ्यते। "एरच्"। इकारान्तादिकाररूपाच्च धातोरच्। चयः, जयः, अयः। समासप्रत्ययविधावाते। कृष्णं श्रितः कृष्णश्रितः। ["द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः"। द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह समस्यते वा तत्पुरुषः ]। नेह-कृष्णमुपश्रितः। "नडादिभ्यः फक्"। नडस्य गोत्रापत्यं नाडायनः। नेह-[सूत्रनडस्यापत्यं] सौत्रनाडिः। अनुशतिकादित्वादुभयमदवृद्धिः।

उगिद्वर्णेति। उगिद्वर्णग्रहणं वर्जयित्वा,-उगिद्वर्णग्रहणवर्जं। "द्वितीयायां चे"ति णमुल्। महान्तमतिक्रान्ता अतिमहती। महच्छब्दस्य गौरादित्वेऽप्युपसर्जने "षिद्गौरे"ति ङीषोऽप्रवृत्तेः "उगितश्चे"त्युगिदन्तान्ङीप्। "अत इञ्"। दाक्षिः। न चेह सामथ्र्यात्तदन्तविधिः , अस्यापत्यमिः काम इत्यत्र चरितार्थत्वात्। न चैवमिञो ञित्त्वं व्यर्थमिति वाच्यम्, "बाह्वादिभ्यश्चे"त्यत्र यथायथं वृध्द्याद्युदात्ताभ्यां चपितार्थत्वात्। नन्वेवमपि औपगविरित्यादावेव अत इञ्स्यान्नतु दाक्षिरित्यादौ, अकारस्येहानर्थकत्वादिति चेन्नः, वर्णग्रहणे अर्थवद्ग्रहणपरिभाषाया अप्रवृत्तेः।