पूर्वम्: ८।१।२
अनन्तरम्: ८।१।४
 
सूत्रम्
अनुदात्तं च॥ ८।१।३
काशिका-वृत्तिः
अनुदात्तं च ८।१।३

अनुदात्तं च तद् भवति यदाम्रेडितसंज्ञम्। भुङ्क्ते भुङ्क्ते। पशून् प्शून्।
न्यासः
अनुदात्तञ्च। , ८।१।३

प्रकृतिस्वरे प्राप्ते परस्यानुदात्तत्वमुच्यते। अनुदात्तशब्दश्चात्र परशब्दसामानाधिकरण्यान्न शास्त्रीयमनुदात्तमाह, किं तर्हि? अन्वर्थो विज्ञायते--अविद्यमानमुदात्तमनुदात्तमिति। शास्त्रीये ह्रनुदात्ते गृह्रमाणे सम्बन्धार्थं परस्यैति षष्ठ्युच्चारयितव्या स्यात्()। तथा च "अलोऽन्त्यस्य" १।१।५१ स्यात्()। अथापि सर्वस्येत्यनुवत्र्तत, एवमपि वचनप्रामाण्यादेककाल एव सर्वादेशः प्रसज्येत। तस्मादन्वर्थस्यैव ग्रहणं युक्तम्()। "भुङक्तेभुङ्क्ते" इति। "भुजोऽनवने" १।३।६६ इत्यात्मनेपदम्()। तस्मिन्? कृते सति शिष्टस्वरत्वाद्धातुस्वरं बाधित्वा प्रत्ययस्वरः। श्नमि कृते यद्यपि तस्य स्वरः सतिशिष्टः, तथापि "विकरणस्वरः सार्वधातुकस्वरं न बाधते" इति तेशब्द एव स्वरे प्रसक्ते "तस्यनुदात्तेविङददुपदेशाल्लसार्वधातुकमनुदात्तमह्? न्विङोः" ६।१।१८० इति सार्वधातुकस्यानुदात्तत्वम्(), श्नसोरल्लोपे कृते "अनुदात्तस्य च यत्रोदात्तलोपः" ६।१।१५५ इति पुनस्तेशब्द उदात्तः, नित्ये चार्थे द्विर्वचनम्(), तस्मिन्? कृतेऽनेन परमनुदात्तं भवति। "पशून्पशून्()" इति। "कुभ्र्रश्च" (द।उ।१-१०७) इत्यत "कुः" इत्यनुवत्र्तमाने "अर्जिवृशिकसम्यमिपशिबाध#आमृजिपशितुग्धुग्दीर्घहकाराश्च" (द।उ।१।११२) इति कुप्रत्ययः, दृशे पशिरदिशश्च। पशृशब्दः प्रत्ययस्वरेणान्तोदात्तः, विभक्त्यकारेण सहैकादेशः, "एकादेश उदात्तेनोदात्तः" ८।२।५ वीप्सायां द्विर्वचनम्(), अनेन परस्यानुदात्तत्वम्()॥