पूर्वम्: ७।४।४५
अनन्तरम्: ७।४।४७
 
सूत्रम्
दो दद् घोः॥ ७।४।४६
काशिका-वृत्तिः
दो दद् घोः ७।४।४६

दा इत्येतस्य घुसंज्ञकस्य ददित्ययम् आदेशो भवति तकारादौ किति प्रत्यय परतः। दत्तः। दत्तवान्। दत्तिः। दः इति किम्? धीतः। धीतवान्। धेटः एतद् रूपम्। घोः इति किम्? दाप् लवने दातं बर्हिः। दैप् शोधने अवदातम् मुखम्। अयम् आदेशः थान्तः इष्यते। एवं ह्युक्तम् तान्ते दोषो दीर्घत्वं स्याद् दान्ते दोषो निष्ठानत्वम्। धान्ते दोषो धत्वप्राप्तिस्थान्ते ऽदोषस्तस्मात् थान्तम्। यदि तु दस्ति इति तकारादौ दीर्घत्वं तदा तान्ते ऽपि अदोषः। दान्तधान्तयोरपि सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति नत्वधत्वे न भविष्यतः इति न दोषः। अवदत्तं विदत्तम् च प्रदत्तं चादिकर्मणि। सुदत्तमनुदत्तं च निदत्तम् इति चेष्यते। अच उपसर्गात् तः ७।४।४७ इति प्राप्ते निपात्यन्ते। अनुपसर्गा वा एते अवादयः क्रियान्तरविषया वेदितव्याः।
लघु-सिद्धान्त-कौमुदी
दो दद् घोः ८३०, ७।४।४६

घुसंज्ञकस्य दा इत्यस्य दथ् स्यात् तादौ किति। चर्त्वंम्। दत्तः॥
न्यासः
दो दद्घोः। , ७।४।४६

