पूर्वम्: १।२।२७
अनन्तरम्: १।२।२९
 
प्रथमावृत्तिः

सूत्रम्॥ अचश्च॥ १।२।२८

पदच्छेदः॥ अचः ६।१ अच् १।१ २७ ह्रस्व-दीर्घ-प्लुतः १।१ २७

अर्थः॥

परिभाषेयं स्थानिनियमार्था। ह्रस्व, दीर्घ, प्लुत इत्येवं विधीयमानः यः अच्, सः अचः एव स्थाने भवति।

उदाहरणम्॥

अतिरि, अतिन् अपगु। पूर्वसूत्रस्य अपि उदाहरणानि अत्र बोद्धव्यानि।
काशिका-वृत्तिः
अचश् च १।२।२८

परिभाषा इयं स्थानिनियमार्था ह्रस्वदीर्घप्लुतः स्वसंज्ञया शिष्यमाणा अच एव स्थाने वेदितव्याः। वक्ष्यति ह्रस्वो नपुंसके प्रातिपदिकस्य १।२।४७, रैअतिरि। नौअतिनु। गोउपगु। अचः इति किम्? सुवाग् ब्रह्मणकुलम्। अकृत्सार्वधातुकयोर् दीर्घः ७।४।२५ चीयते। श्रूयते। अचः इति किम्? भिद्यते। धिद्य्ते। वाक्यस्य टेः प्लुत उदात्तः ७।२।८२ देवदत्त३। यज्ञदत्त३। अचः इति किम्? अग्निचि३त्। सोमसु३त्। तकारस्य मा भूत्। स्वसंज्ञया वधाने नियमः। अचिति वर्तते। इह मा भूत्। द्यौः पन्थाः। सः द्यौभ्याम्। द्युभिः। अत्र नियमो न अस्ति।
न्यासः
अचश्च। , १।२।२८

परिभाषेयं लिङ्गवती स्थानिनियमार्था प्रदेशेषु "ह्यस्वो नपुंसके प्रातिपदिकस्य" १।२।४७ इत्येवमादिषूपतिष्ठते;तदुपस्थाने च षष्ठीद्वयं प्रादुर्भवति; विशेषणविशेष्यभावं प्रति कामचारात्। "ह्यस्वो नपुंसके प्रातिपदिकस्य" १।२।४७ इत्यत्राचा प्रातिपदिकं गृह्रमाणं विशिष्यते-- अजन्तस्य प्रातिपदिकस्येति, न तु प्रातिपदिकेना-ज्विशिष्यते। यदि हि प्रातिपदिकेनाज्विशिष्येत-- प्रातिपदिकस्य योऽजिति, तदा मध्यस्थितस्याप्यचो ह्यस्वः स्यात्। "सुवाग् ब्राआहृणकुलम्" इति। अचा तु प्रातिपदिके विशिष्यमाणे प्रातिपदिकस्यैवेत्येषा स्थानषष्ठी भवति, न चावयवषष्ठी, तेनालोऽन्त्यस्यैवाचो ह्यस्वो भवति। "वाक्यस्य टेः प्लुत उदात्तः" ८।२।८२ इत्यत्र गृह्रमाणेन टिशब्देनाज्विशिष्यते-- टेर्योऽजिति। तेन टेर्मध्यवर्तिनोऽप्यचः प्लुतो भवति। यदि त्वचा टिर्विशिष्यते-- अजन्तस्य टेरिति, तदेहैव स्यात्-- देवदत्ता३ इति; इह तु न स्यात्-- अग्निचिदिति। चकारेणाजित्यनुकृष्यते, त्सय प्रयोजनमिहैव वक्ष्यति। अतिरि- इत्यादीन्युदाहरमानि "एच इग्घ्रस्वादेशे" १।१।४७ इत्यत्र व्युत्पादितानि। चीयते इति कर्मणि लकारः। "संज्ञाविधाने नियमः" इत्यत्र युक्तिमाह-- "अजिति वत्र्तते" इति। अज्ग्रहणे ह्रनुवत्र्तमाने ह्यस्वादिशब्दा अनुवत्र्तमाना अच एवोपस्थानं प्रति व्याप्रियन्ते;तस्य स्वयमेवोपस्थितत्वात्। ततश्च स्वरूपमात्रपदार्थकाः सन्तो विधीयमानस्याचो विशेषणतामुपयान्ति। तत्रैवमभिसम्बन्धः क्रियते-- अः स्थानेऽज् भवति "ह्यस्वदीर्घप्लुतः इत्येवं संज्ञया विधीयमान इति। "द्यौः, पन्थाः, सः" इति। एतानि "इको गुणवृद्धी" १।१।३ इत्यत्र व्युत्पादितानि। एषु च यथायोगं "दिव औत्" ७।१।८४ "पथिमथ्यृभुक्षामात्" ७।१।८५ "त्यदादीनामः" ७।२।१०२ इत्येभिरौकारादयः स्वरूपेण विधीयमाना दीर्घादिसंज्ञया न विधीयन्त इति हल एव स्थाने ते भवन्ति, नाचः। द्युभ्याम्, द्युभिरित्यत्रापि "दिव उत् इत्युकारो ह्यस्वसंज्ञया न विधीयत इति हल एव स्थाने भवति, नाचः। ननु च द्यौरित्यादीनि त्रीण्युदाहरणानि "इको गुणवृद्धि" १।१।३ इत्यनेनैव संज्ञाविधाननियमेन सिद्धानि, तत्र हि तस्याप्येतानि प्रत्युदाहरणानि प्रागुपन्यस्तानि, तस्मान्नार्थ एतदर्थेन संज्ञया विधीयमानेन नियमेन? सत्यमेतत्; एवं मन्यते-- द्युभ्याम्, द्युभिरित्येवमर्थं संज्ञाविधाने नियमः कत्र्तव्यः; न ह्रुकारस्य गुणसंज्ञास्ति, नापि वृद्धिसंज्ञा; यतः पूर्वेणैव संज्ञाविधाननियमेनैतदपि सिद्ध्यति। तस्मादन्यार्थोऽयं संज्ञाविधाननियमः क्रियमाणो येऽपि विस्मरणशीलाः पूर्वस्य नियमस्य प्रयोजनं न स्मरन्ति ताननुग्रहीतुम्-- द्यौः, पन्था-, स इत्येवमर्थोऽपि भवति॥
बाल-मनोरमा
अचश्च ३७, १।२।२८

