पूर्वम्: ६।१।२३
अनन्तरम्: ६।१।२५
 
सूत्रम्
द्रवमूर्तिस्पर्शयोः श्यः॥ ६।१।२४
काशिका-वृत्तिः
द्रवमूर्तिस्पर्शयोः श्यः ६।१।२४

द्रवमूर्तौ द्रवकाठिन्ये, स्पर्शे वर्तमानस्य श्यैङ् गतौ इत्यस्य धातोर् निष्ठायां परतः सम्प्रसारणं भवति। शिनं घृतम्। शीना वसा। शीनम् मेदः। द्रवावस्थायाः काठिन्यं गतम् इत्यर्थः। श्यो ऽस्पर्शे ८।२।४७ इति निष्थानत्वम्। स्पर्शे शीतं वर्तते। शीतो वायुः। शीतमुदकम्। गुणमात्रे तद्वति च अस्य शीतशब्दस्य वृत्तिर् द्रष्टव्या। द्रवमूर्तिस्पर्शयोः इति किम्? संश्यानो वृश्चिकः।
न्यासः
द्रवमूर्त्तिस्पर्शयोः श्यः। , ६।१।२४

"द्रवमूर्त्तौ द्रवकाठिन्ये" इति। अनेन द्रवमूर्त्तिशब्दस्यार्थमाचष्टे। द्रवावस्थाया उत्तरोऽवस्थाविशेषः काठिन्याख्योऽत्र द्रवमूर्त्तिशब्देनोच्यते। "स्पर्शे च" इति। रूपादिसहचरितो गुणः स्पर्श इत्युच्यते। "शीतमुदकम्" इति। कथं पुनरत्र सामानाधिकरण्यम्(), यावता शीतशब्देन गुणविशेषोऽभिधीयते। वाय्वादिशब्देन तु द्रव्यविशेष इत्यत आह--"गुणमात्रे" इत्यादि। यथा--शुक्लादिशब्दा कदाचिद्गुणमात्रे वत्र्तन्ते, यता--पटस्य शुक्ल इति; कदाचित्तु तद्वति द्रव्ये सोऽयमित्यभेदसम्बन्धतद्वान्मतुब्लोपान्मत्वर्थीयाकारप्रत्ययान्तत्वाद्वा शुक्लः पट इति, तथा शीतशब्दोऽपि। तेन यदा तद्वति द्रव्ये वत्र्तते, तदोभयोरेकद्रव्ये निवेशितत्वादुपपद्यते सामानाधिकरण्यमिति भावः। "संश्यानः" इति। "संयोगादेः" ८।२।४३ इत्यादिना नत्वम्()॥
बाल-मनोरमा
द्रवमूर्तिस्पर्शयोः श्यः ८२९, ६।१।२४

द्रवमूर्ति। "श्यैङ् गतौ" इत्यस्य कृतात्वस्य "श्य" इति षष्ठी। द्रवमूर्तिश्च, स्पर्शश्चेति विग्रहः। मूर्तावित्यस्य विवरणं--काठिन्ये इति। संप्रसारणं स्यादिति। "ष्यङः संप्रसारण"मित्यतस्तदनुवृत्तेरिति भावः। तथा च श्यैङः क्ते आत्त्वे संप्रसारमे पूर्वरूपे शि त इति स्थिते--