छन्दसीति निवृत्तम्(); पूर्वसूत्रे चकारेणानुकृष्टत्वात्()। "दत्तः दत्तवान्()" इति। क्तक्तवतू। "दत्तिः" इति। क्तिन्()। "धीतः, धीतवान्()" इति। पूर्ववदीत्त्वम्()। अथ "दधातेर्हिः" (७।४।४२) इति हिरादेशः कस्मान्न भवति? इत्यत आह--"घेट एतद्रूपम्()" इत्यादि। "धेट्? पाने" (धा।पा।९०२) इत्यस्य रूपम्(), न दधातेः। तेन हिरादेशो न भवतीति भावः। "दातम्()" इति। "दाप्? लवने" (धा।पा।१०५९) इत्येतस्यैतद्रूपम्(); तस्य घुसंज्ञा नास्ति; "अदाप्()" १।१।१९ इति प्रतिषेधात्()। "दो दद्घोः" इति जश्त्वेनायं न्र्देशः, तत्र न ज्ञायते--किं तककारान्तोऽयमादेशः? आहोस्विद्दकारान्तः? उत धकारान्तः? अथ थकारान्त इति वा()--इति कस्यचिद्भ्रान्तिः स्यात्(), अतस्तां निराकर्त्तुमाह--"अयमादेशः" इत्यादि। कथं ज्ञायते? इत्याह--"एवं ह्रुक्तम्()" इत्यादि। यद्ययमादेशस्तकारान्तः स्यात्, सुदत्तेत्यत्र "इकः काशे" ६।३।१२२ इत्यनुवत्र्तमाने "दास्ति" ६।३।१२३ इती दीर्घत्वं स्यात्()। अथ दकारान्तः, तदा "रदाभ्याम्()" ८।२।४२ इति निष्ठानत्वं स्यात्()। अथ धकारान्तः, तदा "झषस्तथोर्घोऽधः" ८।२।४० इति झषन्ताद्धत्वमापद्येत निष्ठातकारस्य। "थान्तेऽदोषः" इति। नञोऽत्र प्रश्लेषः। थान्ते दोषो नास्तोत्यर्थः। "तस्मात्()" इत्यादि। यस्मात्? त्रिषु पूर्षकेषु पक्षेषु दोषः, तस्मात्थान्तोऽयमादेशः। उदाहरणे दत्तः, दत्तवानिति "खरि च" ८।४।५४ इति चत्र्वम--थस्य तः। "यदि तु" इत्यादि। द्वौ पक्षौ भाध्ये "दस्ति" ६।३।१२३ इत्यत्र दर्शितौ--"दा" इत्येत()स्मस्तकारादौ, तकारान्ते वेति। तत्र यदि तकारान्ते "दा" इत्येतस्मिन्? दीर्घत्वं भवतीति--एष पक्ष आश्रीयते, तदैव दीर्घत्वप्राप्तिदोषः। यदि तु तकारादौ "दा" इत्येतस्मिन्? दीर्घत्वं भवतीति--एष पक्ष आश्रीयते, तदा तान्तेऽप्यदोषः। यत्र तकारादित्वम्(), "दा" इत्येतस्य, तत्र दीर्घत्वं भवत--नीत्तम्(), वीत्तमित्यादौ, न तु सुदत्तादौ। तस्मात्? पाक्षिको दीर्घप्राप्तिदोषः। "दान्तधान्तयोरपि" इत्यादि। तकारादिसन्नियोगेन हि दान्तधान्तावादेशाविमौ विहितौ नोत्सहेते तद्विघातनिमित्ततामुपगन्तुम्()। तस्माद्दान्तधान्तयोरप्यदोषः। "अवदत्तम्()" इत्यादि। आदिकर्मणि=क्रियारम्भे। आदिभूतक्रियाक्षण इत्यर्थः। अत्र "अच उपसर्गात्तः" ७।४।४७ इति तकारादेशे प्राप्त एतेऽवदत्तादयो निपात्यन्ते। "आदिकर्मणि" इति च सर्वेषां विशेषणम्(), न तु प्रदत्तमित्यस्यैव। आदिकर्मणोऽन्यत्र "अच उपगर्गात्तः" ७।४।४७ इति तकारादेशो भवति, न तु दद्भावः--अवत्तम्(), वीत्तम्(), सूत्तम्(), अनूत्तमिति। "अनुपसर्गाः" इत्यादि। अथ वा--अवादयो ददातिं प्रत्युपसर्गसंज्ञका एव न भवन्ति; तद्वाच्यायाः क्रियया अन्या या क्रिया गमिर्वाच्या तद्विषयत्वात्()--अवगतं दत्तमवदत्तमित्येवमन्यत्रावगन्तव्यम्()। तस्माद्? गमिं प्रत्युपसर्गसंज्ञका एते, न ददातिं प्रति। तथा ह्रुक्तम्()--यं प्रति क्रियायृक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्तीति। तस्मादुपसर्गसंज्ञाया अभावान्नैवात्र तकारः प्रसजेदिति किं निपातनेन!॥
तत्त्व-बोधिनी
दो दद्धोः ७२७, ७।४।४६

दो दद्धोः। इहादेशः थान्त एव, न तु त-द-धान्तः, जश्त्वे कृते संहितायास्तुल्यत्वेऽपि प्रक्रियायां दोषादिति प्राञ्चः। तथा चाहुः-- "तान्ते दीर्घत्वाख्यो दोषो, दान्ते दोषो निष्ठानत्वम्। धान्ते दोषो धत्वाख्यः स्यान्निर्दोषत्वात्थान्तो ग्राह्रः" इति। तदनुसारेणाह-- दथ्स्यादिति। दात इति। दाप् लवने। "अदा"बिति निषेधान्न घुत्वम्। इह सर्वे प्षाः सूपपादा इत्याह--- तान्तो वेत्यादिना। दीर्घापत्तिरिति। विदत्तमित्यादावुपसर्गस्येत्यर्थः। "दस्तीटत्यत्र द्वौ पक्षौ-- इत्यस्य य आदेशः स तकारान्तः" "तकारादिर्वे"ति?। तत्राद्ये पक्षेऽयं दोषो नान्त्ये इत्याशयेनोक्तदोषं परिहरति-- तकारादाविति। निष्टानत्वमिति। "रदाभ्याटमित्यनेन। सन्निपातेति। तादि निमित्तीकृत्य विहतो यो दान्ताद्यादेशः स तकारविघातकनत्वादिविधेर्निमित्तं न भवतीति भावः।