पूर्वम्: ६।२।१४६
अनन्तरम्: ६।२।१४८
 
सूत्रम्
कारकाद्दत्तश्रुतयोरेवाशिषि॥ ६।२।१४७
काशिका-वृत्तिः
कारकाद् दत्तश्रुतयोरेव आशिषि ६।२।१४८

संज्ञायाम् इति वर्तते, क्तः इति च। संज्ञायां विषये आशिषि गम्यमानायां कारकादुत्तरयोः दत्तश्रुतयोरेव क्तान्तयोरन्त उदात्तो भवति। देवा एनं देयासुः देवदत्तः। विष्णुरेनं श्रूयात् विष्णुश्रुतः। कारकातिति किम्? कारकान् नियमो मा भूत्। सम्भूतो रामायणः। दत्तश्रुतयोः इति किम्? देवपालितः। एतस्मान् नियमादत्र संज्ञायाम् अनाचितादीनाम् ६।२।१४५ इत्यन्तोदात्तत्वं न भवति। तृतीया कर्मणि ६।२।४८ इत्येव अत्र भवति। एवकारकरणं किम्? कारकावधारणं यथा स्यत्, दत्तश्रुतावधारणं मा भूत्। अकारकादपि दत्तश्रुतयोरन्त उदात्तो भवति। संश्रुतः। विश्रुतः। आशिषि इति किम्? अनाऽशिषि नियमो मा भूत्। देवैः खाता देवखाता। कारकाद् दत्तश्रुतयोराशिस्येव इत्येवम् अत्र नियम इष्यते। तेन आहतो नदति देवदत्तः इत्यत्र न भवति। देवदत्त इति कस्यचिच्छङ्खस्य नाम। तत्र तृतीया कर्मणि ६।२।४८ इति पूर्वपदप्रकृतिस्वरत्वम् एव भवति।
न्यासः
वर्चस्केऽवस्करः। , ६।२।१४७

"कुत्सितं वर्चः वर्चस्कम्()" इति। "कुत्सिते" इति कना निर्देशो दीप्तौ मा भूदित्येवमर्थः। दीप्तादपि हि वर्चःशब्दो वत्र्तत इति तत्रापि स्यात्()। यदि वर्चस्केऽवस्करशब्दो निपात्यते तदा तत्सम्बन्धिदेशे न प्राप्नोति। तत्रापि च लोकेऽवस्करशब्दः प्रयुज्यत इत्यत आह--"तत्सम्बन्धात्()" इत्यादि। यथा यष्टीः प्रवेशयेति यष्टिसम्बन्धात्? पुरुषा अपि यष्टिशब्देनोच्यन्ते, तथा अवस्करसम्बन्धादवस्करशब्देन देशः॥
न्यासः
कारकाद्दत्तश्रुतयोरेवाशिषि। , ६।२।१४७

"देवदात्तः" इति। "आशिषि लिङ्लोटौ" ३।३।१६३ इति वरतमाने "क्तिच्क्तौ च संज्ञायाम्()" ३।३।१७४ इति क्तः। "दो दद्? घोः" ७।४।४६ इति ददादेशः, पूर्ववत्? तृतीयासमासः। देवशब्दः पचादयजन्तत्वाच्चित्स्वरेणान्तोदात्त-। विष्णुशब्दोऽपि प्रातिपदिकस्वरेण। ब्राहृशब्दो मनिन्प्रतययान्तत्वादाद्युदात्त इत्युक्तम्()। "सम्भूतो रामायणः" इति। कारकादित्यनुच्यमाने "गतिकारकोपपदात्? कृत्()" ६।२।१३८ इत्यधिकाराद्यतैव कारकान्नियमो भवत्येवं गतेरपि स्यात्(), कारकग्रहणे तु सति न भवति। तेन गतेः परस्य "संज्ञायामनाचितादीनाम्()" (६।२।१४६ इत्यनेन) अन्तोदात्तत्वं भवेदेव। अ()स्मस्तूच्यमाने सत्येष विषयो न भवति; नियमेन व्यावार्तितत्वात्()। "तृतिया कर्मणि" ६।२।४८ इति पूर्वपदप्रकृतिस्वर एव भवति। "एककारकरणं किम्()" इति। सिद्धे विधिरारब्यमाणोऽन्तरेणाप्येवकारकरणं नियमार्थो भविष्यतीत्यभिप्रायः। "कारकावधारहणम्()" इत्यादि। असति ह्रेवकारे कारकादेवेत्येषोऽपि नियमः स्यात्()। तता चैवकारन्ततोऽन्यत्रावधारणमिति दत्तश्रूतावदारणं स्यात्()--कारकादेव दत्तश्रुतयोरिति। एवं च कारकाद्दत्तश्रुतयोरनन्तरं क्रियमाणे कारकावधारणमिष्टं भवति, न दत्तश्रुतावदारणमिष्टम्()। तेनैवकारः कृतः। किं पुनः कारणं कारकावधारणमिष्यते, न दत्तश्रुतावधारणम्()? इत्याह--"अकारकादपि हि" इत्यादि। "देवैः खाता देवखाता" इति। नात्राशीर्विद्यते, तेनाशिषीति वचनान्नियमो न भवति। ततश्च "संज्ञायाम्()" ६।२।१४५ इत्यादिनान्तोदात्तत्वं भवत्येव। "कारकाद्दत्तश्रुतयोराशिष्येवेत्ययमप्यत्र नियमः" इति। कथं पुनरेकेन योगेन हि नियमद्वयं लभ्यते, एकः पुनरत्र योग इति? यतैव हि ()ओतो धावतीति कश्चित्? तन्त्रेण वाक्यदवयमुच्चारयति तथेहाप्याचर्यस्तन्त्रेण वाक्यमुच्चारितवान्()। तत्रैकेन योगेन कारकाद्दत्तश्रुतयोरेवाशिषीत्येव नियमो भवति, अपरेण तु कारकाद्दत्तश्रुतयोराशिष्येवेत्येष-। तेनाहतो नदति देवदत्त इत्यत्रानाशिषि न भवति। "देवदत्त् इति कस्यचिच्छङ्खस्य नाम" इति यदृच्छाशब्दतां देवदत्तस्य दर्शयन्नाशीरिह न दत्त इति प्रकाशयति॥