अचश्च। अच इत्यपि षष्ठ()न्तशब्दः स्वरूपपरः, पूर्वसूत्रे इक इतिवत्। ऊकालोऽजित्यतः "अच्" "ह्यस्वदीर्घप्लुत" इत्यनुवर्तते। "इति यत्र विधीयते" इत्यध्याहार्यम्। फलितमाह--ह्यस्वेत्यादिना। "दिव उत्" इत्यादौ तु नेदं प्रवर्तते, ह्यस्वादिशब्दानामश्रवणात्। "ह्यस्वो नपुंसके प्रातिपादिकस्ये"त्याद्युदाहरणम्। श्रीपम्। नेह--सुपात् ब्राआहृणकुलम्।

तत्त्व-बोधिनी
अतश्च ३१, १।२।२८

अतश्च। ह्यस्वदीर्घेत्यादि। एतच्च "ऊकालोऽज्झ्रस्वदीर्घप्लुतः" इति सूत्रादझ्यस्वदीर्घप्लुत इत्यनुवर्त्त्य "ह्यस्वो दीर्घः प्लुत इति योऽ"जिति योजनया लभ्यते। ह्यस्वेत्यादि किम्?, "दिव उत्" द्युभ्याम्। "अष्टन आ विभक्तौ" अष्टौ। "अष्टाभ्य औ"शित्यत्र कृतात्त्वनिर्देशाज्ज्ञापकाज्जश्शसोर्विषये प्रवत्र्तमानस्य "अष्टन" इत्यात्त्वस्याऽच्स्थानिकत्वे सति नैतत्सिद्धयेदिति दिक्। षष्ठ()न्तं पदमिति। तच्च सति संभवे सामानाधिकरण्येनैव संबध्यते न वैयधिकरण्येन। तेन "ह्यस्वो नपुंसके" इत्यजन्तप्रातिपदिकस्यैव ह्यस्वः। श्रीपम्। नेह सुवाग्रब्राआहृणकुलम्। "शमामष्टानां दीर्घः-" इत्यत्र तु सामानाधिकरण्याऽसंभवत्-शमादीनामच" इति संबध्यते , तेन "शाम्यती"त्यादि सिद्धम्। "वाक्यस्य टेः प्लुतः-" इत्यत्र सामानाधिकरण्यसंभवेऽपि टेग्र्रहणसामथ्र्याट्टरेवयवस्याचः प्लुत इति व्याख्यायते। अन्यथा "अलोऽन्त्यस्य" "अतश्चे"ति परिभाषाभ्यामेहि कृष्णेत्यादिवाक्यान्त्यस्याऽचः प्लुतसिद्धौ किमनेन टेग्र्रहणेन?। तेन "आयुष्मानेधीन्द्रवर्मन्" इत्यादि सिध्यतीति दिक्।